सर्गः ११७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तामिमां सर्वभूतानां नमस्कार्थी यशस्विनीम् ॥ अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥ १२ ॥ अनसूयेति या लोके कर्मभिः ख्यातिमागता ।[ तां शीघ्रममिगच्छ त्वमभिगम्यां तपस्विनीम् ] ॥१३॥ एवं ब्रुवाणं तमृषि तथेत्युक्त्वा स राघवः ॥ सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ १४ ॥ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् || श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ १५ ॥ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ॥ तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ १६ ॥ शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् || सततं वेपमानाङ्गी प्रवाते केंदली यथा ॥ १७ ॥ ती तु सीता महाभागामनसूयां पतिव्रताम् || अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ १८ ॥ अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ॥ बद्धाञ्जलिंपुटा हृष्टा पर्यपृच्छदनामयम् ।। १९ ।। ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणी ॥ सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ||२०|| त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ॥ अवरुद्धं वने रामं दिव्या त्वमनुगच्छसि ॥२१॥ नगरस्थो वनस्थो वा पोपो वा यदि वा शुभः ॥ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया : २२ दुःशीलः कामवृत्तो वा धैनैर्वा परिवर्जितः ॥ स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ २३ ॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् || सर्वत्र योग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ २४ ॥ 'न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः ॥ कॉमवक्तव्यहृदया भर्तनाथाश्चरन्ति याः ॥ २५ ॥ ११ ॥ या कर्मभिरनन्यशक्यैः परानुग्रहार्थतपोविशे- | दारोग्यं” इत्यमरः ॥ १९ ॥ दिष्टया भाग्येन । षैः । अनसूया असूयारहितेतिलोकेख्यातिमागता । धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेनसमीक्षसे ॥२०॥ यद्वाकर्मभिः पातिव्रत्यवर्धकैः अन्याभिः कर्तुमशक्यैःप- ज्ञातिजनं बन्धुजनं । मानमहंकारं | वनेअवरुद्धं तिरक्षणादिकर्मभिः । अनसूया अस्पर्धनीयमाहात्म्ययु- चतुर्दशवर्षाणिवनेवस्तव्यमितिपित्रानियुक्तं ॥ २१ – क्तत्वादसूयितुमशक्या इतिलोके ख्यातिमागता तामि- २३ || सर्वत्रयोग्यं सर्वावस्थासुरक्षणसमर्थ ॥ २४ ॥ मांवैदेही अभिगच्छत्वितिसंबन्धः ||१२||१३ – १६॥ कामवक्तव्यहृदयाः कामविषयवक्तव्यहृदयाः कामरू- शिथिलामित्यादिश्लोकद्वयमेकान्वयम् | शिथिलां श्ल- पार्थाभिलाषिण्यइतियावत् । यद्वा मदनविधेयहृदयाः । थसंधिबन्धावयवसंनिवेशां । वलितां संजातवलिकाम् भर्तृनाथा: भर्तॄणांनाथभूताः भर्तृनियामिकाइत्यर्थः । ॥ १७–१८॥ अनामयं आरोग्यं । "अनामयंस्या- यद्वा भर्तारंनाथन्तेयाचन्तइतितथा परपुरुषकाङ्क्षिण्य ति० ननुवैदेह्याअल्पवयस्त्वेनव्यवहारानभिज्ञत्वात्क्कचिव्यवहारेस्खलनेऽनर्थस्स्यादतआह-अक्रोधनांसदेति ॥ १२ ॥ रामानु० श्रेयोर्थमात्मनश्शीघ्रमभिगच्छतपस्विनी मित्यतः परं सीतात्वेतदित्यादिश्लोकः । ति० अस्यमुनेः समीरितं वचनंयतश्श्रुतं अतआत्मनश्श्रेयोर्थमित्यादि ॥ १५ ॥ ति० तां अनसूयेत्यन्वर्थनाम्नीं | अभिगम्यां अक्रोधनत्वात् || ति० समुदाहरत् । अभि- वादनांगत्वेनेतिशेषः ॥ १८ ॥ ति० अनामय मिति तपस्विनांखायत्तकुशलतयाऽऽरोग्यप्रश्न एवोचित इतिभावः ॥ १९ ॥ ति० धर्मचारिणीं भर्तृसमानधर्मचारिणीं । दिष्टया दैवयोगेन ॥ २० ॥ ति० मानं राजसुताऽहंकथं व नंगच्छेयमित्येवंरूपं ॥२१॥ ति० शुभः अनुकूलः । अशुभः प्रतिकूलः । प्रियः लौकिकालौकिक निमित्ततोप्रियत्वानास्पदं ॥ २२ ॥ ति० अोविशिष्टं भर्तुर्विशि टं | बान्धवं इष्टबन्धुं । सर्वत्र योग्यं इहामुत्रचेष्टसाधनतयाभजनयोग्यं । तपःकृतं भावेनिष्ठा । तपोनुष्ठानमितियावत् ॥ २४ ॥ ति० कामवक्तव्यहृदयाः कामाधीन हृदया: । “ गृह्याधीनौतुवक्तव्यौ " इत्यमरः । भर्तृनाथा: भर्तॄणांनाथभूतास्तन्नियन्त्रयः । यद्वा भर्तॄन्भोगार्थेनाथन्तेयाचन्तेताःपरपुरुषकांक्षिण्यः । ताश्चरन्ति खेच्छयाइतस्ततोयान्ति । स० कामवक्तव्यहृदयाः यथाकामं [ पॉ० ] १ ङ. च. झ ञ ट तपखिनीं २ ख. गच्छेत्तु. ३ ख. च. ञ. सतीं. ४ अनसूयेत्यर्थं तांशीघ्रमित्युत्तरार्धसहितं सीतावेतदितिश्लोकात्पूर्व राजपुत्रिश्रुत मितिश्लोकात्परं घ. - छ. झ ञ ट पुस्तकेषुदृश्यते. ५ ङ. छ. झ ट . मालोक्य. ६ ङः छं. झ. ट. मब्रवीत्. ७ क. च. ञ. चैतद्वचः. छ. तद्वचनं. ४ ङ. छ. ट. यशखिनी. क. घ. हितैषिणी. ९. ङ. छ. झ. ट. कदलीभिव. १० ज. ततः सीतामहाभागादृष्ट्वातांघर्मचारिणीम्. ११ ख. घ. च. छ. झट. स्वनाम. १२ च. पापीवा. ख. ङ. छ. झं. ञ. ट. शुभोवाय दिवाऽशुभः १३ ख. घ. धनीवाय दिवाऽधनः १४ क. – ज. ञ. ट, नेत्ववमव. झं. नस्वेवमनु. १५ खः काममव्यक्तहृदया. .
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३३
दिखावट