सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४३३ दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा || तया संभाविता चासि स्निग्धया मातृसौहदात् ॥ ३३॥ पैतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता || चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३४ ॥ सदृशांचापकृष्टाच्च लोके कन्यापिता जनात् || प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि ॥ ३५ ॥ तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ॥ चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ ३६ ॥ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् || सदृशं चानुरूपं च महीपालः पँति मम ॥३७ तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् || स्वयंवरं तनूजायाः करिष्यामीति धीमतः ॥ ३८ ॥ महायज्ञे तदा तस्य वरुणेन महात्मना || दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ ३९ ॥ असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ॥ तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ४० ॥ तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ॥ समवाये नरेन्द्राणां पूर्वमामत्र्य पार्थिवान् ॥ ४१ ॥ 'इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः || तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥ तच्च दृष्ट्वा धनु श्रेष्ठं गौरवाद्भिरिसन्निभम् || अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४३ ॥ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ॥ विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः || ४४ ।। विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ ४५ ॥ सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिण || धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ ४६ ॥ इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् || [ तेंद्धनुर्दर्शयामास राजपुत्राय दैविकम् ॥ ४७ ॥ ] निमेषान्तरमात्रेण तदानम्य सवीर्यवान् || ज्यां समारोप्य झटिति र्पूरयामास वीर्यवत् ॥ ४८ ॥ णतयावायोज्यं ।। ३१ – ३२ || इष्टवद्देव्यै इच्छावत्यै | रस्क्रियां ॥ ३५ ॥ अप्लव: प्लवरहितः ॥ ३६ || सदृशं देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेनजनकेन । अभिजनवृत्तादिनातुल्यं । अनुरूपं प्रादुर्भूतयौवनाप्र- संभाविता | संवर्धितेत्यर्थः ॥ ३३ ॥ पतिसंयोगेसति |तिमरूपलावण्यादिनायोग्यं ॥३७-३८|| वरुणेनदत्तं वरुणेनातिसहकारिणादत्तं ॥३९–४१॥ भविष्यति ॥ ३४ ॥ प्रधर्षणांति- ! नसंशयइत्यत्र इतिकरणंद्रष्टव्यम् ॥४२॥ तोलने चालने । सुलभं अन्यथा दुर्लभमित्यर्थ: । पतिसंयोगविनास्था- तुमंशक्यौवनावस्थावदित्यर्थः मल्लाभोत्तरंतस्यमहतीसमृद्धिर्जातेतिभावः ॥ ३२ ॥ रामानु० पुण्यकर्मणेतितृतीयान्तः पाठः । केचिश्चतुर्थ्यन्तं पठित्वादेवी वि- शेषणंकुर्वन्ति || ति० इष्टमितिभावेक्तः । इष्टमिच्छा । तद्वत्यै विषयतासंबन्धेनेत्यक्षरार्थः । यद्वा सन्तानेच्छावत्यैदेव्यैइत्य- र्थः ॥ ३३ ॥ शि० पतिसंयोगसुलभं पतिसंयोगः सुलभोयस्मिंस्तत् । वित्तनाशात् अर्जित वित्तस्यादर्शनात् । अधनइवदीनोमे पिता ॥ ३४ ॥ शि० सदृशात् कुलादिनाखतुल्याद्वरपित्रादेः | अपकृष्टात् वरमातुलादेव ॥ ३५ ॥ ति० महायज्ञे दक्षयज्ञे | तस्यमत्पितृपूर्वजस्यदेवरातस्यतदाशत्रुजयसमर्थधनुर्लाभाय तपःकरणकाले । दक्षयज्ञेहि शिवेनपीडितादेवाश्शिवं संप्रार्थ्यधनुर्याचित- वन्तः । सचदेवेभ्योदत्वोक्तवानिदंदेवरातायदीयतामिति । ततोदेवैर्वरुणद्वारादेवरातायदत्तं यद्वा व्रियतेसर्वदेवैरितिव्युत्पत्त्यावरु- शिवएव || शि० उःशंभुश्वासौअरुणोलोहितश्चंवरुणस्तेन | स्वभागाकल्पनजनितको पहेतुकारुण्यविशिष्टशिवेनेत्यर्थः । दत्तंदेवै- दर्दापितं ॥ ३९ ॥ स० नमयितुं नामयितुं ॥ ४० ॥ स० सवीर्यवान् वीर्यवद्भिर्निरीक्षकैः क्षोणीशैस्सहितः सवीर्यवान् । अने- [ पा० ] १ ङ. छ. झ. ट. कर्मणे. २ ख. भर्तृसंयोग. ३ ङ. च. छ. झ ञ. ट. संदृश्यात्मनि. ४ क. च. छ. झ. ञ. ट. नाध्यगच्छत्स. ख. नाध्यगच्छत्सु. ५ ङ. छ. झ. चाभिरूपं. ६ ख ग घ. च. न. पिता. ७ ङ. छ. झ. ट. धर्मतः ८ ज. तथा. ९ ङ. च. छ. झ ञ ट चाक्षय्य. १० छ. बलेनापि ११ न. सूक्ष्मवादिना १२ ख. इदंहि. १३ ख. च. न. सुदीर्घ- १४ ग. ङ. छ. झ. ट. राघवौ. १५ क. ख. च. ञ. पुत्रौ १६ छ. स्यैतौ १७ धनुर्दर्शयेत्यर्ध ङ. छ. झ. पाठेषुनदृश्यते. १८ तद्धनुर्दर्शयामासेत्यर्धे ङ. छ. झ. पाठेषुदृश्यते १९ ख. सराघवः. क. च. सुवीर्यवान् ङ. झ. ट. महाबलः. २० क. वीर्यवङ्कलवद्धनु: ख, ङ. छ. झ ञ ट पूरयामासवीर्यवान्. स्याथ. वा. रा.८७