पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३०९ बहुपांसुचयाश्चापि परिखापरिवारिताः ॥ तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १८ ॥ प्रासादमालावितेताः सौधप्राकारसंवृताः || पताकाशोभिताः सर्वे सुनिर्मितमहापथाः ॥ १९ ॥ विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः || सुमच्छ्रितैर्निवेशास्ते बभ्रुः शक्रपुरोपमाः ॥ २० ॥ [ कचिंद्वर्षनिवेशार्थं मठा वेदिविभूषिताः ॥ क्वचिदापणपण्यानि पथि कृत्वाऽर्थराशयः ॥ 'दर्शयां चक्रुरत्यर्थं जनाः केचित्पुरे यथा ॥ २१ ॥ ] जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् || शीतलामलपानीयां मँहामीनसमाकुलाम् ॥ २२ ॥ सचन्द्र तारागणमण्डितं यथा नभः क्षपायाममलं विराजते || नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥ ८० ॥ एकाशीतितमः सर्गः ॥ ८१ ॥ रात्रिशेषेसूतमागधादिभिः सतूर्यघोषंभरतस्तवनारंभेतेन तन्निवर्तनपूर्वकंशत्रुमंप्रतिसशोकोक्तिः ॥ १ ॥ राजसभां विष्टे वसिष्ठेनभरताद्यानयनायदूतान्प्रतिचोदना ॥ २ ॥ भरतेनामात्यादिभिः शत्रुघ्नेन च सह वसिष्ठाद्यधिष्ठितसभाप्रवेशः ॥ ३ ॥ ततो नान्दीमुखीं रात्रि भरतं सूतमागधाः || तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः ॥ १॥ C 66 बह्वित्यादिश्लोकत्रयमेकंवाक्यं । तत्र मार्गे । बहुपां- | मिका:प्रासादा: तैर्बभुः । शऋपुरोपमाः अमरावती- सुचया: पांसुशब्देनात्रसूक्ष्मसिकताउच्यन्ते । बहवः | सदृशाः ॥ १८-२१ || समासाद्य अवधीकृत्य पांसुचयायेषुतेतथोक्ताः । परिखापरिवारिताः खेयै- तत्पर्यन्तमित्यर्थः । निवेशाबभुरितिपूर्वेणान्वयः उत्तरे- र्वृताः इन्द्रकीलप्रतिमाः इन्द्रकीलपर्वतसदृशाः । प्रतो- णवा | गङ्गाविशेषणैस्ततः परंनिवेशकरणाशक्यत्वंद्यो- लीवरशोभिताः प्रतोली वीथि: । " रथ्याप्रतोलीवि- | त्यते ॥ २२ ॥ सचन्द्रतारागणमण्डितमिति । सच- शिखा " इत्यमरः । प्रासादमालावितताः प्रासादादे- न्द्रोयस्तारागण : तेनमण्डितं ॥ २३ ॥ इति श्रीगोवि- वगृहाणि । “ प्रासादोदेवभूभुजां" इत्यमरः । सौध- न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने प्राकारसंवृताः सौधाः राजगृहाणि । यद्वा सौधाः सुधा- अयोध्याकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥ धवलिताः “तेनरक्तंरागात्” इत्यण् । समुच्छ्रितैः उन्न- तैः । अतएव आकाशेविसर्पद्भिरिवस्थितैः विटङ्काग्र- नान्दीमुखीं रामानयनाभ्युद्यप्रारम्भयुक्तां । यद्वा विमानकै: विटङ्कयुक्ताग्रविमानैः । “ कपोतपालिका- भैरताभिषेकायवसिष्ठेनकृतनान्दीमुखाभ्युदययुक्तां । यांतुविटङ्कपुंनपुंसकं ” इत्यमरः । विमानानि सप्तभू- | यद्वा शोकविगमायकृताभ्युदयामित्यर्थः । रात्रिं रात्रौ ॥ १६ ॥ ति० बहुपांसुचयाइत्यनेनशर्करा दिरा हित्यंसूचितं । इन्द्रनीलमणि निर्मिताःप्रतिमाः चित्रप्रतिमायेषुनिवेशेषु ॥ १८ ॥ ति० वितर्दिभिरिव विधिधिष्ण्यै रिवस्थितैरुपलक्षिताःविसर्पद्भिरिवाकाशेइतिपाठान्तरं । तदाऊर्ध्वमूर्ध्वगच्छद्भिरिवेत्यर्थःकथंचिद्यो- ज्यः ॥२०॥ ति० जाहवींसमासाद्य अभिव्याप्यप्रवर्तितोनरेन्द्र मार्गोव्य राजतेत्यन्वयः ॥२२ – २३॥ इत्यशीतितमस्सर्गः ॥८० ॥ स० नान्दीमुखीं रामानयनोपयुक्तमङ्गलरात्रिषुप्रथमामित्यर्थः । अल्पावशिष्टामितिशेषः । नोचेत् “कालाध्वनोः– ” इतिद्वि- तीयानस्यादितिज्ञेयं । ति० सविशेषज्ञाः राजनिराजपुत्रेचापेक्षित विशेषस्तवंजानन्तितादृशाः । मङ्गलसंस्तवैः मङ्गलप्रतिपादकैः । शि० नान्दीमुखीं नान्याःरामागमन विषय कोद्योगजनितानन्दस्यमुखंप्रारंभोयस्यांतांत्रिं । ज्ञात्वेतिशेषः । वाग्विशेषज्ञाःस्तवै- स्तुष्टुवुः । नान्दीमुखींज्ञात्वेत्यनेन रामनिर्गमनानन्तरमेतद्रात्रेः पूर्वे सूतादिभिर्नस्तुत मितिध्वनितं | "नन्दिरानन्दनेद्यूते” इतिविश्वः । अत्रदीर्घःस्वार्थिकाणन्तातूडीपिबोध्यः । नन्दः नन्दत्वमेवनान्दः सोस्त्यस्येतिनान्दीतस्यइयाः व्याप्तेर्मुखमारंभोयस्यांतामित्यर्थः [ पा० ] १ क - ङ. छ. झ. ट. नीलप्रतिमाः २ ङ – झ. ट. संयुक्ताः क - घ. संसक्ताः ३ क. च. ञ. सुम्यक्सुनि- र्मित. ४ क. ङ. छ. झ. वितर्दिभिः ५ क. ज. पुस्तकयोरिदमर्धत्रयंदृश्यते ६ ग घ. शीतलामृत ७ घ. महाजन. ८ ङ. ११ ङ. झ ट संस्तवैः. छ ज झ ट तदा ९ क. ग. च. विराजते. १० क. च. झ ञ सविशेषज्ञाः