पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३१९ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे ॥ यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥२॥ इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् || अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः ॥ ३ ॥ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ॥ गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ॥ अब्रवीत्प्राञ्जर्लिंर्वाक्यं गुहो गहनगोचरः ॥ ५ ॥ दाशास्त्वाँऽनुगमिष्यन्ति धन्विनः सुसमाहिताः ॥ अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः ||६|| कच्चिन्नदुष्टो व्रजसि रामस्याक्लिष्टकर्मणः || इयं ते महती सेना शङ्कां जनयतीव मे ॥ ७ ॥ तमेवमभिभाषन्तमाकाश इव निर्मलः || भरतः लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ ८ ॥ मा भूत्स कालो यत्कष्टं न मां शतुमर्हसि ॥ राघवः स हि मे भ्रात्रा ज्येष्ठः पितृसमो मतः ॥ ९॥ तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् || बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥१०॥ स तु संहृष्टवंदनः श्रुत्वा भरतभाषितम् || पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले || अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिच्छसि ॥ १२ ॥ शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति ॥ यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥ एवं संभाषमाणस्य गुहस्य भरतं तदा ॥ बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥ १४ ॥ संनिवेश्य स तां सेनां गुहेन परितोषितः ॥ शत्रुभेन सँह श्रीमाञ्शयनं पुनरागतम् ।। १५ ।। स्वस्यरामविषयभक्तिंद्योतयितुं ममगुरोः सखेइत्युक्तं । | निरपायत्वमुक्तं । शङ्काप्रसक्तौहेतुमाह - इयमिति । यस्त्वमेकपसादृशीमपरिच्छिन्नांसेनामभ्यर्चितुमिच्छ- अनुकूलोव्रजसिचेत् सेनाव्यर्थेतिभावः । इवशब्दः सि तस्यते'जैतः अभिवृद्धः कामः अर्चनामनोरथः शङ्कायाईषत्त्वंद्योतयति ॥ ७ ॥ आकाशइवनिर्मलइ- कृतःखलु श्वाएव । तवादरणेनैववयमर्चिताइतिभावः त्यनेन तच्छङ्कितदोषस्यतत्रप्रसक्तिरेवनास्तीत्युच्यते । ॥ २ ॥ मस्वतंजाइतिगाम्भीर्यद्योतनं । उत्तममित्यने- आकाशेहिपङ्कानुलेपेसतत्रनप्रसज्जति किंतुस्वहस्तएव नार्चनोद्योगमात्रेण तृप्तत्वकथनादवाप्तसमस्तकामत्वमु- मलिनोभवति । लक्ष्णया स्वस्मिन्दोषालेपेप्यक्रोधया क्तं । श्रीमानिति तात्कालिकहर्षः ॥ ३ ॥ कतरेण ॥ ८ ॥ यत् यस्मिन्काले कष्टं त्वयाआशङ्कितं कष्टंजा- केनमार्गेण । भृशंगहनः अत्यन्तदुष्प्रवेशः । अनूपोदे- यते सकालोमाभूत् । कलिकाले हितादृशप्रसङ्गः अतो शः जलप्रायोदेशः । “जलप्रायमनूपस्यात्" इत्यमरः मांशङ्कितुंनार्हसि । तत्रहेतुः – राघवइत्यादि । नतेका- ॥ ४ ॥ गहनंकाननं गोचरःसंचारप्रदेशोयस्यसः गह- र्या त्वयानकार्या ॥ ९-१० ।। संहृष्टवदनः प्रसन्नव- नगोचरः । “गहनंकानन॑वनं" इत्यमरः ॥ ५ ॥ अह- दनइत्यर्थः । हर्षितः संजातहर्षः ॥ ११ – १२ ॥ मनुगमिष्यामि अतोनमार्गविषयविचारः कर्तव्यइति- कृच्छ्रगतं व्यसनगतं । प्रत्यानयितुं प्रत्यानेतुं । इडार्षः भावः ॥ ६ ॥ नदुष्टः अदुष्ट: । “सुप्सुपा" इतिसमा- ॥ १३ ॥ संभाषमाणस्य संभाषमाणेसति । नष्टप्रभः सः । रामस्य रामविषये अदुष्टोव्रजसिकञ्चित् दुष्टोन अदृष्टप्रभः ॥ १४ ॥ शयनंपुनरागमदिति अत्रपुनःश- व्रजसिकच्चिदितिवासंबन्धः । अलिष्टकर्मणइत्यनेन | ब्देनगुहागमनात्पूर्वश्रान्तःशयनेस्थितइतिगम्यते । ति० कामः कामनाविषयोमत्सत्कारः । ममकृतएवखलु | तवश्रद्धयैवसर्वेकृतमित्यर्थः ॥ २ ॥ ति० पन्थानं दर्शयन् गन्तव्यप- थिसंमुखंहस्तंकुर्वन्पुनःपुनरब्रवीदित्यन्वयः ॥ ३ ॥ ति० आकाशइवेत्युपमयात्रैकालिकमलसंबन्धाभावोदर्शितः ॥ ८ ॥ ति० मे मयि | नतेकार्येतिपाठान्तरम् ॥ १० ॥ ति० गुहेनपरिरक्षितइतिपाठे परिहृतचोरबाधइत्यर्थः ॥ १५ ॥ [ पा० ] १ ङ. झ ट मभ्यर्चयितुं. २ ङ. छ. झ ट इत्युक्त्वास. ३ ख. झ मर्थवत् ४ पन्थानं दर्शयन्पुनः ५ ङ. छ. झ. ट. पथा. ६ ङ. छ. झ. ट. भूला. ७ङ. छ. झ. अ. ट. स्त्वनु. ८ ङ. छ. झ. ट. देशज्ञाः ९ ग. ङ. छ. झ. ट. चानु. १० ङ. छ. झ ञ ट महाबल ११ ज. मर्हति १२ क. ङ. च. छ. न. ट. समोमम ख. समःसखे. १३ ङ. छ. झ. ट. मेकार्या. १४ ग. हृदयः १५ घ. जगतीपते. १६ क परिरक्षितः घ. परिपालितां. ख. परिभाषितः १७ ख ङ. च. छ. झ ञ ट समं. १८ क. च. न. समुपागमत्.