पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः || कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥ कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे || विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ [ मैन्थरे तद्रवीद्यद्य कुतस्ते भयमागतम् ] ॥ १७ ॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् || उवाच क्रोसंयुक्ता वाक्यं वाक्यविशारदा ॥१८॥ सा विषण्णतरा भूत्वा कुब्जा तैस्या हितैषिणी ॥ विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १९॥ अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् || रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २० ॥ साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता || दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ २१ ॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् || त्वद्वृद्धौ मम वृद्धिश्च भवेदैत्र न संशयः ॥ २२ ॥ नराधिपकुले जाता महिषी त्वं महीपतेः ॥ उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे || २३ || धर्मवादी शठो भर्ता लक्ष्णवादी च दारुणः || शुद्धभावेन जानीषे तेनैवमतिसन्धिता ॥ २४ ॥ उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् || अर्थेनैवद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५ ॥ अॅपवाह्य स दुष्टात्मा भरतं तव बन्धुषु || कॉल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६ ॥ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया || आशीविष ईंवाङ्केन वाले परिहॅतस्त्वया ॥ २७ ॥ ८८ कालिकात्मश्लाघापरेत्यवगन्तव्या । इदानींमत्सौभाग्य - | ममदुःखादिहेतौसतिकुतस्तेदुःखप्रसक्तिरित्यत्राह - स्यकाहानिरित्यत्राह–चलंहीति । उष्णंगच्छतीत्यु- तवेति ॥ २२ ॥ ननुरामाभिषेकमात्रंकथंमेदुःखहेतु - ष्णगः ग्रीष्मकालः । तस्मिन् । नद्याः स्रोतइव चलं क्षीण - रित्यत्राह – नराधिपेति । उग्रत्वं क्रौर्य ॥ २३ ॥ न- मित्यर्थः ॥ १५ ॥ परुषंवचउक्ता । अप्रधानेदुहा- नुमत्प्रियः कथमनिष्टंकरिष्यतीत्यत्राह - धर्मवादीति । दीनां " इत्यप्रधानेकर्मकारकेनिष्ठा ॥ १६ ॥ कञ्चि- धर्मवादीवभासमानः । वस्तुतःशठ: गूढविप्रियकृत् । “त्क्षेमं मह्यमितिशेषः ।। १७ ॥ क्रोधसंयुक्ता रामाभि- लक्ष्णवादी कण्ठादुपरिप्रियवचनशीलः । दारुणः क्रू- षेकाविचारणादितिभावः ॥ १८ ॥ विषादयन्तीभेदय- रकर्मकारी । एवंभूतमेनंशुद्धस्वभावेनोपलक्षितंजानी- ‘न्तीतिशतृद्वय॑हेत्वर्थं । राज्यश्रियोज्ञातिगामित्वानिष्टप्र- षे । तथानमन्तव्यं । यतस्तेनैवं अतिसन्धिता वञ्चि-. काशनेनविषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविष- ता ॥ २४ ॥ शठत्वमेवाह — उपस्थितमिति । उपस्थि- यस्नेहभेदनहेतवेचेत्यर्थः ॥ १९ ॥ अक्षय्यं अशक्य- तं तत्कालोचिततयाभाषितं । अनर्थकं त्वदर्थनाशनं । प्रतीकारं । त्वद्विनाशनं त्वद्विनाशः । भावेल्युट् त्वयिसान्त्वं अनुसरणं । प्रयुञ्जान: कौसल्यामर्थेन ॥ २० ॥ दुःखशोकसमन्विता अनभिमतरामाभिषे- योजयिष्यति ॥ २५ ॥ अतिसन्धानप्रकारमाह - कश्रवणजनितव्यसनजंदुःखं । अभिमतभरताभिषेक- अपवाह्येति । अपवाह्य उद्वांस्य । कालमर्हतीतिका राहित्यजःशोकः । ताभ्यांसमन्विता ॥ २१ ॥ ननु | ल्यं अर्हार्थेयत् । श्वःप्रातरित्यर्थः ||२६|| हेबाले मुग्धे । ति० विषण्णतराभूत्वा तदाकारेवभूत्वा अप्सरस्त्वेनसर्वज्ञत्वाद्वास्तव विषादाभावात् ॥ १९ ॥ ति० ननुदास्यास्तवकुतोभय- मित्यतआह - तवेति ॥ २२ ॥ ती० धर्मवादीवाङ्मात्रेणधार्मिकः । शुद्धभावेइतिसंबोधनं । हेशुद्धहृदये ॥ २४ ॥ ती० उप- स्थितः त्वत्समीपेस्थितः ॥ २५ ॥ ति० काल्ये अन्यत्रोपसंक्रमणकाला । कौल्येइतिपाठः | कुलक्रमागतइत्यर्थेआर्षः ॥ २६ ॥ ती० परिहृतइतिपाठे बालेअपरिहृतइतिच्छेदः । वस्तुतस्तुत्याज्य एवेतिभावः ॥ २७ ॥ इतिसप्तमस्सर्गः ॥ ७॥ [ पा० ] १ घ. दुष्टयां. २ क. ख. ज. ट. त्क्षेमंनुमन्थरे ३ इदमर्धे ख. दृश्यते. ४ क. च. ज. क्रोधसंरब्धा. ५ झ. तस्यांहितैषिणी. ६ ज. अक्षयंहिमहद्देवि . ख. ग. ङ. छ. झ. ट. अक्षयं सुमहद्देवि. घ. ज. अक्षेमंसुमहद्देषि. क. अक्षमहिमहेवि. ७ क. अभिषेक्ष्यते. ८ घ. सास्म्यभागेभये. ९ ख. नानलेनैव १० क. च. ज. दुःखंभवेन्महत्. ११ क. ञ. भवेदेवनसंशयः. ङ. ट. भवेदिहनसंशयः छ. ज. भवेदत्रनसंशयः. १२ ज. मभिवञ्चिता. १३ क. ख. ङ च छ. झ ञ ट उपस्थितः- प्रयुञ्जानः १४ ग. घ. ङ. छ. झ. ट. अपवाह्यतु. ख. अपवाह्यसु. १५ क. ख. च. काल्यं. छ. कौल्ये. १६ घ. ङ. झ. इवांगेन. १७ ङ. च. छ. ज झ ञ परिभृतस्त्वया. 6₁,