सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् || विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७॥ तेषां पुण्यांहघोषोथ गंभीरमधुरैस्तदा ॥ अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् || अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥ ततः पौरजन: सर्व: श्रुत्वा रामाभिषेचनम् ॥ प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ।। १० । सिताअशिखराभेषु देवतायतनेषु च ॥ चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥ नानापण्यसमृद्धेषु वणिजामापणेषु च ॥ कुटुंबिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥ सभासु चैव सर्वासु वृक्षेप्वालक्षितेषु च ॥ ध्वजा: समुच्छ्रिताश्चित्रा: पतकाश्च भवंस्तदा ॥ १३ ॥ नटनर्तकसङ्घानां गायकानां च गायताम् || मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ १४ ॥ रीमाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ॥ रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥ बाला अपि क्रीडमाना गृहद्वारेषु सशः || रौंमाभिषेकसंयुक्ताकुरेवं मिथः कथाः ॥ १६ ॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ॥ राजमार्गः कृतः श्रीमान्पोरै रामाभिषेचने ॥ १७ ॥ ॥ नियतमनस्कः अनन्यचित्तइतियावत् । जजाप गाय- |ण्डपेष्वितियावत् ॥ ११-१२ ॥ आलक्षितेषु आसम- त्रीमितिशेषः ॥ ६ ॥ सन्ध्योपासनानन्तरं मधुसूदनं न्ताल्लक्षितेषु । समुन्नतत्वाद्दूरादप्यक्षिगोचरेष्वित्यर्थः । • सूर्यान्तर्वर्तिनंनारायणं तुष्टाव मित्रस्येत्यादिनेतिशेषः । ध्वजाः सचिह्नाः | पताकाः चिह्नरहिताः । समुच्छ्रि- - शिरसाप्रणतः दण्डवत्प्रणतः । विमलक्षौमसंवीतइत्य- ताः बद्धाः ॥ १३॥ नटाः नाटकाः अभिनयकर्तारः । नेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्नानमुक्तं । वाचया- नर्तकाः केवलाङ्गहारकृतः । मनःकर्णसुखाः “संश्रवे- मास स्वस्तिवाचनंकारयामासेत्यर्थः ॥ ७ ॥ तूर्यघो- मधुरंवाक्यं” इत्युक्तरीत्याश्रवणमात्रेणसुखकराः पश्चा-

  • षानुनादित: तूर्यघोषानुबन्धिनादयुक्तः ॥ ८ ॥ प्रभु-

दितः संतुष्टः अभूत् ॥ ९ ॥ पुरींशोभयितुंचक्रे पुर- | मनसञ्चाह्लादकाइत्यर्थः । शुश्रुवुः जनाइतिशेषः शोभोत्पादनार्थ संमार्जनालेपनवितानमालिकाबन्ध- ॥ १४ ॥ मिथ: अन्योन्यं । “मिथोन्योन्यं” इत्यमरः । नकर्मादिकमकरोदित्यर्थः ॥ १०॥ चैत्येषु बौद्धालयेषु । चत्वरेषु अङ्गणेषु | गृहेषुस्त्रीभिः बहिरङ्गणेषुजनैश्चक- अट्टालकेषु प्राकारो परियुद्धार्थपरिकल्पितचतुस्स्तंभम - थाञ्चक्रुरितिरामभक्तावकृत्रिमत्वमुक्तं ॥१५-१६॥ कृत- वनगमनरूपं आशास्य संकल्प्येत्यर्थः ॥ ३ ॥ शि० सूताः पौराणिकाः ॥ ६ ॥ शि० सरामः द्विजानतुष्टाव | मधुसूदनं मधुसूदन - शब्द | वाचयामासच द्विजैरुच्चारयामासेत्यर्थः । मधुसूदनशब्दार्थस्तु मधौचैत्रे सूः प्रादुर्भावोयस्यसः । उद्यते स्वस्वकल्याणार्थं सर्वै- रुच्यतइतिउत् । अनितिब्रह्मादीनपिपालयतीतिअनः । त्रयाणां कर्मधारयः । एतेनस्वनामोच्चारण विषयकप्रीत्यतिशयोरघुनाथस्यसू- चितः । दूरान्वयीदमितितुनभ्रमितव्यम् । पाठक्रमादर्थक्रमस्यबलीयस्त्वादाकाङ्क्षितत्वाञ्चेति दिक् ॥ ७ ॥ शि० तदा मधुसूदनश- ब्दोच्चारणकाले । तेषां द्विजानां । तूर्यघोषानुनादितः तूर्यघोषानुनादविशिष्टः । पुण्याहघोषोत्थगंभीरमधुरः पुण्यं पवित्रत्वंनजहा- तीतिपुण्याहः । सार्वकालिक पवित्रतासंपादकधर्मविशिष्टइत्यर्थः । स एवघोषः मधुसूदनशब्दशब्दः तेनोत्थःसंजातःगंभीरमधुरःगं- भीरेणगांभीर्येणसहितः मधुरोमाधुर्ये गांभीर्यमाधुर्येइत्यर्थः । अयोध्यांपूरयामास | गंभीरमधुरशब्दौभावप्रधानौ ॥ ८ ॥ शि० चक्रे प्रयत्नमितिशेषः । शोभायुतामित्याचार्यपाठः ॥ १० ॥ शि० चैत्येषु चैत्यंचैतन्यंअस्तियेषु । अर्शआद्यजन्तः । इदंदेवताय- तनादिविशेषणम् । एतेनरामधाम्नश्चैतन्यंव्यक्तं । तत्रत्रमाणं “यत्रगुल्मलतावृक्षानित्यशोभान्तिचिन्मयाः” इत्यादि । चैत्येषुबौद्धा- 'लयेष्वितिगोविन्दाचार्यव्याख्यानंतु " ननास्तिकोनानृतकः– " इत्यादिनाबालकाण्डोक्तेनविरोधात्त्यत्क्तमितिदिक् ॥ ११ ॥ ति० ततः तत्रायोध्यायां ॥ १४ ॥ ति० रामाभिषवः रामाभिषेकः ॥ १६॥ स्तथा. [ पा० ] १ क. ङ च छ. झ ञ ट सद्विजान् २ ञ ट घोषोत्थ. ३ झ. गभीरमधुरस्तदा ङ. छ. झ. ट. मधुर- ४ क. च. ज. पुरम्. ५ च. ज. शुभ्राभ्रशिखराभेषु. ६ क. ख. ङ. च. छ. झ ञ ट समुच्छ्रितास्साधु ७ ङ. .छ. झ. चाभवंस्तथा ८ घ. नर्तकीनटसङ्घानां. ९ ङ. छ. झ. ट. शुश्रावजनताततः १० क. ख. ग. ङ. ञ, रामाभिषवयु- _क्ताश्च. च. छ. ज. ठ. रामाभिषवसंयुक्ताः ११ क. ख. ञ. ट. सर्वशः १२ क. ख. ङ. च. झ. रामाभिषवसंयुक्ताः. १३ क—ङ. झ. ज. चक्रुरेवंकथामिथः . छ. कथाश्चक्रुमिंथोजनाः.