पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३६१ वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्रचः || इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥ २७ ॥ अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः ॥ लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ||२८|| भैरतेनापि संदिष्टा संमर्दो न भवेदिति ॥ समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २९ ॥ अध्यर्धमिक्ष्वाकुचमूर्योजनं पॅर्वतस्य सा || पार्श्वे न्यविशदावृत्य गैजवार्जिंरथाकुला || ३० ॥ सा चित्रकूटे भैरतेन सेना धर्म पुरस्कृत्य विधूय दर्पम् || प्रसादनार्थ रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥ अष्टनवतितमः सर्गः ॥ ९८ ॥ भरतेनगुहशत्रुघ्नौप्रतिस्वस्व परिवारैस्सहरामाश्रमान्वेषण नियोजनपूर्वकंस्वेनाप्यमात्या दिसाहित्येनतदन्वेषणोक्तिः ॥ १ ॥ तथास्वस्यरामावलोकनौत्कण्ठ्योद्घोषणं ॥ २ ॥ तथारामसांनिध्यात्सीतालक्ष्मणादीनांधन्यताप्रशंसनपूर्वकंपादचारेणवनप्रवेशः ॥ ३ ॥ तथारामाश्रमसंनिहितसालमूलमुपागतवतातेनसमीपे धूमदर्शनात्तस्यैवतदाश्रमत्वाध्यवसायेनसहर्षमाश्रमप्रवेशः ॥४॥ निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ॥ अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ॥ १ ॥ निविष्टमात्रे सैन्ये तु यथोदेशं विनीतवत् || भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २ ॥ क्षिप्रं वनमिदं सौम्य नरसः समन्ततः || लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ ३ ॥ गुहो ज्ञातिसहस्रेण शरचापासिंधारिणा || समन्वेषतु काकुत्स्थावस्मिन्परिवृतः स्वयम् ॥ ४ ॥ अमात्यैः सह पौरैथ गुरुभिश्च द्विजातिभिः ॥ वैनं सर्वे चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ ५ ॥ त्तर मित्यर्थः । इह पितरिविषये । संशयोभवतीहमे | चित्रकूटसमीपे | नीतिमता सेनयोपरोधेरामस्यप्रसा- इति राघवः प्रत्युवाचेतिपूर्वेणान्वयः ॥ २६ ॥ मच: दोनस्यादितिनीतिज्ञेन । भरतेन धर्मपुरस्कृत्य विनीत- भरतविषयेशान्तोभवेतिमत्सूचितंवचः । प्रथममर्धमु- वेषेणराजाभिगन्तव्यइतिधर्ममनुसृत्य | दर्पविधूय त्तरार्धेनयोजनीयं ॥ २७॥ समितिंपर सैन्यंजयतीति | स्थितेन रघुनन्दनस्यप्रसादनार्थ प्रणीता आनीतासा समितिंजयः । “ संज्ञायांभृतृवृजिधारिसहितपिदमः " सेना विराजते भातिस्म ॥ ३१ ॥ इति श्रीगोविन्द- इत्यत्रयोगविभागेनखच् । मुमागमञ्च | सन्नद्धइति | राजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने यावत् । पार्श्वतः भ्रातर्यस्थानेभयशङ्कयेतिभावः अयोध्याकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥९७॥ ॥ २८ ॥ संमर्दः रामाश्रमस्यपीडा नभवेदितिभरते- नसंदिष्टा आज्ञप्ता । सेना तस्यशैलस्यसमन्तात् नतुत- अथभरतस्य रामप्राप्तिरष्टनवतितमेसर्गे– निवेश्ये- दाश्रमसमीपे ॥ २९ ॥ अधिकमर्धयस्मिंस्तत् अध्यर्धे त्यादि । गुरुवर्तकं गुरुवचनानुवर्तकं ॥ १–२ ।। योजनं सार्धयोजनमित्यर्थः । पर्वतस्यपार्श्वे आवृत्य लुब्धैः व्याधैः ॥ ३–४ ॥ अमात्यैः सह पौरैः सह । न्यविशत् मण्डलाकारेणस्थिता ॥ ३० ॥ चित्रकूटे | गुरुभिः द्विजातिभिश्चपरिवृतः पद्भ्यांसर्व॑वनंचरिष्या- ति० पादवतां चरप्राणिनांवरः । स० गुरुवत् पितृवद्वर्तयतीतिगुरुवर्तकः । “ ज्येष्ठ भ्रातापितुस्समः” इत्युक्तेः ॥ १ ॥ स०मात्रशब्देन भोजनादिकंव्यावर्तयति ॥ २ ॥ ति० पौरस्सहवर्तमानैरमात्यैः द्विजातिभिस्सहवर्तमानैर्गुरुभिश्च परिवृतः ॥ ५ ॥ [पा० ] १ ग. च. ज. वृक्षात्समवरोह. क. ख. च. पाठेषु अस्यश्लोकस्यपूर्वोत्तरार्धयोः पौर्वापर्येदृश्यते. २ क. ख. ग. ङ. च. छ. झ, ञ. ट. भरतेनाथ ३ ग. समन्तादस्य ४ ङ. छ. झ. ट. पर्वतस्यह. ५ क. च. ञ. नरवाजिगजाकुला ६ ङ. छ. झ. ट. नराकुला. ७ ङ. भरतस्य. ८ क. ङ. च. छ. झ ञ ट . विरोचते. ९ ख. ग. गुरुवर्तकः १० ग. क्षिप्रमेववनं. ११ क. ख. ङ. च. झ ञ ट पाणिना १२ ङ. काकुत्स्थंव ने परिवृतः १३ कट. सहसर्वे. वा. रा. ७८