पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ लता वल्लीच गुल्मांथ स्थाणूनश्मन एव च ॥ जनास्ते चक्रिरे मार्ग छिन्दन्तो विविधान्द्रुमान्॥६॥ अवृक्षेषु च देशेषु केचिद्वृक्षारोपयन् | केचित्कुठारैष्टश्च दात्रैछिन्दकचित्कचित् ॥ ७ ॥ अपरे वीरणस्तम्बान्बलिनो बलवत्तराः ॥ विधमन्ति स दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥ अपरेऽपूरयन्कूपान्पांसुभिः श्वश्रमायतम् || निम्नभौगांस्ततः केचित्समांचक्रुः समन्ततः ॥ ९ ॥ बबन्धुर्बन्धनीयांश्च क्षोद्यान्सं चुक्षुदुस्तदा || बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ॥ १० ॥ अचिरेणैव कालेन परिवाहान्बहूदकान् || चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून् ॥ ११ ॥ निर्जलेषु च देशेषु खानयामासुरुत्तमान् || उदपानान्बहुविधान्वेदिकापरिमण्डितान् ॥ १२ ॥ ससुधाकुट्टिमतलः पुष्पितमहीरुहः ॥ मत्तोडष्टद्विजगणः पताकाभिरलंकृतः ॥ १३ ॥ चन्दनोदर्कसंसिक्तो नानाकुसुमभूषितः ॥ बहशोभत सेनायाः पन्थाः सुरपथोपमः ॥ १४ ॥ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः ॥ रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १५ ॥ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः ॥ भूयस्तं शोभयामासुर्भूषाभिभूषणोपमम् ॥ १६ ॥ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः || निवेशान्स्थापयामासुर्भरतस्य महात्मनः ॥ १७॥ " स्तात्संप्रतस्थिरे ॥ ५ ॥ लता: मार्गावरणीभूताःशा- | नबहूद्कांश्चक्रुः । यद्वा परिवाहान् दूरस्थतटाकप्रवर्ति- खाः । “समेशाखालते” इत्यमरः । वल्ली: वीरुधः । तान् । बहुविधांकारान् सोपानावताराद्यनेकप्रकारा- गुल्माकान् । स्थाणून शङ्कन् । “स्थाणुरस्त्रीध्रुवः नित्यर्थः ॥ ११॥ उदपानान् कूपान् । “पुंस्येवान्धुःप्रहिः शङ्कुः” इत्यमरः ॥ ६ ॥ टक्कैः पाषाणभेदनादिसा- कूपउद्पानंतुपुंसिवा” इत्यमरः । बहुविधान् नरगज- धनैः । टङ्क: पाषाणदारण: इत्यमरः । दात्रैः तुरगादिपानयोग्यसरोवाप्यादिभेदेनबहुविधान् । वे- लवित्रैः।“दात्रंलवित्रं” इत्यमरः । छिन्दन् अच्छिन्दन् |दिकापरिमण्डितान् जलपानकालेविश्रान्त्यर्थतीरेवेदि- ॥ ७ ॥ वीरणस्तम्बान् वीरणतृणकाण्डान् । विधम- कालंकृतान् ॥ १२ ॥ ससुधेत्यादिश्लोकद्वयमेकान्व- न्तिस्म अदहन् । ध्मा शब्दाग्निवऋसंयोगयोरित्यस्मा - यं । सुधालिप्तकुट्टिमतलोपेतः " कुट्टिमोस्त्रीनिबद्धा- द्धातोर्धमादेशः । बलिनः रूढमूलान् छेत्तुमशक्या- भूः " इत्यमरः । प्रपुष्पितमहीरुहः जलसेचनेनेति नित्यर्थ: । दुर्गाणि गन्तुमशक्यानि निम्नोन्नतस्थला- शेषः । चन्दनोदकसंसिक्तः विश्रान्तिप्रदेशेषुचन्दनयु- नीत्यर्थ: । स्थलानि समानिचक्रुरितिशेषः ॥ ८ ॥ क्तवारिसिक्तः | नानाकुसुमभूषितः प्रकीर्णनानापुष्प- कूपान् मार्गस्थान् । आयतंश्वभ्रं अवटंच | पांसुभिरपू- शोभितः ॥ १३-१४ ॥ अथ मार्गकरणानन्तरं । रयन् निम्न्नभागांश्चपांसुभिःसमांश्चक्रुः । प्रपूर्येतिशेषः । अधिकृताः मार्गशिबिरादिकरणेनियुक्ताः युक्ताः पर- यद्वा पूर्वश्लोके दुर्गाणि तृणलतादिच्छन्नानिस्थलानिच स्परंयुक्ताः । बहुस्वादुफलेषु रमणीयेषुदेशेषु भरतस्ययो विधमन्तिस्मेतियोजना । अतोनपुनरुक्तिः ॥ ९ ॥ निवेश: यादृशाकारवि शिष्टोनिवेशोभिप्रेतः अभिमतः बन्धनीयान् जलप्रदेशान् । बबन्धु: सेनासंतरणार्थं तं तादृशसंनिवेशं | यथाज्ञप्ति यथामति । आज्ञाप्य कर्तुं सेतुभिर्बबन्धुः । क्षोद्यान् क्षोदार्हान् शर्कराभूयिष्ठप्र- नियम्य | भूषणोपमं भूषणभूतं स्वतोलंकृतमितियावत् । देशान् । संचुक्षुदुः चूर्णयामासुः | भेदनीयान् क- निवेशं भूषाभिः वितानकनककलशध्वजादिभिः । च्छादिबहुजलप्रदेशान् । जलनिर्गमनार्थबिभिदुः॥१० भूयोपि शोभयामासुः भूषयामासुः ॥ १५–१६ ॥ परिवाहान् अल्पप्रवाहान् जलोच्छ्रासान् । बन्धने- | तद्विदः वास्तुशास्त्रज्ञाः । निवेशान् शिबिराणि ||१७|| ति० अरोपयन् छायार्थमितिशेषः ॥ ७ ॥ स० ससुधाकुट्टिमतलः तत्रतत्रविश्रमार्थसुधानिबद्धभूप्रदेशसहितः । सुनाम चूर्णगुडसंमर्दनजन्यकर्दमविशेषः ॥ १३ ॥ ति० निवेशः शिबिरं । भूषणोपमं मार्गस्यालङ्कारसदृशं । अतिरमणीय मितियावत् [ पा० ] १ ग. घ. जनयाञ्चक्रिरे. २ छ. पांसुभिर्धूलिशर्करैः ३ ङ. झ. ट. भागांस्तथैवाशु. क. ख. ग. च. भागांस्तथाके ६ च. ञ. देशांस्ततस्ततः ख. देशांस्तथापरे ७ ङ. छ. झ. अचिरेणतु. ८ ख. संक्लिन्नो॰ ९ क. ख. ग. च. ज. स्वर्गपथोपमः १० ख. स्त्रिदिवोपमं ११ ग. घ. ङ. सुमुहूर्तेषु. चित्. ४ क. ख. ग. च. ततस्ततः. ५ ग. ङ. झ. स्तथा.