पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ॥ शुक्लदेवगृहद्वारां सर्ववादित्र निखनाम् ॥ ४ ॥ संग्रहृष्टजनाकीण ब्रह्मघोषोभिनादिताम् ॥ ग्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ ५ ॥ हृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् || अयोध्यां मन्थरा दृष्ट्वा परं विसयमागता ॥ ६ ॥ मँहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ॥ अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ ७ ॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती || राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥ ८ ॥ अतिमात्र प्रहर्षोऽयं किं जनस्य च शंस मे || कारयिष्यति किंवापि संग्रहृष्टो महीपतिः ॥ ९ ॥ विदीर्यमाणा हर्षेण धात्री तु परया मुदा || आचचक्षेथ कुब्जायै भूयसीं राघवश्रियम् ॥ १० ॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ॥ राजा दशरथो राममँभिषेचयिताऽनघम् ॥ ११ ॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता || कैलासशिंखराकारात्प्रासादादवरोहत ॥ १२ ॥ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ॥ शँयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ॥ उपप्लुतमघौघेन किमात्मानं न बुध्यसे || १४ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे || चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ॥ ३३ तैः ॥ ३ ॥ रामोपायनार्थैमाल्यमोदकहस्तैः । शुक्लदे - | किं किमर्थं | किंनिमित्तंवामहीपतिः किंकर्म कारयि वगृहद्वारामिति । शुक्लानिसुधाधवलितानिदेवगृहद्वारा- ष्यति ॥ ९ ॥ हर्षेणविदीर्यमाणा अन्तर्गतहर्षोत्कट्या- णियस्यां ।।४।। ब्रह्मघोषाभिनादितां ब्रह्मघोषैः वेदपारा- देहपोषमुखविकासादिनाबहिःप्रसरणाद्विदीर्यमाणेवो- यणघोषैःअभिनादितां।“वेदस्तत्त्वंतपोब्रह्म” इत्यमरः । पलक्षिता | परयामुदाआचचक्षे स्वनिर्भरानन्दसन्दो- रामाभिषेकस्यतिरश्चामप्यानन्दावहत्वात् "प्रहृष्टवरह- हपरिवाहस्यपालभूताकाचिल्लब्धेतिपरमानन्दयुक्तास- स्त्यश्वांसंप्रणर्दितगोवृषां” इत्युक्तं | गोवृषा: गोपुङ्गवाः ती प्रतिकूलायैतस्यै अकथनीयमप्यकथयदितिभावः । ॥ ५ ॥ प्रहृष्टमुदितैः प्रहृष्टाः सञ्जातरोमाञ्चादिगात्र- राघवेश्रियं राघवेन्यस्यमानांराज्यलक्ष्मीं ॥१०॥ पुष्ये- विकाराः। मुदिताः मानससंतोषयुक्ताः । तैः । उच्छ्रिते- |णयुक्ते श्वः उत्तरदिने । जितक्रोधमनघमित्यभिषेकोप- त्यत्रप्रकृतोत्सवकृतध्वजसंबन्धउच्यते । ध्वजैञ्चसमलं- युक्तगुणजातोपलक्षणं । यौवराज्येनाभिषेचयिता यौव- कृतामित्यत्रनित्यबद्धध्वजत्वमुक्तं ॥ ६ ॥ धात्रीं उप- राज्यार्थमभिषेचयितेत्यर्थः ||११|| अवरोहत अवारुहत् मातरं । " धात्री स्यादुपमाता " इत्यमरः । प्रहर्षो- ॥ १२ - १३ ॥ उपलुतं उपहृतं । अघौघेन अघं त्फुल्लनयनामित्यादिविशेषणादियंरामोपमाता ॥ ७ ॥ दुःखं | “ अहोदुःखव्यसनेष्वघं ” इति । “ ओघो- अर्थपरासती अर्थपरासत्यपि 1 उत्तमेनहर्षेणाभिसं- वृन्देभसांरये ” इतिचामरः ॥ १४ ॥ वस्तुतः राज्ञो- युक्ताधनंप्रयच्छति किं । यद्वा अर्थपरा उत्तरो- निष्टे सुभगाकारे आपाततःसौभाग्यवतीवभासमाने । त्तरार्थाभिवृद्ध्यैधनंप्रयच्छति । नामग्रहणस्यासह्यत्वा- असुभगाकारइतिवाछेदः । सौभाग्येनहेतुना विकत्थसे द्राममातेत्युक्तिः ॥ ८ ॥ जनस्यायमत्यन्तप्रहर्षश्च | ममैवसौभाग्यमस्तीत्यात्मानंश्लाघसे । इयमुक्ति: पूर्व- गमन॑येषांतेपरमहंसास्तैरित्यर्थः ॥ ३ ॥ ति० धात्रींरामस्येतिशेषः ॥ ७ ॥ शि० राघवे राघवनिमित्तं । भूयसीं अत्यधिकां । श्रियं राज्याभिषेकसामग्रीमित्यर्थः ॥ १० ॥ ती ० अनघं भ्रातृषुवैषम्यरूपदोषरहितं । शि० अनघं वाश्रिताघनिवर्तकं ॥ ११ ॥ शि० पापदर्शिनी पापंराक्षसकृतोपद्रवपश्यतितच्छीला ॥ १३ ॥ [ पा० ] १ क. ख. ङ. झ ञ वादिननादिताम्. २ ङ. छ. झ ट घोषोपनादिताम्. क. घोषविनादिताम्. घ. ज. घोषानुनादिताम्. ३ ख. ग. प्रणादितगोवृषाम् ४ ङ. झ. ट. हृष्टप्रमुदितैः ख. हृटैः प्रमुदितैः . ५ घ. परमं विस्मयंगता. ६ क. ग - ट. साहर्षोत्पुल्ल. ख. सहर्षोत्फुल्ल. ७ क— घ. ज. ज. अतिमात्रंप्रहर्षोयं. ङ. छ. ट. अतिमात्रप्रहर्षः किं. झ. अति॒िमात्रप्रहर्षः किं. ८ ङ. छ. ट. झ. जनस्यास्यच. ९ घ. किंचापि १० क. घ. छ. अ. उदीर्यमाणा. ११क – ग. च. ञ. धात्रीपरमया. १२ ङ. छ. झ. राज्येनचानघं. १३ ङ. झ. मभिषेक्ताहिराघवम्. घ. अभिषेचयतेऽनघम्. १४ क. च. ञ. स्तद्वचनं. १५ च. शिखरोत्तुङ्गात् १६ ङ. छ. झ. ट. क्रोधेन. १७ झ. ट. शयानामेव. १८ ङ. छ. झ. ट, नात्मानमवबुध्यसें. वा. रा. ३७