सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९६ ] श्रीमद्गोविन्दराजींयव्याख्यासमलंकृतम् । ३५७ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह || अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ १५ ॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् || दिधक्षन्निव तां सेनां रूषितः पावको यथा १६ ॥ संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ॥ आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ १७॥ एष वै सुमहाञ्श्रीमान्वॅिटपी संप्रकाशते || विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ १८ ॥ [ असौ हि सुमहास्कन्धो विटपी च महाद्रुमः ॥ विराजते महासैन्ये कोविदारध्वजो रथे ] ॥१९॥ भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् ॥ एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ २० ॥ गृहीत धनुष चावां गिरिं वीर श्रयावहै । अथवेहैव तिष्ठावः संनद्धावुद्यतायुधौ ॥ २१ ॥ अपि नौ वशमागच्छेत्कोविदारध्वजो रणे ॥ २२ ॥ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ॥ त्वया राघव संप्राप्तं सीतया च मया तथा ॥ २३ ॥ यन्निमित्तं भवान्राज्याच्युतो राघव शाश्वतात् || संप्राप्तोऽयमरिर्वीर भरतो वध्य एंव मे ॥ २४ ॥ भरतस्य वधे दोषं नाहं पश्यामि राघव ॥ पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २५ ॥ पूर्वापकारी भरतस्यैक्तधर्मश्च राघव || एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २६ ॥ अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका || मया पश्येत्सुदुःखार्ता हस्तिमनमिव द्रुमम् ॥ २७ ॥ त्यर्थः ॥ १४ ॥ तं एवंसमीक्ष्यवदन्तं । पुरुषव्याघ्रः | नष्ट - विराजतीति । उद्गतस्कन्ध : उन्नतस्कन्धः । समीक्ष्यकारीतिभावः । अङ्गेतिसंबोधने । अवेक्षस्व उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वजः ध्वजचिह्नेनसम्यगालोकय । इमां त्वयादृष्टां । चमूं कस्ये- कोविदारवृक्षयुक्तोध्वजः ॥ १८-१९ ॥ एते अश्वा- यमिति मन्यसे वदेतिशेषः ॥ १५ ॥ रुषितः कुपितः । रोहाः । अश्वानारुह्यभजन्ति इमंदेशंप्राप्नुवन्तीत्यर्थः । कर्तरिक्तः । पावकोयथा वह्नितुल्यः ॥ १६ ॥ कैकेय्याः सादिनः गजारोहाः ॥ २० ॥ गृहीतधनुषाविति । सुतः तत्सुतत्वेनक्रूरप्रकृतिः । भरतः अभिषेचनंप्राप्य कैकेयीवरानुरोधेनाभिषिक्तः तावताप्यतृप्तः । संपन्नं दुर्गेस्थित्वायुद्धार्थंगिरेः श्रयणं ॥ २१ ॥ अपिःकामप्र- समृद्धं निष्कण्टकमितियावत् । राज्यमिच्छन्सन् वेदने । नौ आवयोः ॥ २२ ॥ अपिद्रक्ष्यामीत्यारभ्य दंशभागिनौआवहन्तुंसमभ्येति ॥ श्लोकः ॥ २३ ॥ यन्निमित्तं यस्माद्भरताद्धेतोः ॥२४॥ भरतागमनेकिंचिह्नमित्यत्राह - एषइति । विटपी ध्व- त्यागे वधे ॥ २५ ॥ अपकारश्चनप्रामादिकइत्याह- जचिह्नीभूतोवृक्षः प्रकाशते स्पष्टंदृश्यते । तमेवविशि- | व्यक्तधर्मइति ॥ २६ ॥ संख्ये युद्धे । 46 मृधमास्क - १७ 11 शि० प्राप्य वामयोध्यांप्रापय्य | राज्यंसंपन्नं संपत्ति विशिष्टमिच्छन् अभिषेचनं भवतोऽभिषेचनंच इच्छन् आवां आ समन्तादिन्द्रियशोषकंभवद्वियोगजनितशोकमित्यर्थः । हन्तुं दूरीकर्तुं | समभ्येति । आवामित्यत्रशोषणार्थकओवैधातोरूपं ॥१७॥ शि० इदानीं भरतान्यत्वेस्वकर्तव्यं प्रार्थयन्नाह - गृहीतेति ॥ २० ॥ शि० विदारः सज्जनहृदयविदारकःध्वजोयस्यसः कः कस्यचित्संबन्धीत्यर्थः । रथः नौ आवयोः । वशमागच्छेत् । यत्कृते यत्प्रयत्नेकृतेसति व्यसनं रहस्यसंभाषणज नितदुःखसंप्रा- प्तं । यन्निमित्तं यद्राक्षसवधकारणात् भवान्प्रच्युतः इहप्राप्तः । तंभरतं पृथ्वीभारविस्तारकं । किंच भीर्भयमस्त्यस्मिन्कर्मणि तत्ररतं सत्पुरुषेभ्योतिभयप्रदातारमित्यर्थः । राक्षसंद्रक्ष्याम द्रक्ष्यामः ॥ २२ ॥ शि० भरतः इहमद्गमनजनितभारात्यदिअरिः राक्षस।दिःसंप्राप्तस्तर्हि सवध्यएव । ननुब्रह्मचर्येस्थितत्वात्कथमस्मत्कर्तृकोवधइत्यत आह - भरतस्य पृथ्वीभार विस्तारकस्यापराधि- नोवधे अहंदोषंनपश्यामि ॥ २३ ॥ शि० पूर्वापकारिणमिति । एतस्यपूर्वापकारित्वं तुमुन्यादिवधादिकर्तृत्वेन | त्यागे वधाकरणे अधर्मः । एतेन राक्षससैन्यंचेन्निहन्तव्यमेवेतिसूचितं ॥ २४ ॥ ति० त्यागे वधे ॥ २५ ॥ ती० कलुषेण पापेन कैकेयीरूपकलु- [ पा० ] १ घ. च. ज. कस्यैतां. २ क. च. ज. सेनांतां. ३ च. ज. भरतः कैकयीसुतः, ४ क. च. विटपीवप्रकाशते. ख. ग. विटपीवमहाद्रुमः, ५ ङ. छ. झ. ट. त्युज्ज्वलस्कन्धः ६ अयं श्लोकः घ. ज. पाठयोदृश्यते. ७ ख. ङ. च. छ. झ ञ. ट. धनुषावावां. ८ ङ. ट. द्रक्ष्याम. ९ ङ. छ. झ. ट. एवहि. १० क. च. ज. नहि. ११ ङ. छ. झ. ट. पूर्वापकारिणं हत्वानह्य- धर्मेणयुज्यते. ग. पूर्वापराधिनांत्यागेनह्यधर्मोहिजायते. १२ ङ. छ. झ. ट. स्त्यागेधर्मश्च १३ ङ. छ. झ. ट. भिन्नमिव