३०६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ [ एवमुक्तः शुभं वाक्यं युतिमान्सत्यवाक्छुचिः ॥ ] आभिषेचनिकं भाण्डं कृत्वा सर्व प्रदक्षिणम् ॥ भैरतस्तं जनं सर्व प्रत्युवाच धृतव्रतः ॥ ६ ॥ "ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ॥ नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः ॥ ७॥ रामः पूर्वो हि नोभ्राता भविष्यति महीपतिः ॥ अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥ युज्यतां महती सेना चतुरङ्गमहाबला || आनयिष्याम्यहं ज्येष्ठं भ्रतरं राघवं वनात् ॥ ९ ॥ आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ॥ पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ १० ॥ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ॥ आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥ न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् ॥ वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥१२॥ क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ॥ रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३॥ एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् ॥ प्रत्युवाच जनः सर्व: श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥ एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् || यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ १५ ॥ अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च ॥ प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरौर्यानननेत्रसंभवाः ॥ १६ ॥ ण्डं उपकरणं ॥ ६ ॥ राजता राजवं ॥ ७ ॥ व तत्समीपगमनायेतिशेषः । विषमाणि निम्नोन्नतस्थला- त्स्यामि रामप्रतिनिधित्वेनेतिशेषः ॥ ८ ॥ आनयि- नि समानिक्रियन्तां । पथिदुर्गविचारकाः मार्गेदुर्ग- ष्यामीत्यत्र इडार्षः ॥ ९ ॥ उपस्कृतं संस्कृतं उपक- स्थलशोधकाः । यद्वा दुर्गाभिज्ञाः रक्षिणः ॥ १३ ॥ रणमितिवार्थः । रामहेतोः रामाभिषेकार्थ ॥ १० ॥ रामहेतोः अनुत्तमंश्रीमद्वाक्यं एवंसंभाषमाणप्रत्युवा- पुरस्कृतं पूजितं । " पुरस्कृतः पूजितेरात्यभियुक्तेप्रतः- चेतिसंबन्धः ॥ १४ ॥ पद्मा पद्मालया श्रीः ते उप- कृते ” इतिवैजयन्ती । यद्वा पुरस्कृतं स्वजनदर्शने - तिष्ठतां त्वत्समीपेअनपायिनीतिष्ठत्वित्यर्थः । नृपसुते नाभिमुखीकृतमित्यर्थः । अध्वरात् यागशालायाः नृपसुताय । सएवसुत: ज्येष्ठत्वात् । “ इतरेकामजा: हव्यवाहं त्रेताग्निं ॥ ११ ॥ मातृगन्धिनीं केवलमा- स्मृताः " इतिवचनादितिभावः ॥ १५ ॥ संश्रवणे तृव्यपदेशां लेशमात्रमातृभावामितिवा । “गन्धोले- रामानयनप्रतिज्ञाविषये । “आगूसंगरसंधाःप्रतिश्रवः शेमहीगुणे " इतिवैजयन्ती ॥ १२ ॥ क्रियतामिति संश्रवः प्रतिज्ञाच ” इतिहलायुधः । निशम्य स्थिता- । कतक० पुत्रगृद्धिनीमितिपाङ्कः पाठः । पुत्रगार्धिनीमित्यर्थः । स० मातृगर्धिनीं मातृयोग्यमानापेक्षावतीं ॥ १२ ॥ स० दुर्गविचारकाः गन्तुमशक्यमार्गः क्ववर्ततइतिविचारकाः । ति० पथिविद्यमानेषुदुर्गेषु विशेषेणजनांश्चारयन्तीतिपथिदुर्गविचारकाः। पथिदुर्गविशारदाइतिपाठे तत्रविद्यमानदुर्गेचोरादिभीत्यागन्तुमशक्यप्रदेशेरक्षणविशारदाइत्यर्थः ॥ १३ ॥ शि० पद्मा कमलकरा श्रीः लक्ष्मीः । उपतिष्ठतां स्तौतु । वयंनस्तव ने समर्थाइत्यर्थः । एतेनेदमेवकर्तव्यमितिसूचितम् ॥ १५ ॥ ति० तद्वचनंनिशम्य स्थितानांजनानांप्रति भरतमुद्दिश्यप्रहर्षजाः आर्यानननेत्रसंभवाः हर्षयुक्तमुखस्थनेत्रजबिन्दवो निपेतुरितितीर्थः । अत्राननपदम- धिकं । कतकस्तु नृपात्मजःप्रभाषितमितिसविसर्गपाठः । नृपात्मजःजनैःप्रभाषितं अनुत्तमंतद्वचनंआशीर्वचनं संश्रवणेसम्यक्छ्रवण- 'विषयेप्राप्तंनिशम्यहृष्टोऽभूदितिशेषः । अथतंप्रति तंजनंलक्षीकृत्य । कर्मप्रवचनीयत्वाद्वितीया । आर्यस्यपूज्यस्यभरतस्यआर्येपूज्यंयदा- ननं । जनाशीर्वादश्रवणजसंतोषेणपूज्यत्वंमुखस्य । तद्वर्तिनेत्रसंभवाः अतएवहर्षजाबिन्दवोनिपेतुः । अनुक्तभरतसौमुख्यकथनं चास्यश्लोकस्यप्रयोजनमित्याह - अत्रकत कपाठस्त च्याख्याचज्यायसी | शि० आर्यानननेत्रसंभवाः आर्याणांउत्तमानांअननंजीवनं येभ्यः यद्धेतुकानन्दानुमानेनान्येपिसज्जनास्सानन्दाभवन्तीत्यर्थः । तेचतेनेत्रसंभवाः । स० नवियतेउत्तमंयस्मात्तदनुत्तमं । संश्रवणे श्रवणीयेरामानयनविषये तद्वचनंनिशम्य ॥ १६ ॥ [ पा० ] १ क. च. इदमर्धमधिकं २ ग. चापि ३ एतदर्धस्यप्रतिनिधितया क. ख. पाठयोः भरतः स्वजनंस सरोषमभिवीक्ष्यच । क्षणंपिधायकणसप्रत्युवाचघृतव्रतः इत्यधंद्वयं दृश्यते रूक्ष मेवाभिवीक्ष्यचेति ख. पाठः ४ ग. च. ज. ञ, दृढव्रतः ५ ख मेत्राता. ६ ङ. छ. ट. नववर्षाणि ७ ख. ग. ङ. च. छ. छ. ज. ट. आनयिष्यामि ८ ङ. मातरं. ९ ङ. छ. ज. झ. पुत्रगुद्धिनीं. १० ङ. राजारामो ११ ख. ग. रुर्व्याजननेत्र.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१०
दिखावट