श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मेखलादामभिचित्रैरन्यैश्च शुभभूषणैः ॥ बभासे बहुभिर्बद्धा रज्जुबद्वेव वानरी ॥ ७ ॥ तां समीक्ष्य तदा द्वास्स्यां सुभृशं पापकारिणीम् || गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयत् ॥ ८ ॥ यस्याः कृते बने रामो न्यस्तदेहश्च वः पिता | सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ९ ॥ शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ॥ अन्तःपुरचरान्सर्वानित्युवाच धृतव्रतः ॥ १० ॥ तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः ॥ यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ ११ ॥ एवमुक्त्वा तु तेनाशु सखीजनसमावृता ॥ गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥ १२ ॥ ततः सुभृशंसंतप्तस्तस्याः सैर्वः सखीजन: ॥ क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥ १३ ॥ आमन्त्रयत कृत्स्नश्च तस्याः सर्वः सखीजन: || यथायं समुपान्तो निःशेषन्नः करिष्यति ॥ १४ ॥ सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् || कौसल्यां शरणं याम सा हि नोस्तु ध्रुवा गतिः ॥ १५ स च रोषेण तम्राक्षः शत्रुः शत्रुतापनः ॥ विचर्ष तदा कुब्जां क्रोशन्तीं धैरणीतले ॥ १६ ॥ तैस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः || चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ १७ ॥ तेन भाण्डेन ¨संस्तीर्ण श्रीमद्राजनिवेशनम् || अशोभत तदा भूयः शारदं गगनं यथा ॥ १८ ॥ स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ॥ कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ १९ ॥ तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता || शत्रुघ्नभयसंत्रस्ता पुत्रं शरणमागता ॥ २० ॥ ३०४ भूषणशब्दोपि मेखलादामभिन्नपरः । गोबलीवर्दन्या- | ल्गुवागपि " इतिवैजयन्ती | कौसल्यांशरणंयाम यात् । अन्यैः मेखलाप्रदेशधारणीयैः । बद्धेतिविशे- सानोध्रुवागतिरस्त्वित्यन्योन्यमाह्वयदित्यन्वयः ॥ १४ षणात् भूषणानिबन्धनस्थानीयानिनतुशोभाकराणी- – १६ ॥ भाण्डं भूषणं । "वणिमलधनेपात्रेभाण्ड त्युक्तं ॥ ७ ॥ अकरुणां निर्दयां ॥ ८ ॥ वने अभू- भूषाश्वभूषयोः” इतिवैजयन्ती | पृथिव्यां तद्व्यशीर्यत दितिशेषः । कुरु शिक्षणमितिशेषः ॥ ९–१२ ॥ विशीर्णमासीत् | [ पृथिव्यांतद्विशीर्यते विशीर्णमा- विपलायतेति “उपसर्गस्यायतौ” इतिरेफस्यलत्वं ॥१३॥ | सीत् ] ॥ १७ ॥ शारदं प्रसन्ननक्षत्रमित्यर्थः ॥१८॥ आमयत अन्योन्यमाह्वयत् । तस्याः सर्वः सखीजन: बलवत्क्रोधात् अतीवक्रोधात् । कैकेयीममिनिर्भयें- कृत्स्नः तदितरःसर्वोपिजनः । यथा येनप्रकारेण । अ- त्यनेनमन्थरामोचनाथैतदाकैकेयीसमागतेत्यवगम्यते यं शत्रुघ्नः । उपक्रान्तः यथा नः निःशेषान्करिष्यति । || शत्रुघ्नभयसंत्रस्तापुत्रंशरणमागते त्यनेन जनापेक्षयापुंस्त्वं । वदान्यां वल्गुवाचं । “वदान्योव- भर्त्सनानन्तरंतांप्रहर्तुमप्युद्युक्तवानितिसूच्यते ||२०|| ॥ १९ शिo सरामः निष्यविहारसहितोरामः ॥ २ ॥ ति० रज्जुभिरित्यत्रगुरुलघुप्रयुक्तश्छन्दोभङ्गआर्षः ॥ ७ ॥ स० यथाकरिष्य- ति सम्यक् करिष्यति । “निवृत्तिमार्गः कथित आदौभगवतायथा" इतिश्रीमद्भागवतेसम्यगित्यर्थेयथाशब्दप्रयोगात् । यतइत्यर्थेवाऽयंनि- पातः ॥ १४ ॥ ति० पृथिवीतले पातयित्वेतिशेषः ॥ १६ ॥ ति० कैकेयीमभिनिर्भर्त्स्य निर्भर्त्सनमत्रहस्तेनदूरीकरणं ॥ १९ ॥ ति० पुत्रंशरणमागता । कुब्जामोचनार्थमितिशेषः ॥ २० ॥ [ पा० ] १ ख. ङ. छ. झ. वर. क. बहु. २ झ ट रज्जभिरिववानरी ३ क. ख. ङ. च. छ. झ ञ द्वास्थोभृशंपापस्य कारिणीं. घ. द्वास्स्थांसभृशं. ग. द्वास्स्थांसुदृढ. ४ क. ख. घट. वाडकरुणं. ५ झ. न्यवेदयत् ६ घ. ज. ट. द्रुतंवचः. ७ क. घ. यथा. ८ ख – ङ. झ ञ. यथा. ९ ङ. नृशंसास्य १० क. मुक्ताच. ११ क. च. ञ. संत्रस्त: १२ क. ख. च. सर्वसखीजनः १३ ख. ग. सर्वतः १४ ख. ग. च. छ. झ ञ ट. अमन्त्रयत. १५ यथायंसमुपक्रान्तः क्रुद्धमाज्ञायशत्रुघ्नं. आमन्त्रायतकृत्स्नश्च इति ङ. पाठानुपूर्वी १६ क - छ. झ ट निःशेषं. १७ ड. छ. ञ ट नोस्ति. १८ ङ. छ. झ. ट. संवीतः १९ ङ. छ. झ ट शासनः २० ङ. छ. झ ट संचकर्ष. २१ ख. ङ. च. झ ञ ट पृथिवी. २२ क. ङ, च. छ. क्ष. ष ट तस्यांयाकृष्यमाणायांमन्थरायामितस्ततः च. न. तस्यांतु. २३ ख. ग. घ. च. ज. संकीर्ण. छ. झ. ट. विस्तीर्ण. ङ. निस्तीर्ण. २४ ङ. पुरुषोत्तमः २५ ख. मपि,
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०८
दिखावट