श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ॥ अभिचक्राम भरतं निषादाधिपतिर्मुहः ॥ १० ॥ तैमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् || भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥ ११ ॥ एष ज्ञातिसहेस्रण स्थपतिः परिवारितः ॥ कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ १२ ॥ तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ॥ असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ||१३|| एतत्तु वचनं श्रुत्वा सुमत्राद्भरत: शुभम् ॥ उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ १४ ॥ लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ॥ आगम्य भरतं ग्रहो गुहो वचनमब्रवीत् ॥ १५ ॥ निष्कुटॅश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् || निवेर्दयामस्ते सर्वे स्वके दासकुले वस ॥ १६ ॥ अस्ति मूलं फलं चैव निषादैः समुपाहतम् || आर्द्र च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ १७ आशंसे खाशिता सेना वॅत्स्यतीमां विभावरीम् ॥ अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ १८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥ पञ्चाशीतितमः सर्गः ॥ ८५ ॥ ३१८ भरतेनगुहंप्रतिसश्लाघंभरद्वाजाश्रममार्गप्रश्नः ॥ १ ॥ गुहेनतंप्रतिमार्गप्रदर्शनायदाशैः सहस्वस्य तदनुगमनोक्तिपूर्वकं राम- विषयेतदभिप्रायप्रकारप्रभः || २ || गुहेनरामविषये निजाशयप्रकाशनपूर्व कमासायंपुनः पुनः शोचन्तंभरतंप्रतिसमाश्वासनम् ३ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् || प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ १ ॥ इतिपदच्छेदः । स्वस्तिमतीति अन्यथाहन्तव्येतिभावः | कुले दासगृहेवसेतिनिवेदयामः विज्ञापयामः । पूर्वं ॥ ९ ॥ उपायनं कौशेयादि । मांसं मृगाणां ॥ १०- गङ्गामासाद्येतिगङ्गापर्यन्तमार्गकरणेपि अद्यमनुष्य- ॥ ११ ॥ स्थपतिः प्रभुः । दण्डकारण्येकुशलः तत्रसं- प्रेरणाभावात्त्वदागमनंनज्ञातवानस्मीतिगुहेनोच्यते चरणसमर्थइत्यर्थः । विजानीते तंदेशमित्यर्थः ॥ १६ ॥ वन्यं नीवारश्यामाकप्रियङ्वादिधान्यं । ।। १२–१४ ॥ प्रह्वः कृतप्रणामः ॥ १५ ॥ अयंदे- आशंसे प्रार्थयामि । स्वाशिता सुष्टुभोजिता ॥ १७— शः मदधिष्ठितवनप्रदेशः । तेनिष्कुटः गृहारामभूतः । ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- “ गृहारामस्तुनिष्कुट: ” इत्यमरः । त्वद्भोगयोग्यइ- णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने तियावत् । वयंचवञ्चिताः अत्रगमनानिवेदनेनवचि- चतुरशीतितमः सर्गः ॥ ८४ ॥ ताइत्यर्थः । निवेदनेहिप्रत्युद्गमनादिकंकर्तुशक्यमिति " भावः । सर्वेवयंते त्वदीयाइत्यर्थः । अतः स्वकेदास- हेत्वर्थसंहितं उपपत्तिप्रयोजनाभ्यांयुक्तं ॥ १ ॥ त्याह - यदीति । शि० ननुनावोपिदूरदेशंने तव्याइत्यतआह - यदीति । अद्यतरिष्यति । तेननावोदूरं ननेतव्याइतिव्यञ्जितं ॥ ९ ॥ शि० तत्रमत्स्यः दैन्यनिवर्तक वायुमानोषधि विशेषः । तथाहि मदः दैन्यस्य सो नाशःतद्वान् अः वायुर्यस्यसः । “अःकृ· ष्णशंकरोब्रह्माशक्रस्सोमोऽनिलोऽनलः” इतिमात्रिका | मांसं राजभोग्यवस्तुविशेषः । अस्यतत्वमनुपदमेववक्ष्यते । मधु पुष्परसः ॥ १० ॥ शि० मांस राजभोग्यवस्तुविशेषश्चास्ति । एतत्स्वीकुर्वित्यर्थः । “मांसंस्यादा मिषेक्लीबं" इतिमेदिनी कोशेन मांसशब्दस्या- मिषार्थकत्वमवगतं । आमिषशब्दस्यभोग्यवस्तुपरत्वंतु “भोग्य वस्तुनिसंभोगेप्युत्कोचेपललेपिच" इतितत्कोशादेवबोध्यम् ॥ १७ ॥ इतिचतुरशीतितमस्सर्गः ॥ ८४ ॥ स० हेत्वर्थसंहितं हेतुर्लिङ्गवचनं तदर्थसहितमित्यर्थः ॥ १ ॥ [ पा० ] १ क. समायान्तं. २ ङ. छ. झट समयज्ञो. ३ ग. श्रीमान्गुहः ४ ज. लब्ध्वाह्यनुज्ञां. ङ. छ. झ. ट. ध्वानुज्ञांसंप्रहृष्टो. च. ज. लब्ध्वानुज्ञांसप्रविष्टो. ५ ग. श्चापि. घ. श्चहि. ६ क. ङ. च. छ. झ ञ ट निवेदयामते. ७ क. ग. ङ. च. छ. झ. अ. ट. सर्व. ८ ङ. छ. ज. झ. दाशहृदे. ९ क. ख. ङ च छ. झ. न. ट. मूलफलं. १० ङ. छ. झ. ट. चैतन्निषादैः. ११ ङ. छ. झ. ट. खयमर्जितं. च. ज. समुपार्जितं १२ घ. छ. झ. आर्द्रशुष्कंयथामांसं. च. ज. आर्द्रमांसं वसंशुष्कं. ङ. ट. आर्द्रशुष्कं तथामांसं• क. आर्द्रमांसंचसंशुष्कं. १३ ङ. छ. झ. ट. तथा. १४ च. न. ट. वसत्वेनां झ. वत्स्यत्येनां ख. वत्स्यतीह १५ घ, ङ. छ. गमिष्यति.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२२
दिखावट