श्रीमद्वाल्मीकिरामायणम् । तूर्ण समुत्थाय सुमत्र गच्छ बलस्य योगाय बैलप्रधानान् ॥ आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥ ३० ॥ स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः || शशास सर्वान्प्रकृतिप्रधानान्वलस्य मुख्यांश्च सुहृज्जनं च ॥ ३१ ॥ ततः समुत्थाय कुलेकुले ते राजन्यवैश्या वृषलाच विप्राः ॥ अयूयुजष्ट्ररथान्खरांश्च नागान्हयांश्चैव कुलप्रसूतान् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥ ८२ ॥ ३१४ [ अयोध्याकाण्डम् २ त्र्यशीतितमः सर्गः ॥ ८३ ॥ प्रभातैभरतेनामात्यपौरपुरोहितशिल्पिसेनादिसाहित्येन नगरान्निर्गत्य दूरध्वातिलंघनेनगुहाधिष्ठित शुङ्गिबेरपुरेगङ्गातीरगम- नम् ॥ १ ॥ तथापित्रेउदकदानायपरिजनविश्रान्तयेच तत्रैवसेना दिसं निवेशनम् ॥ २ ॥ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ॥ प्रययौ भरतः शीघ्रं रामदर्शन काङ्क्षन्या ॥ १ ॥ अग्रतः प्रययुस्तस्य सर्वे मर्चपुरोधसः || अधिरुह्य हयैर्युक्तात्रथान्सूर्यरथोपमान् ॥ २॥ नवनागसहस्राणि कल्पितानि यथाविधि || अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ ३ ॥ षष्टीरथसहस्राणि धन्विनो विविधायुधाः ॥ अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥ शतं सहस्राण्यश्वानां समारूढानि राघवम् || अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ ५ ॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ॥ रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ ६ ॥ प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् ॥ तस्यैव च कैथाचित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥ मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् || कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥ प्रीणयिष्यन्नित्यर्थः ॥ २९ ॥ बलस्ययोगाय बलस्य सन्नहनाय बलस्यसंगतयेवा | “ योग: सन्नहनोपाय- ध्यानसंगतियुक्तिषु " इत्यमरः । बलप्रधानान् गच्छ प्रधानशब्दः पुँल्लिङ्गोप्यस्ति ॥ ३०-३१ ॥ वृषला: शूद्राः । कुलेकुले गृहेगृहे । “ कुलंजनपदेगृहे " इत्य- मरः । अयूयुजन् सजानकुर्वन् । कुलप्रसूतान् उत्त- मानित्यर्थः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड - व्याख्याने द्व्यशीतितमः सर्गः ॥ ८२ ॥ काल्यं अहर्मुखं “ प्रत्यूषोहर्मुखंकाल्यं ” इत्यमरः। प्राप्येतिशेषः ॥ १२ ॥ यथाविधिकल्पितानि भर- |तनियोगमनतिक्रम्यकल्पितानि | नवनागसहस्राणी- त्यनेन पुरस्थगजेषुनव नाग सहस्रमात्रप्रयाणेकल्पितमि- त्यवगम्यते ॥ ३ ॥ धन्विनोविविधायुधाश्चेत्यनेन योधाउक्ताः ॥ ४ ॥ समारूढानि सादिभिरितिशे- षः ॥ ५ ॥ अग्रतोगमनंपञ्चात्तापातिशयात् । याने- नेत्येकवचनं प्रत्येकापेक्षया ॥ ६ ॥ आर्यसंघाताः त्रैवर्णिकसंघाः । तस्यैवकथाः तत्संबन्धिवार्ताः ॥ ७ ॥ ताएवाह – मेघेत्यादिना | मेघश्यामं दूरस्थितत्वेपि ति० संपरिपूर्णकामः | तस्यापितैरामदर्शने उत्कटेच्छत्वात् ॥ ३१ ॥ इतियशीतितमस्सर्गः ॥ ८२ ॥ ति० कैकेयीच स्वकृतेः पुत्रं प्रत्यहिततयाजातत्वान्मयाकिंकृत मितिखिन्ना पुनःप्रकृतिमापन्नाहर्षेणययौ । अतएवमध्यमत्वेप्यादौ तदुल्लेखः । यानेनेत्येकवचनंप्रत्येकापेक्षया सौहार्दादेकयाने नैवतिसृणांगमनंवा | स० संतुष्टाइतिच्छत्रिन्यायेनोक्तिः । कैकेय्यास्सं- देशेनवातथोक्तिः ॥ ६ ॥ शि० आर्यसंघाताः आर्याणांवसिष्ठादीनांसंघाताः समूहाः । प्रयाताः अभवन्नितिशेषः ॥ ७ ॥ [ पा० ] १ च. छ. झ. ज. ट. वमुत्थाय २ क. ख. बलेप्रधानान्. ३ ख. आज्ञातु. ४ क. ग. नगरेच. ५ क. ग. घ. च. आयूयुजन्. ६ क. च. ज. खरात्रथांच. ७ झ. ट. काम्यया. ८ ख. ग. ङ. च. छ. झ ञ ट पुरोहिताः ९ ग. ङ. छ. झ ट राजपुत्रंयशखिनं. १० ङ. छ. ट. संतुष्टा. ११ घ. कथाः श्रुत्वा १२ च. ञ. हृष्टचेतसः
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१८
दिखावट