सर्गः ११८] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः || मातृवद्वर्तते 'वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥ आगच्छन्त्याश्च विजनं वनमेवं भयावहम् || समा॑हितं मे श्वश्वा च हृदयेतद्धृतं महंत् ॥ ७ ॥ पाणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ | अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ||८|| नैवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि || पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ ९ ॥ सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ॥ तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥ वरिष्ठ सर्वनारीणामेषा च दिवि देवता || रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥ एवंविधाश्च प्रवराः स्त्रियो भृर्तृढव्रताः || देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः || शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥ नियमैर्विविधैराप्तं तपो हि महदस्ति मे || तत्संश्रित्य बलं सीते छन्दये त्वां र्शुचिस्मिते ॥ १४ ॥ उपपन्नं मनोज्ञं च वचनं तव मैथिलि || प्रीता चास्म्युचितं किं ते करवाणि वीहि मे ॥ १५ ॥ तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविसया || कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। १६ ।। सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् || सफलं च हर्ष ते हन्त सीते करोम्यहम् ॥ १७ ॥ इदं दिव्यं वैरं माल्यं वस्त्रमाभरणानि च ॥ अङ्गरागं च वैदेहि महार्ह चानुलेपनम् ॥ १८ ॥ 4 ४३१ १३ ॥ छन्दये वरंवृणीष्वेतिप्रार्थये ॥ १४ १५ ।। मन्दविस्मया मन्दस्मितेत्यर्थः ||१६|| प्रहर्षे ते तुभ्यं । सफलंकरोमि करिष्यामि ॥ १७ ॥ अङ्गरागः अतिसंकटदशायामपिभर्तृविषयदृढव्रतयुक्ताः || १२ | कुङ्कुमहरिचन्दनादिः । अनुलेपनं कर्पूरागरुकस्तूरीप्र- सप्तम्यषष्ठी ॥५-६ ॥ श्वश्र्वा कौसल्यया । यत्पा- तिव्रत्यधर्माचरणंसमाहितं उपदिष्टमित्यर्थः ॥७–९॥ तथावृत्तिस्त्वंचदिवंयातेत्युक्तिः पातिव्रत्यतपोमाहात्म्ये नस्वर्गस्यहस्तगतत्वात् ।। १०–११ ॥ भर्तृढव्रताः - । मातृवर्ती मातृशुश्रूषकः । पितृप्रियः पितुःप्रीतिविषयइत्यर्थः । ति० मातृवत्पितृवत्प्रियः । मयीतिशेषः । प्रियः प्रीतिमान् । ममेतिवाशेषः । प्रीतिविषयइत्यर्थः | ४ | ति० अन्यासामपि नृपनारीणांसुमित्रादीनां विषयेपीत्यर्थः । तथा अन्यासामपिविषये मद- तिरिक्तस्त्री मात्रविषयेपि । तामेववृत्तिंकुरुतइत्यर्थः । नृपनारीणामित्यनेनैव सुमित्रादीनांलाभादित्यन्ये ॥ ५ ॥ ति० नृपेण दश- रथेन । मानं अहंमहाप्रभुरित्यभिमानंव्यक्त्वेत्यर्थः । अन्यमते उक्तार्थेसत्यत्वप्रत्याय नायैतदुक्तिरितिबोध्यं । स० सकृद्दृष्टासु भुक्ता- सु ॥ ६ ॥ ति० यच्च स्वैः आत्मीयैर्बन्धुः । पतिशुश्रूषणादिप्रकारैर्बोधितमर्थजातं तच्चमेन विस्मृतंत्वित्यर्थः ॥ ९ ॥ स० सावित्री सत्यवान्नामकश्चिद्राजा तस्यपत्नी | सावनेमृतं स्वभर्तारं यमंप्रतोष्यतद्वरादुज्जीवितवतीत्यादिकथाज्ञेया । यातेतिसिद्धव त्कृत्योक्तिः ॥ ति० तथावृत्तिः सावित्रीसमानवृत्तिः । कतक० तपोर्थमिहवर्तमानापिपतिसेवया मूर्त्यन्त रेणदिवंयातेत्यर्थः ॥१०॥ शि० दिवं समस्त सिद्धिप्राप्तिजनितातिप्रमोदयाता । ति० रोहिणीति | पूर्वकृतपतिशुश्रूषावशादेवंपतिसाहित्यंप्राप्तमितिभावः ॥ ११ ॥ ति० प्रवराः स्त्रियः अरुन्धत्यादयः ॥ १२ ॥ ति० विस्मिता जाताश्चर्या । अहोतपसोमाहात्म्यंयन्ममापिवरदानेसा मर्थ्य | कृतं भवत्याअनुग्रहेणैव सर्वेमे पूर्णन किंचित्कर्तव्यमस्तीतिभावः । शि० अविस्मिता तदैश्वर्य विषयकविस्मयरहिता ॥ १६ ॥ ति० तथा लोभरहितवाचा । प्रहर्षे लोभराहित्यजंस्खनिष्ठं । ते द्विषयं ॥ वि० तेप्रकर्षं त्वन्निष्ठमेवदिव्यवैभवं । त्वत्पूजनेनस्वा- त्मनिसफलं फलजनकंकरोमीत्यर्थः । हंतेतिहर्षे ॥ १७ ॥ ति० उद्वर्तनेनाङ्गानिरञ्जयतीत्यङ्गरागः केसरचन्दनादिजः । अनुले- त्वनंतुकर्पूरागरुकस्तूरीकङ्कोलैर्यक्षकदमइत्युक्तप्रकारोदिव्यगन्धद्रव्यकल्पइतितीर्थः । कतकस्तु अङ्गराग अङ्गरञ्जनकरं अनुलेपनं [ पा० ] १ घ. धीरो. ख. रामो. २ क. ङ. छ. – ट. हितं हिमेश्वश्र्वा ख. हितंतुमेश्वश्र्वा. ३ ख. ङ. छ. झ, ञ. ट. हृदयेयत्स्थिरंभम. ग. हृदयेऽवस्थितंमहत्. क. च. हृदयेयस्थितंमम ४ ग. ग्रहणकाले ५ ङ. च. झ ञ ट अनुशिष्टं ६ ङ॰ च. छ. झ. ञ. नविस्मृतंतुमेसर्वे. ट. नवीकृतंचमेसर्व. ७ झ. वाक्यैस्स्वैर्धर्म, ८ ग. तपोभिर्महत्. ९ क. ख. ग. ङ, च. झ. ट. शुचिव्रते. १० क. – छ. झ. ञ. ट. उपपन्नंच युक्तंच. ११क. स्म्युच्यतांकिते. झ.ट. स्म्युच्यतांसीते. १२ ख. च. ज. ब्रवीहितत्. ङ. झ. ट. प्रियंचकिं. १३ ख. ग. विस्मिता १४ च. ञ. प्रकर्ष. १५ क. ग. परं. १६ क. ख. ङ. च. छ, झ. ञ. ट. महार्हमनु. V
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३५
दिखावट