पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P C श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् || अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया |॥ ८ ॥ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ॥ यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥९॥ सत्यमेवानृशंसं च राजवृत्तं सनातनम् ॥ तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे | सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥ ११ ॥ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ॥ धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥ सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ॥ सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ||१३|| दत्तमिष्टं हुतं चैव तप्तानि चं तपांसि च ॥ वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् ॥ १४ ॥ एकः पालयते लोकमेकः पालयते कुलम् || मज्जत्येको हि निरैय एकः स्वर्गे महीयते ॥ १५ ॥ सोहं पितुर्नियोगं तु किमर्थं नानुपालये || सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ १६ ॥ ४०४ ध्यामियदि दुर्वृत्तंमां चेतयान: ज्ञानवान् कः पुरुषः लोकेबहुमंस्यति नकोपीत्यर्थः ॥५- ७॥ नकेवलंबहु- मानहानि : परलोकहानिश्चेत्याह – कस्येत्यादिना । अहं हीनप्रतिज्ञया वनवासप्रतिज्ञारहितया । अनयावृत्त्या “परोक्षंपृष्ठतःकुरु” इतित्वदुक्तयावृत्त्यावर्तमानः सन् | वृत्तं त्वदुक्ताचरणं । कस्य धास्यामि आधास्यामि उप- देक्ष्यामीत्यर्थः । दास्यामीतिपाठान्तरं । केनवासाधने- नस्वर्गमाप्नुयामितियोजना ॥ ८ ॥ त्वदुक्ताचरणेसर्व- लोकस्यापिपरलोकहानिः स्यादित्याह- कामवृत्तइत्या- | प्रतिष्ठाना: सत्याधारा: । सत्यप्रतिष्ठानानीतिविपरि- दिना ॥ ९ ॥ सत्यप्रशंसापूर्वकंसत्यनिष्ठां दर्शयन्सत्य- णम्यपूर्वार्धेनयोज्यं ॥ १४ ॥ प्रस्तुतसत्यनिष्णातस्यै- परत्वरूपस्वमतंस्थापयति - सत्यमेवेत्यादिना । अनृ- हिकामुष्मिकफलं तद्रहितस्यनिरयप्राप्तिंचदर्शयति सत्यरूपमेव तस्मात् राजवृत्तस्यसत्यरूपत्वात् । राज्यं राज्यस्थजनजातं | सत्यात्मकं सत्यरूपं सत्यप्रधानमि- तियावत् । लोकइतिजात्येकवचनं ।। १० ।। मेनिरे उत्कृष्टमितिशेषः । परमंक्षयं परमंधाम । " धिष्ण्यं धामनिकेतनंच सदनंवस्त्यंचवास्तुक्षयः" इतिवैजयन्ती ॥ ११ ॥ उद्विजन्ते जनाइतिशेषः ॥ १२ ॥ ईश्वरःनियन्ताव्यवस्थापंकइतियावत् ॥ १३ ॥ सत्य- शंसं भूतानुकम्पाप्रधानं सनातनंच राजवृत्तं सत्यमेव – एकइत्यादिना ॥ १५ ॥ सत्यप्रतिश्रवः सत्यसन्धः एवशुभंहित्वा अशुभंप्राप्नुयामितिशेषः ॥ ६ ॥ शि० हीनप्रतिज्ञया हीना निवृत्ता प्रतिज्ञायस्यां तथा अनावृत्त्यावर्तमानोऽहं वृत्तं स्वधर्मच्युतिरूपवृत्तान्तं । कस्ययास्यामि प्रापयिष्यामि कथयिष्यामीत्यर्थः । केनकर्मणा उपलक्षितंजनंवर्ग अवाप्नुयां प्रापयेयं ॥ ८ ॥ ति० सत्यपरः सत्यं परंश्रेष्ठंयस्यसः धर्मः सर्वस्यमूलमुच्यते ॥ १२ ॥ ति० लोके ईश्वरस्सत्यमेव सत्यपदवा- च्यइतिप्रसिद्धइत्यर्थः । तथा सद्भिरातिधर्मः सत्ये सत्यपदवाच्येईश्वरे । प्रतिष्ठितः । आदौतस्यैवधर्मोपदेष्टृत्वादित्यर्थः । सत्येपद्माप्रतिष्ठितेतिपाठान्तरं । पद्मा लक्ष्मीः | सत्यमूला निसर्वाणीत्यनेन जगदुपादानप्रवर्तकत्वेन सर्वाधिष्ठानत्वेन च तत्सिद्धिर्दर्शि- ता । तस्यैवतत्त्वेहेतुमाह | सत्यात्परंपदनास्ति । अनेन तदितरस्यसर्वस्यमिथ्यात्वमचेतनत्वं चदर्शितं । एतेन चेतनानधिष्ठिता मायैवजगदुपादान कारणमितिनिरस्तं | चेतनाधिष्ठानं विनातत्परिणामासंभवात् । तस्याः परिणामित्वेन मिथ्यात्वेनचेतनाधिष्ठानत्वा- संभवाच ॥ १३ ॥ ति० एवंनास्तिकंप्रतीश्वरं प्रसाध्यवेदप्रामाण्यं साधयति - दत्तमित्यादि । दत्तादीनिप्रतिपादयन्तोवेदाः सत्यप्रतिष्ठानाः सत्यादीश्वरात् श्वासप्रश्वासवदाविर्भूता इतिवक्तृदोषशंकाकलङ्कराहित्येनतत्प्रतिपादितदानादीनांफलसंवाददर्शनेनच सर्वत्राप्रामाण्यशङ्कारहिताः किंतुस्वतः प्रमाणभूता एवेतिभावः । तस्मात् सत्यस्य ईश्वरवाचकवाच्यत्वेन तदभेदात्सल्यपरः सत्यपरि- पालनतत्परोभवेदित्यर्थः ॥ १४ ॥ ति० वेदोक्तधर्माधर्मफलस्यप्रत्यक्षमनुभूयमानत्वेन तत्प्रामाण्यं सिद्धमित्याह - एकइति । लोकं राज्यं । कुलं स्वकुलमात्रं । एतेनपालनसाधनधर्मफलतारतम्यस्य वेदोक्तस्यानुभवोदर्शितः । निरयोत्रदुःखं | स्वर्गश्च सुखं । तेनधर्माधर्मफलानुभवोदर्शितः । स० एकः अन्यः । “एकेमुख्यान्यकेवलाः" इत्यमरः ॥ १५ ॥ स० सत्येनशपथेन समयीकृतः कैकेय्याप्रतिज्ञावान्कृतः यतः अतः कथंनानुपालये | कृतमित्यपिपाठः । ति० सोहं उक्तरीत्या एवं विवेकवानित्यर्थः । [ पा० ] १ क. ख. ग. ङ. च. छ. झ. ट. यास्याम्यहं. २ क. वृत्तिं. ३ क. ग. ङ.. — ट. वर्तमानोहं. ४ ङ. छ. झ. ञ. ट. वृत्तोन्वयं. क. घ. च. ज. वृत्तस्वयं. ५ क. ख. ऋषयश्चहि. ६ ङ. छ. झ. ट. परंगच्छतिचाक्षयं. ७ ङ, छ, झ, ञ, ट. सत्यपरो. ८ ङ. छ. झ. ट. सर्वस्य. ९ ङ. च. छ. झ..ट. सत्येधर्मः सदाश्रितः घ. सत्यंपद्मासनाश्रिता. ख. ग. ज. सत्यं पद्मासमाश्रिता १० घ. सुतपांसि. ११. ङ. नरके १२ क ख ङ. छ. झ ञ ट र्निदेशं. १३ ङ. छ. झ. ट. कृतं.