पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ || मेन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३ ॥ तच्छ्रुत्वा भरतस्तेषां वचनं साधुसंमतम् || सैन्यानुवाच सर्वास्तानमंत्रबलमर्दनः ॥ २४ ॥ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः | अहमेव गमिष्यामि सुमत्रो गुरुरेव च ॥ २५ ॥ एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ॥ भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २६ ॥ व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणाऽपि च धूममग्रतः ॥ बभूव हृष्टा नचिरेण जीनती प्रियस्य रामस्य समागमं तदा ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥ चतुर्नवतितमः सर्गः ॥ ९४ ॥ "रामेणसीतांप्रतितत्तद्विशेषप्रदर्शन पूर्व कंचित्रकूट वर्णनम् ॥ १ ॥ दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियः ॥ वैदेद्या प्रियमाकाङ्क्षस्वं च चित्तं विलोभयन् ॥ १ ॥ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् || भार्याममरसङ्काशः शचीमिव पुरन्दरः ॥ २ ॥ न राज्याशनं भद्रे न सुहृद्भिर्विनाभवः || मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ ३ ॥ ।। २२ ।। अथ यदिनस्तइत्यर्थः । तपस्विनः सन्ति तेप्रष्टव्याइतिभावः ॥ २३ ॥ साधुसंमतं साधूनांन्या यविदांसंमतं । अमित्रबलमर्दन: अमोघशासनइतिया- वत् ॥ २४ ॥ यत्ताः निःशब्दाः । इतः अस्माद्देशात् । परं अग्रतः । भवद्भिर्नगन्तव्यं अहमेवराजसु मन्त्रि- षुसुमत्रएव ऋत्विक्षुगुरुर्वसिष्ठएव । धृतिरितिपाठे सुमन्वोच्यते ॥ २५ – २६ ॥ अग्रतोधूमंनिरीक्ष- माणापिच अनेनरामदर्शनत्वरातिशयः सूच्यते । व्य- वस्थिता भरतेनव्यवस्थापितेत्यर्थः । भरतेनहेतुनाव्यव- स्थितावा । साचमू: प्रियस्य रामस्य नचिरेण अचिरेण । समागमंजानतीसती तदा व्यवस्थाकालेपिहृष्टाबभूव । जानकी प्रियस्येतिचपाठः ||२७|| इति श्रीगोविन्दराज- विरचिते श्रीमंद्रामायणभूषणे पीताम्बराख्याने अयो- ध्याकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ।। 66 एवमेतावत्पर्यन्तंभरतकथांप्रस्तुत्य रामस्यचित्रकू- टप्रवेशानन्तरदिनेषुविहारतारतम्या भावात् भरतप्रा- प्तिदिनसंभूतविहारविशेषान्वर्णयति – दीर्घकालेत्या- दिनासर्गद्वयेन । आदौश्लोकद्वयमेकान्वयं । अ प्रातःकर्तव्यकर्मानुष्ठानानन्तरं । तस्मिन्गिरौ चिरप- रिचयेपिवैलक्षण्यातिशयादपूर्ववद्भासमाने । दीर्घका लोषित: मासमात्रमुषितोपि गिरिवनप्रियः । वंनवंप्रीतिरहोकरोति" इत्युक्तरीत्या गिरिवनयोर्न वनवत्वापादकप्रीतिकः । वैदेह्याः प्रियेणसहैववनदर्श - नकुतूहलाया: । प्रियं प्रीतिमाकाङ्क्षन् । तारास्वचि- त्तंचविलोभयन् प्रीणयन् | अमरसंकाश: कुत्रापिनि- र्भयइत्यर्थः । दाशरथिः रामः | चित्रमन्वर्थ चित्र" कूटं । भार्थी सर्वात्मनाभरणीयांसीतां । शचींपुरन्दरइव अदर्शयत् । “गतिबुद्धि - " इत्यादिना द्विकर्मकत्वं ॥ १-२ ॥ राज्यात् भक्तजनपूर्णात् । विनाभवो मानेइतिशेषः । तस्मान्मनुष्यकारणकवह्नयनुपपत्त्याऽत्रैवराघवावितिजानीमः ॥ २२ ॥ ति० राजभीत्यानिश्चयेनतथावक्तुमशक्लव ॐ न्तःपक्षान्तरमाहुः—अथेति । वि० पक्षान्तरमाहुः – अथवेति । नरव्याघ्रौ अत्रय दिनस्तइतिशेषः ॥ २३ ॥ ति० धृतिरि- त्यशोकमन्त्रिणोनामान्तरं । स० सुमन्त्रोधृतिरित्येतौ ममपश्चादागच्छतामितिशेषः ॥ २५ ॥ स० समागममुद्दिश्यभरतेनस्थापि- ता । वि० याचमूर्भरतेनव्यवस्थिता व्यवस्थापिता सा वासाय अग्रतोभूमिं निरीक्षमाणा नचिरेण शीघ्रं | जानकीप्रियस्य रामस्य समागमं निरीक्षमाणा तदाहृष्टधबभूव ॥ २७ ॥ इति त्रिनवतितमस्सर्गः ॥ ९३ ॥ शि० दीर्घकालोषित: त्रीन्मासानुषितः ॥ १॥ तनि० राज्यात् परमपदैश्वर्थात् अंशनं तत्त्यागइत्यर्थः । “त्यक्त्वावैकुण्ठ मुत्तमं” [ पा० ] १ च. ब. अथवातौ २ क-ट. अन्ये ३ च. ञ वचनंतेषांभरतस्साधु ४ ग. ज. सर्वान्स्वान्. ५ च. नं. बलसूदनः ६ क. ग. ङ. च. छ. झ. ट. धृतिरेव. ७ क. ख. ग. ङ. च. छ. झ ञ ट सैन्यास्तत्र. ८ च. समादधौ. क. ख. ग. समादधे. ९ ङ. छ. झ ञ ट भूमिमग्रतः १० क. च. ज. जानकीप्रियस्य ११ क. अथदीर्घोषितः १२ घ ङ. छ. झ. ट. वरप्रियः १३ घ. छ. झ. टं. राज्यभ्रंशनं.