३९० श्रीमद्वाल्मी किरामायणम् । [ अयोध्याकाण्डम् २ यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ॥ तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २१ ॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव || मातापितृभ्यामुक्तोऽहं कथमन्यत्समाचरे ॥ २२ ॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसंस्कृतम् || वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २३ ॥ एवं कृत्वा मँहाराजो विभागं लोकसंनिधौ ॥ व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २४ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव || पित्रा दत्तं यथा भागमुपभोक्तुं त्वमर्हसि ॥ २५ ॥ चतुर्दशसमा सौम्य दण्डकारण्यमाश्रितः ॥ उपभोक्ष्ये त्वहं दत्तं भांगं पित्रा महात्मना ॥ २६ ॥ यदत्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ॥ तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमैथ्यहम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुरुत्तरशततमः सर्गः ॥१०४ ॥ पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ भरतेनरामंप्रतिपित्रास्वस्मैराज्यदाने पिकैकेय्य नुसत्यास्वेनत स्मैराज्यदानोक्तिपूर्व कंतःस्वीकारप्रार्थना ॥ १ ॥ रामेणस्ववन- गमनस्यास्महेतुकत्वज्ञानेनदूयमानंभरतंप्रतिशास्त्रार्थोपन्यासे नसमाश्वासन पूर्वकं राज्यपालनचोदना ॥ २ ॥ ततः पुरुषसिंहानां वृतानां तैः सुहृदणैः ॥ शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ १ ॥ लेवसनमुत्तरीयंयस्यतं । कृष्णाजिनं अम्बरं अधराम्बरं | परमात्मनोहितं आत्मनः परहितं ॥ २७ ॥ इति यस्यतं । ईश्वरः नियन्ता ॥ २० ॥ पितरि यावत् श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- यत्परिमाणकंगौरवं । जनन्यामपि तावत् तत्परिमा- |म्बराख्याने अयोध्याकाण्डव्याख्याने चतुरुत्तरशत- णकंगौरवं कर्तव्यमितिशेषः । यत्तच्छब्दाभ्यां “यत्त - तमः सर्गः ॥ १०४ ॥ देतेभ्यः परिमाणेवतुप् ” इतिवतुप् ॥ २१ ॥ फलित- माह - एताभ्यामिति । समाचरे समाचरामि कथं समावराणीत्यर्थः ॥ २२–२४ ॥ पित्रादत्तंभागं यथा यथावत् । उपभोक्तुमित्यन्वयः ॥ २५ – २६ ॥ | त्त्वोपदेशेनेत्येतत्पश्चोत्तरशततमे - ततः पुरुषसिंहाना- वियोजनमितियावत् ॥ १८ ॥ स० एवंविभागं तद्बोधकवाक्यं ॥ २४ ॥ ति० यथाभागं पितृकल्पितचतुर्दशवर्षपर्यन्तं । अनेन तदनन्तरमहंभोक्ष्यामीतिसूचितं । मात्रापि चतुर्दशवर्षपर्यन्तंवनवासएववृतः नतुसर्वथामेराज्यत्यागः पित्रापि तावदेवानुमतमि- तिभावः ॥२५॥ ती० ननु “आर्यतातः परित्यज्यकृत्वा कर्मसुदुष्करम् । गतस्स्वर्गमहाबाहुः पुत्रशोकाभिपीडितः” इति “इमाःप्रकृ- तयस्सर्वाविधवामातरश्चयाः । त्वत्सकाशमनुप्राप्ताः” इतिभरतेनोक्ते रामस्तदा नी मशोच॑स्त दुल्लंघ्याभिषेकप्रत्याख्यानमेव कि मितिकृ तवान् । नैषदोषः तस्मिन्भरतवाक्यप्रबन्धेपितृमरणमानुषङ्गिकत्वेनोक्तं प्राधान्येनराज्यस्वीकरणमेवोच्यते । अतोरामस्तदेवं मन्यते पितापुत्रशोकेनमृतकल्पोनपुनर्जीविष्यतीतिमृतइत्युच्यते । मातरश्च विधवाकल्पाइतिविधवाइत्युच्यन्ते । अनेनममाभिषेकवच- नमेवप्राधान्येनोच्यतइत्यशोचन्नभिषेकप्रत्याख्यानंकृतवान् । खवाक्येपिपितृमरणानुवादस्यचायमेवपरिहारः ॥ ति०पितामहात्मा ब्रह्मणातुल्यः | अव्ययं सर्वलोकेश्वरत्वं ब्रह्मत्वं पित्रननुमतमितिशेषः । नहितमित्यन्वयः । ननुपितृमरणश्रवणोत्तरंशोक मुल्लङ्ख्या- भिषेकप्रत्याख्यानमेवकुतइतिचेच्छृणु । भरतस्याभिषेककरणप्रत्याशा वारणाय कैकेय्या लोकानांचान्यथासंभावनावारणायशोककाले- मिधैर्यमवलंब्यतत्करणं शोकका लेप्येवधैर्य कर्तव्यमितिलोकोपदेशायेतिम मप्रतिभाति ॥ कतक० गतस्स्वर्गमितिभरतेनोक्ते पितृमर- णोचित सर्व कार्य करणेकृते भरतः “तस्यमे" इत्यायुक्तवान् । कविस्तु संक्षेपेणादावुक्त्वाऽग्रे विस्त रेणवदतीतिप्रायः कवेस्वभावः ॥२७॥ इति चतुरुत्तरशततमस्सर्गः ॥ १०४ ॥ अथपुनर्भरतस्यकैकेयीनिर्बन्धकृतपितृनियोगपरि- हारोचितवचनपूर्वकंप्रार्थनंरामस्यचतत्समाश्वासनंत- शि०शोचतां रामानयनोपायंचिन्तयतामित्यर्थः ॥ १ ॥ [ पा० ] १ रु. ख. ग. ङ. छ. झ. ञ. ट. धर्मज्ञ. २ क. ख. ङ. च. छ. झ ञ ट सत्कृते. ३ ङ. च. छ. झ. ६ ग. महाभागो. ७ क. च. ञ. महाभागोदिवं. ८ क. न. ठ. कृतां. ४ ङ. संमतं. ५ ख. ग. ङ. छ. झ. ट. एवमुक्त्वा धर्मज्ञः ९.८. चयद्दतं. ग, तुतद्वृत्तं. ख, तुमेदत्तं . १० घ. पित्राभागं ११ ग. चिरमात्मनो १२ ङ. झ. ट. मव्ययं,
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९४
दिखावट