पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्ग: ११२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४१७ लक्ष्मीचन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ॥ अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः ॥ १८ ॥ कामाद्वा तात लोभावा मात्रा तुभ्यमिदं कृतम् ॥ न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ १९॥ एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् || तेजसाऽऽदित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् ॥ २० ॥ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ॥ एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २१ ॥ सोधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ॥ प्रौयच्छत्सुमहातेजा भरताय महात्मने ॥ २२ ॥ स पादुके संप्रणम्य रामं वचनमब्रवीत् || चतुर्दश हि वर्षाणि जटाचीरघरो ह्यहम् ॥ २३ ॥ फलमूलाशनो वीर भवेयं रघुनन्दन || तवागमनमाकाङ्क्षन्वसन्यै नगराहिः ॥ २४ ॥ तव पादुकयोर्म्यस्तराज्यतन्त्रः परंतप || चतुर्दशे हि संपूर्ण वर्षेऽहनि रघूत्तम || न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २५ ॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् || शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २६ ॥ मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ॥ मया च सीतया चैव शप्तोसि रंघुसत्तम ॥ २७ ॥ इत्युक्त्वाऽनुपरीताक्षो भ्रातरं विसर्जह ॥ २८ ॥ उपमन्त्रिभिः ॥१७॥ मयादेवर्षिसंघैश्चपुनः पुनरुच्यमा- | पूज्यत्वंचद्योत्यते ॥ २० ॥ अथमध्यस्थेनोभयोर्हितपरे- नोप्ययंनिवर्तनेच्छांनत्यजेदिति तदिच्छा सवासना त्या- णवसिष्ठेननियुक्तोभरतःप्रार्थयते—अधिरोहेत्यादिना । जयितव्येति स्वप्रतिज्ञादाढ्यै दर्शयति – लक्ष्मीरित्या- अतएवभरद्वाजंप्रतिभरतोवसिष्ठोक्तिमनुवदिष्यति दिना । नप्रतिज्ञां अतीयामितिशेषः ॥ १८ ॥ स्त्रिया कामकृतत्वात्त्यक्तुमियंप्रतिज्ञाऽर्हेत्याशङ्कयाह – कामा- “एतेप्रयच्छसंहृष्टःपादुकेहेमभूषिते” इति ॥ २१ ॥ दित्यादिना। कामात् त्वद्विषयस्नेहात् । लोभात् त्वब्या- अथराम: स्वप्रतिज्ञांभरंतकृतप्रपत्तिंचनिर्वहंस्तथाकरो- जेनराज्यकरणलोभात् । मातृवत् मातरीव ॥ १९ ॥ ति - सइति । प्रायच्छत् गृहाणेत्यन्वयुत ॥ २२ ॥ तेजसादित्यसंक।शमित्यनेनानिवर्त्यप्रतिज्ञत्वमुच्यते । प्र- सइत्यादिसार्ध श्लोकत्रयमेकान्वयं । चतुर्दशेवर्षेसंपूर्णे- तिपञ्चन्द्रदर्शनमित्यनेन क्रमेणराज्येपूर्णप्रतिष्ठत्वंसर्वैरपि सति अनि उत्तरवर्षादिमदिने । प्रवेक्ष्यामीत्यन्तेइति । नेनिरन्तरवनवासविषयकप्रतिज्ञाहानिर्नभवितेतिसूचितम् ॥ १६ ॥ तनि० लक्ष्मीः कान्तिः । चन्द्रादपेयात् इन्दुक्षयादिषुताद र्शनात् । उदाहरणान्तरमाह - हिमवान्वेति । ग्रीष्मकाले हिमवतोपिहिमपरिक्षयसंभवात् । सागरोप्यतीयाद्वेलां प्रलयेवेलोक्लङ्घन- संभवात् । शि० लक्ष्मीः शोभा अपेयात् रात्रावपगच्छेत् ॥ १८ ॥ ति० तुभ्यं तव । कामात् देवानामिच्छातः । लोभाद्वा लोभादेव । तेषांदेवलोकराज्यलोभात् | तवमात्रा देवैरेवमन्थराद्वारा इदं कृतं कारित मितिगूढोर्थः । स० कामात् ईशेच्छायाए- व | लोभाद्वा लोभादिव | मातृवत् मन्मातृवत् ॥ १९ ॥ ती० तेज़सादित्यसंकाशमित्यनेन परैरप्रवृष्यत्वं प्रतिपञ्चन्द्रमित्यनेन सर्वैरपिपूज्यतयादृश्यमानत्वं वर्धिष्णुत्वं चिरमदर्शनं द्योत्यते ॥ २० ॥ स० हेआर्य अधिरोह पादुकयोः पादौस्थापयेत्यर्थः । एतेचपादुके भरतेन सहानीतेइतबोध्यं । अन्यथा रामस्य वस्त्राणिगृहीत्वाऽजिना निदत्तवत्याः कैकेय्यारामायहेमपादुकादानस्यानुचि- तत्वात् ॥ ति० एते उटजसन्निहिते । अधिरोहेत्यनेन भद्रासनस्थानीयपादुकयोःप्रतिनिधिभूतयोरारोहणेन राज्यप्रतिपत्तिःकारिता । शि० विधास्यतइत्यनेन पादुकयोश्चेतनत्वंध्वनितं । तेन तयोः प्राकृत विलक्षणत्वंसूचितं ॥ २१ ॥ ति० सरामः पादुके अधिरुह्य व्यवमुच्य पुनस्ततोवमुच्य भरतायप्रायच्छत् । एतेन प्रतिनिधिदानद्वाराराज्यरक्षानियोगःकृतः । प्रतिपद्यस्थापयेतिचिरंभरतप्रार्थ- न॑चसाधितं । अधिरोहणेनशक्तिविशेषस्यतत्रस्थापनं । यद्दर्शनेन सर्वज्ञत्व संपत्तिरितिबोध्यं । तदुक्तंपाद्मे “ ज्ञात्वातदाज्ञांताभ्यां- म्वभरतः क्षितिमन्वशात् ” इति । ताभ्यांपादुकाभ्यांत द्दर्शनमात्रेणेहशेविषयेभगवतएवमाज्ञतिज्ञात्वातथाव्यवहारमकरोदित्यर्थः । भरतस्तु पाञ्चजन्यावतारत्वादाच्छादितसार्वज्ञइत्यनेन सूचितम् । भगवत्स्पर्शेनाचेत नेपिसार्वज्ञदान शक्तिमत्त्वमितिभगवन्माहात्म्याति- शयद्वारारामस्येश्वरत्वंचसूचितं ॥ २२ ॥ ति० शप्तोसि रोषाकरणायेतिशेषः ॥ २८ ॥ [ पा० ] १ च. अ. हिमवाञ्शीततां. २ ङ. झ. ट. व्यवमुच्य. ३ च. न. प्रायच्छत्स. ४ क. ङ. छ. झ. न. ट. न्यस्यरा. ज्यतन्त्रं. ख. ग. न्यस्तोराज्यभारः ५ ग. ज. वर्षेहिरघुनन्दन. ६ क. घ. ज. संपरिष्वज्य. ७ घ. शत्रुघ्नंभरतंचेदंरामोवचन- मब्रवीत्. ८ ङ. च. छ. झ ञ ट वचनं. ९ ख. घ. – ट, रघुनन्दन. वा. रा. ८५ ✓