पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । पञ्चमः सर्गः ॥ ५॥ वसिष्ठेनदशरथचोदनयाराम निवेशनंप्राप्यसीतयासहमत्रवद्रताचरण निवेदन पूर्वकं पुनर्दशरथसमीपगमनम् ॥ १ ॥ वसि- ष्ठाभ्यनुज्ञाते नृपेणसभाजनविसर्जनपूर्वकंस्वान्तःपुरप्रवेशः ॥ २ ॥ संदिश्य रामं नृपतिः वो भाविन्यभिषेचने || पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत् ॥ १ ॥ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन || श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥ तथेति च स राजानमुक्त्वा वेदविदां वरः ॥ स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ ३ ॥ उपवसयितुं रामं मन्त्रवन्मत्रंकोविदः ॥ ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ ४ ॥ स रॉमभवनं प्राप्य पाण्डुराभ्रघनप्रभम् || तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ५ ॥ तमार्गतमृषिं रामस्त्वरन्निव संसंभ्रमः || मानयिष्यन्स मानार्हे निश्चक्राम निवेशनात् ॥ ६ ॥ अभ्येत्य त्वरमणिश्च रथाभ्याशं मनीषिणः ॥ ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७ ॥ स चैनं प्रश्रितं दृष्ट्वा संभाष्यांभिप्रसाद्य च ॥ प्रियाह हर्षयत्राममित्युवाच पुरोहितः ॥ ८ ॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि || उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ॥ पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥ इत्युक्त्वा स तदा राममुपवासं यँतव्रतम् || मैत्रवत्कारयामास वैदेद्या संहितं मुनिः ॥ ११ ॥ ततो यथावद्रामेण स राज्ञो गुरुरचितः || अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥ सुहृद्भिस्तत्र रामोपि सँहासीनः प्रियंवदैः ॥ सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥ हँष्टनारीनरयुतं रामवे म तँदा बभौ ॥ यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥ •स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ॥ निर्गत्यं ददृशे मार्ग वसिष्ठो जनसंवृतम् ॥ १५ ॥ २७ अथोपवासस्यपुरोहितसंकल्पमत्रादिसाध्यत्वात्पुरो- कारे । मानयिष्यन् माननाद्धेतोः। “लक्षणहेत्वोःक्रिया- हितंसंदिशतिपञ्चमे । संदिश्य व्रतोपवासादिकंकुर्वित्य- याः” इतिहेत्वर्थेशतृप्रत्ययः || ६ || रथाभ्याशं रथ- नुज्ञाप्य ||१|| काकुत्स्थमुपवासंकारय "इक्रोरन्यतर- समीपं ॥ ७ ॥ प्रश्रितं विनीतं । " विनीतप्रश्रितौस- स्यां” इतिविकल्पेनकाकुत्स्थशब्दस्यकर्मसंज्ञा ||२-३|| मौ" इत्यमरः । संभाष्य कुशलप्रअंकृत्वा । सभाज्ये- `ब्राह्मं ब्राह्मणवहनयोग्यं । युक्तं वाजिभिर्युक्तं | आस्थाय तिपाठेकुशलप्रश्नाधीनप्रीतिंजनयित्वेत्यर्थः । सभाजप्री- ययावितिपूर्वेणसंबन्धः ॥ ४ ॥ पाण्डुराभ्रघनप्रभं पा- तिसेवनयोरित्यस्माद्धातोरार्षोल्यप् । प्रिया प्रियकथ- ण्डुराभ्रमूर्तसदृशप्रभं । “घनोमेघेमूर्तिगुणेत्रिषुमूर्तेनि- नाई ॥८- ११॥ काकुत्स्थमभ्यनुज्ञाप्य अनुयान्तंरा- रन्तरे” इत्यमरः ॥ ५॥ त्वरन्निव इवशब्दोवाक्यालं- मंनिवर्तस्वेत्युक्त्वा । ययौ निर्ययौ ॥ १२ – १५॥ ती० पाण्डुराभ्रघनप्रभं पाण्डुराभ्रस्येवघनासान्द्राप्रभायस्यतत् ॥ ५ ॥ ति० त्वरन्निव वरन्नेव ॥ ६ ॥ ति० राजभवनं मूल- राजभवनं । प्रख्यं सदृशं ॥ १५ ॥ [ पा० ] १ क. मिदमब्रवीत्. २ ङ. छ. झ ञ ट श्रेयसेराज्य ३ ङ. छ. झ. यतव्रत. ४ ङ. छ. झ. ट. यितुंवीरं. .५ ङ. छ. झ. ट. मन्त्र विन्मन्त्रको विदम्. ज. मन्त्रयन्मन्त्रपारगः ख ग घ. मन्त्रवन्मन्त्रपारगः क. च. ञ. काकुत्स्थंमन्त्रको विदम्. ६ ङ. छ. ग. ज झ ट ठ सुधृतव्रतः. ७ क. च. ञ भवनंगत्वा ८ ख. समागतमृषि ९ ङ. छ. झ ञ. ट. ससंभ्रमम् १० ख. ग. ङ. छ. झ. ट. वरमाणोथ ११ क. प्रिया १२ ङ. छ. झ. ट. यत्त्वंराज्य १३ ख. घ. छ. झ. यतव्रतः १४ क. ङ. च. ञ. मन्त्रवित्कारयामास १५ ङ. छ. झ सहितंशुचिः १६ क. च. सुखासीनः १७क. च. अ. प्रहृष्टनरनारीकं १८ क. बभौतदा. १९ क. ग. घ. च. ज. अ. निस्सृत्य ददृशे.