सर्गः ७९ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ३०५ तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् || अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २१ ॥ हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ॥ यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ||२२|| इमामपि हतां कुब्जां यदि जानाति राघवः ॥ त्वां च मां चेहि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥२३॥ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ॥ न्यवर्तत तैतो रोषात्तां मुमोच च मन्थॆराम् ॥ २४ ॥ सा पादमूले कैकेय्या मन्थरा निपपात ह || निश्वसन्ती सुदुःखार्ता कृपणं विललाप चैं ॥ २५ ॥ शत्रुघ्नविक्षेपविभृढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ॥ / शनैः समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ २६ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥ एकोनाशीतितमः सर्गः ॥ ७९ ॥ चतुर्दशेदिव से मन्त्रिप्रमुखैर्भरसंप्रतिराज्यस्वीकारप्रार्थना ॥ १ ॥ भरतेनतान्प्रतितत्प्रतिषेधनपूर्वकमभिषेकार्थमयोध्यांप्रति रामानयनायचतुरङ्ग बलसाहित्येनवनगमनार्थमार्गनिर्माणायनाना शिल्पिनियोजनचोदना ॥ २ ॥ ततः प्रभातसमये दिवसे च चतुर्दशे || समेत्य रांजकर्तारो भरतं वाक्यमब्रुवन् ॥ १ ॥ गतो दशरथः स्वर्ग यो नो गुरुतरो गुरुः ॥ रामं प्रत्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ २ ॥ त्वमद्य भव नो राजा राजपुत्र महायशः || सङ्गत्या नापराप्नोति राज्यमेतदनायकम् ॥ ३ ॥ आभिषेचनिकं सर्वमिदमादाय राघव || प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥ ४ ॥ राज्यं गृहाण भरत पितृपैतामहं ध्रुवम् ॥ अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥ ५ ॥ त्रयोदशदिवसपर्यन्तमपरक्रियाव्यापृतत्वाचतुर्दश इत्युक्तं | समेत्य एकीभूय || १ || गुरुतरोगुरुः पर- मगुरुरित्यर्थः ॥ २॥ " राजानंप्रथमंविन्देत्ततोभा- यतितोधनं " इति मातापित्रादेरपिराज्ञएवान्तरङ्ग- रक्षकत्वोपदेशात् अनायकमपि एतद्राज्यं सङ्गत्या दै- वयोगेन । नापराप्नोति राज्यस्थजनजातमन्योन्यंन दुह्यतीत्यर्थः ॥ ३ ॥ प्रकृत्याभिमुख्यमप्यस्तीत्याह— आभिषेचनिकमिति । आभिषेचनिकं अभिषेकप्रयो- जनं पदार्थजातं । स्वजन: अमात्यादिः । श्रेणयः नै- गमाः । प्रतीक्षन्तइतिविपरिणामः ॥ ४५ ॥ भा ति० जानाति ज्ञास्यते । नाभिभाषिष्यते स्त्रीघातिनावितिमत्वेतिभावः ॥ २३ ॥ इत्यष्टसप्ततितमस्सर्गः ॥ ७८ ॥ ती० राजकर्तारः राजाभिषेककर्तारः । स० राजानंकर्तारः राजकर्तारः मन्त्रिणः ॥ १ ॥ ति० रक्षासाधनत्वाद्राजागुरुः तत्राप्ययंगुरुतरः । ज्येष्ठं राज्याहै ॥ २ ॥ ती० संगत्या सामन्तामात्यादीनामैकमत्येन | ति० यतएतद्राज्यमनायकंततोराजा भव । ननुज्येष्ठेविद्यमानेकथमहंराजातत्राह– संगत्या ज्येष्ठस्यवनवासंप्रतिपितुराज्ञासंगत्या तवचराज्यंप्रतितदाज्ञासंगत्या राज्यंकु- र्वन्नपिभवान्नापराप्नोति धर्मविरोधज्येष्ठविरोधलोकविरोधानप्राप्नोति । पित्राज्ञायाउभाभ्यामपिपालनीयत्वादितिबहवः ॥ ३ ॥ [ पा० ] १ ख. ङ. छ. झ. ट. तंप्रेक्ष्य. २ क. ख. ग. ङ. छ. झ ञ ट चैव. ३ क. ग. च. तदारोषात्. छ. झ. ट. ततोदोषात्. ४ ङ. छ. झ. ट. मूर्चिछतां. ५ क. करुणं. ६ क - ट. ह. ७ ख. विविनामिव ८ क. प्रभाते. ९ क. ङ. छ-ट. दिवसेऽथ. १० ङ च राज्य. ११ घं. राजागुरुस्तव. ग. गुरुतरोमहानू. १२ ग घ. महायशाः ख महाबल क्षम्यता मित्यब्रवीदित्यन्वयः ॥ २१ ॥ नासूयेत् नग- र्हेत ॥ २२ ॥ माभून्मातृहत्या सर्वकुहनामूलभूतेय- मेवकुब्जाहन्यतामित्यत्राह — इमामित्यादिना । नाभि- भाषिष्यते इत्यब्रवीदितिअनुकृष्टेनपूर्वेणसंबन्धः ॥ २३ —२५ ॥ शत्रुघ्नविक्षेपविमूढसंज्ञामिति । विक्षेपोभ्रा- मणं तेनविमूढसंज्ञां अन्यथाभूतमतिं । विलग्नां वा- गुरालग्नामितिभावः । विविघ्नामितिपाठे कम्पवतीमि- त्यर्थः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- द्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- ख्याने अष्टसप्ततितमः सर्गः ॥ ७८ ॥ १३ क. न्व. महाबल. १४ क. ख. ग. महत्. वा. रा. ७१ 2
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०९
दिखावट