सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( सर्गः ९७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पितुः सत्यं प्रतिश्रुत्य हत्वा भरतभागतम् || किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ ३ ॥ यद्रव्यं बान्धवानां वा मित्राणां वां क्षये भवेत् ॥ नाहं तत्प्रतिगृह्णीयां भक्षान्विषंकृतानिव ॥ ४ ॥ धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण || इच्छामि भवतामर्थे ऐतत्प्रतिशृणोमि ते ॥ ५ ॥ भ्रातृणां संग्रहार्थं च सुखार्थ चापि लक्ष्मण | राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ ६ ॥ "नेयं मम मही सौम्य दुर्लभा सागराम्बरा || न हीच्छेयमधर्मेण शऋत्वमपि लक्ष्मण ॥ ७ ॥ यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद || भवेन्मम सुखं किञ्चिद्भस तत्कुरुतां शिखी ॥ ८ ॥ मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः ॥ मम प्रौणात्प्रियतरः कुलधर्ममनुसरन् ॥ ९ ॥ श्रुत्वा प्रत्राजितं मां हि जटावल्कलधारिणम् || जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ १० ॥ स्त्रेहेनाक्रान्तहृदय : 'शोकेनाकुलितेन्द्रियः ॥ द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽऽगतः ॥ ११ ॥ अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् || प्रसाद्य पितरं श्रीमान्राज्यं मे दातुमागतः ॥ १२ ॥ प्राप्तकालं यदेषोमान्भरतो ष्टुमिच्छति ॥ असासु मनसाऽप्येष नांप्रियं किञ्चिदाचरेत् ॥ १३ ॥ विप्रियं कृतपूर्व ते भरतेन कदा नु किम् || ईदृशं वा भयं तेऽद्य भरतं योर्गे शङ्कसे ॥ १४ ॥ किंकार्यं नकिमपीत्यर्थः । महाप्राज्ञोभरतोपियदिधनु- | तादिसुखाननुगुणंयत्सुखं तदग्निर्भस्मीकुरुतां नतन्म: र्गृहीत्वास्वयमागतः तदाकिमस्माकंयुद्धोद्योगेनेतिभावः मग्राह्यमित्यर्थः ॥ ८ ॥ एवंलक्ष्मणचित्तानुसारेणप- ॥ २ ॥ तत्रयुक्तिमाह —पितुरिति । सापवादेन पित्रा रिहृत्यवस्तुतत्त्वमाह — मन्यइत्यादि श्लोकत्रयमेकान्व भरतायदत्तंराज्यं रामस्तंहत्वागृहीतवानित्येवंरूपेणा- यं । द्रष्टुमभ्यागतोह्येषभरतोनान्यथागत इतिमन्येइत्य- पवादेन युक्तं ॥ ३ ॥ युक्त्यन्तरमाह — यदिति । बान्धवादीनां क्षये नाशे लब्धंयद्धनं तन्नगृह्णीयां नेच्छे- यमित्यर्थः । विषकृतान् विष मिश्रद्रव्यकृतान् । भक्षान् अपूपादीनिव ॥ ४ ॥ अर्थ पृथिवीभिन्नंरत्नादिकं । भवतां भ्रातॄणामर्थे भवन्निमित्तमित्यर्थः । एतत् उक्त- रूपं । प्रतिशृणोमि नातिवर्तइत्यर्थः ॥ ५ ॥ संग्रहार्थं धनसञ्चयार्थ | सुखार्थ तत्सुखार्थ तत्तदभिमतवस्तु- प्रदानेनतत्प्रीत्यर्थमित्यर्थः । अपिनातद्वृद्धिःसमुच्चीयते । राज्यमपि बहुच्छिद्रत्वेनापरिग्राह्यतयाममानिष्टमपि । आलभे स्पृशामि । स्पृष्ट्वाशपइत्यर्थः । सत्येनेति मदु क्तंयथासत्यंभवति तथाआयुधंस्पृशामीत्यर्थः ॥ ६ ॥ नेच्छेयं इमामितिशेषः ॥ ७ ॥ शिखी अग्निः । भर न्वयः । अयोध्यामागत: मातुलगृहादितिशेषः । भ्रातृ- वत्सलः भ्रातृषुवत्सलः स्नेही । कुलधर्म ज्येष्ठस्यराज्य- परिपालनरूपं । स्नेहेन मद्विषयप्रीत्या । आक्रान्तहृदयः तत्परवशइत्यर्थः । शोकेन मद्विवासजनितदुःखेन । आकुलितेन्द्रियः व्याकुलहृदयः । अन्यथा मद्विरो- धितया नागतः ॥ ९–११ || रुष्य संरुष्य ॥१२॥ एषभरत: अस्मान् द्रष्टुमिच्छतीतियत् एतत् प्राप्त- कालं कालोचितमित्यर्थः ॥ १३ ॥ ते तुभ्यं | भरतेन कदानु कदाचित् । विप्रियं कृतपूर्वकिं । ईदृशंभयंवा त्वदुक्तसदृशंभयजनकवाक्यंवा कृतपूर्वकिं उक्तपूर्वकिं । यस्त्वमद्य अत्रार्थे अत्रस्थानेवा । भरतंशङ्कसइति । शि० आहवे राक्षससंग्रामार्थं | पितुःसत्यं वनवासबोधकवाक्यं प्रतिश्रुत्य सापवादेनराज्येन इदानीं राज्यग्रहणे हत्वा निवर्स चभरतं किंकरिष्यामि । सापवादपुरुषस्यस्वजनादिप्राप्तिरपिदुःखदैवेतितात्पर्य ॥ ३ ॥ ति० क्षये नाशे | कृतेइतिशेषः ॥ ४ ॥ ति० संग्रहार्थ सम्यक्पालनार्थ ॥ ५ ॥ स० यत् यदि । तत् तर्हि । मामितिशेषः ॥ ८ ॥ शि० अप्रियं रामप्रव्राजनं ममप्रीतिविरोधीतिवदन्सन् कैकेयीमंबांरुष्य प्रत्राजन हेतुत्वेन किंचित्परुषमुक्वेत्यर्थः । अपितरं पितृरहितं मांप्रसादी प्रसा- दनशीलस्सन् | मेराज्यंदातुमागतः ॥ १२ ॥ शि० अभयं भयनिवर्तकं ॥ १४ ॥ [ पा० ] १ ङ. छ. झ. ट. माहवे. २ ख. गृह्णामि ३ ख. च. ञ. कृतान्यथा ४ ख. ह्येतत् ५ ग. संग्रहार्थाय. ६ क. राज्यंचाप्य हं. ७ ग. एवं. ८ ग. सकला. ९ क. च. झ ट वापि १० ग. राघव ११ ग. झ ट प्राणैः प्रिय. १२ कट. पुरुषोत्तम १३ च. ट. शोकव्याकुलितेन्द्रियः १४ ख. ग. कैकयींरोषात्. ज. रुष्यकैकेयीं. १५ क. ङ. छ. झ. ट. भरतश्चा प्रियं. १६ ड़. झ ञ ट मर्हति. १७ ख – च ज - ट. नाहितं. १८ ङ. झ ञ ट . यद्विशङ्कसे.