1, ३७६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ॥ योधेषु मित्रवर्गेषु कच्चिद्रच्छति ते व्ययः ।। ५६ ।। कच्चिदार्यो विशुद्धात्माऽऽक्षारित थोरकर्मणा ॥ अॅपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ ५७ ॥ गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारणः ॥ कच्चिन्न मुच्यते चोरो धनलोभानरर्षभ ।। ५८ ॥ व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव || अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ५९ ॥ यानि मिथ्याभिशस्तानां पतन्त्यत्राणि राघव || तानि पुँत्रपशून्मन्ति प्रीत्यर्थमनुशासतः ॥ ६० ॥ • कच्चिद्वृद्धांश्च बालांश्च वैद्यैमुख्यांच राघव | दानेन मनसा वाचा " त्रिभिरेतैर्बुभूषसे ।। ६१ ॥ कच्चिद्गुरूंच वृद्धांश्च तौपसान्देवतातिथीन् || चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नैंमस्यसि ॥ ६२ ॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ॥ उँभौ वा प्रीतिलोभन कामेन चै न बाधसे ।। ६३ ।। कञ्चिदर्थं च धर्मं च कामं च जयतांवर ॥ विभज्य काले कालज्ञ सर्वान्वरद सेवसे ।। ६४ ।। स्त:" च्छतिकञ्चित् तेभ्योपरि मितंनदेयमितिभावः ॥५५॥ध | कुर्वतइत्यर्थः || ६० || दानेन अभिमतवस्तुप्रदानेन । नव्ययस्योचितविषयमाह – देवतार्थ इत्यादिना ॥५६॥ मनसास्त्रेहेन | वाचा सान्त्ववचनेन । एतैत्रि- विशुद्धात्मा विशुद्धस्वभावः । शुचि: करणत्रयशुद्धि- भिर्बुभूषसे प्राप्नुमिच्छसि वशीकर्तुमिच्छसिकच्चिदि- युक्तः । आर्यः सज्जनः । यदृच्छया चोरकर्मणा । तियावत् । भूप्राप्तावात्मनेपदीतिगणपाठेपठितत्वा- आक्षारितः अभिशस्त : "आक्षारितः क्षारितोभिश- दात्मनेपदी ॥ ६१ ॥ चैत्यान् देवतावासभूतचतुष्प- इत्यमरः । शास्त्रकुशलैः अपृष्टः प्रश्नेनअशोधि- थस्थमहावृक्षान् । सिद्धार्थान् निष्पन्न प्रयोजनान् या- तःसन् लोभाद्धनलोभान्नबध्यतेकञ्चित् ॥ ५७ ॥ पृष्टः गादिनालब्धामुष्मिक प्रयोजनानितियावत् ॥ ६२ ॥ प्रश्नैःशोधितः। कालेकालविशेषे दृष्टः सकारण: चौर्य- अर्थेनधर्मेनबाधसेकच्चित् धर्मार्जनयोग्येपूर्वा अ लब्धद्रव्यवत्तयावादृष्टः । लोभात् मुषितंधनंतवदा- र्थार्जनंकृत्वाधर्मनबाधसेकञ्चिदित्यर्थः । धर्मेणार्थनबा. स्यामीतितद्दत्तधनलोभात् । नमुच्यतेकच्चित् ॥ ५८ ॥ धसे अर्थार्जनयोग्येअपराह्णेधर्मार्जनंकृत्वाअर्थनना- आढयस्य दुर्गतस्य दरिद्रस्यच । व्यसने विवादरूप - शयसिकञ्चिदित्यर्थः । प्रीतिलोभेन सुखाभिला- सङ्कटेप्राप्ते । अर्थ व्यवहारं । “अर्थ: स्याद्विषयेमोक्षे षेण हेतुना । कामेन सायंकालविहितेनका शब्दवाच्येप्रयोजने । व्यवहारेधनेशास्त्रेवस्तुहेतुनिवृ- मेन । उभौवानबाधसेकञ्चित् । यद्वा अर्थेनहेतुनाधर्मन त्तिषु” इतिवैजयन्ती । विरागा: विगतधनरागा: । बाघसेकञ्चित् । धर्महित्वाअर्थनगृहासीत्यर्थः । तथाधर्मे- पश्यन्ति परीक्षन्तेकच्चित् ॥ ५९ ॥ मिथ्याभिशस्ता- णहेतुना कुटुम्बनिर्वाह । द्यपेक्षितमर्थनबाधसे । धर्मार्था - नां राज्ञां अविचार्यप्रवर्तित मिथ्याभियोगानांप्रजानां वुभावपि प्रीतिलोभेन सुखेच्छया । कामेनचहेतुना यानि अस्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशा- नबाधसे । गणिकादिसक्तावुभयमपिहिनश्यति ॥६३|| सतः राज्ये न्यायान्यायावविचार्यकेवलभोगार्थराज्यं | उक्तमर्थसविशेषमाह – कञ्चिदिति । अर्थचधर्मचका- ति० आर्यः साधुः । शुद्धात्मापिसन् अपकर्मणा स्तेयागम्यागमनादिदोषेण | क्षारितः अभिशस्तः । शास्त्रकुशलैः धर्मशास्त्रकु- शलैः ।अदृष्ट एव अनिर्णीत दोषएव । लोभात धनलोभान् । शुचिरपि न वध्यते नदण्ड्यते कच्चित् ॥ ५७ ॥ ति० दुर्बलस्य दरिद्रस्यच व्यसनेविषादरूपसंकटे राजकीयैकनिवर्सेप्राप्ते । तवामात्याः विरागास्सन्तः विगतधनरागास्सन्तः अर्थ तयोर्व्यवहारंपश्य- न्तिकच्चित् ॥ ५९ ॥ शि० पादन्यासानीतिपाठान्तरं । तदा जायन्तइतिशेषः । आषैनपुंसकत्वं ॥ शि० प्रीत्यर्थे एकत्रप्री- तिसंपादनार्थ ॥ ६० ॥ शि० चैत्याः अग्निचयनस्यस्थलानि ॥ ६२ ॥ [ पा० ] १ ख. घ. ब्राह्मणेष्वागतेषु. २ ङ. झ. ट. दार्थोपि. ३ ङ. छ. झ. ट. श्चापकर्मणा. ४ घ. ङ. छ. ज. ट. अदृष्टः, ५ क.―च. दृष्टश्च. ६ क. च. पृष्टः, ७ ग. व्यसनैः ८ च. छ. श. ट. दुर्बलस्य. ९ क. ख. घ. त्यास्राणि. च. ब. न्त्यभ्रूणि. १० क. च. ज. पुत्रान्पशून्. ११ ख. ङ. छ. झू. ट. वैद्यान्मुख्यांच. १२ ग. त्रिभिरेव. १३ ग. ज. दैवतातिथीन्. १४ ग. वैद्यांश्च. १५ ग. सिद्धांश्च १६ घ. श्चानुमन्यसे ख. श्चनमस्य से १७ च. ज. उभौच १८ ग. योगेन. १९ कं. ख. ग. ङ. च. छ. झ. ञ ट नविबाधसे. २० क, ङ, च, छ. झ. ज. ट. कामंचधर्मच २१ ङ. कालेच. २२ ख. ग. च. ञ. ट. भरत.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८०
दिखावट