पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तथा सन्नियमामेवं सोभिगम्याभिवाद्य च ॥ उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ ३४ ॥ अम्ब पित्रा नियुक्तोमि प्रजापालनकर्मणि ॥ भविता श्रोऽभिषको मे यथा मे शासनं पितुः ||३५|| सीतयाऽप्युपवस्तव्या रंजनीयं मया सह || ऍवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता ॥ ३६॥ यानियान्यत्र योग्यानि वो भाविन्यभिषेचने ॥ तानि मे मंङ्गलान्यद्य वैदेयाश्चैव कारय॥ ३७॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्गितम् || हर्षवाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ ॥ वत्स राम चिरं जीव हतास्ते परिपन्थिनः ॥ ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥ कल्याणे बर्त नक्षत्रे 'मँयि जातोसि पुत्रक || येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे | येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ ४१ ॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ॥ प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव ॥ ४२ ॥ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ॥ द्वितीयं मेन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥४३॥ सौमित्रे भुंक्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च ॥ 'जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥४४॥ इत्युक्त्वा लक्ष्मणं रामो मातराव भिवाद्य च ॥ अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥४५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४ ॥ यौवराज्याभिषेचनंश्रुत्वा सुमित्रादिभिरन्वास्यमाना | र: । मयेतिपाठे मयाहेतुनेत्यर्थः । येन येनकारणेन प्राणायामेन प्राणायामपूर्वकं । पुरुषं पुरुषसूक्तप्रति- ॥ ४० ॥ पुष्करेक्षणे पुण्डरीकाक्षे । पुरुषे नारायणे- पाद्यपुरुषशब्दवाच्यं । जनार्दनं नारायणं । ध्यायमा- विषये | मेक्षान्तं व्रतोपवासादिक्लेशसहनं । अमोघं ना ध्यायन्ती । आमीलितेक्षणा तस्थौ ||३२ – ३३॥ सफलं | साफल्येहेतुमाह — येयमिति | सासंश्रयिष्य- तथा पूर्वोक्तरीत्या । सन्नियमां समीचीननियमां ॥३४|| तीतिशेषः ॥ ४१ ॥ स्मयन्निव समन्दस्मितइत्यर्थः । मेपितुःशासनंयथातथाऽभिषेकःश्वोभवितेतिसंबन्धः | सतोषातिशयेनाब्रवीदितिभावः ॥ ४२ ॥ द्वितीयमन्त- ॥ ३५ ॥ सीतयामयापि सह तुल्यतया । इयंरजनी रात्मानं द्वितीयंप्राणं ॥ ४३ || भोगान् भोग्यपदार्था- एतद्दिनरात्रिः । उपवस्तव्या । अस्यांरजन्यामुपवस्त- न् । इष्टान् अभिमतान् । राज्यफलानि अनर्घ्यरत्नव- व्यमित्यर्थः। किंत्वयैवोच्यतेनेत्याह – एवमिति ||३६ || | स्त्राभरणादीनि ॥ ४४ ॥ सीतांचाभ्यनुज्ञाप्य मातृ- मङ्गलानि मङ्गलकर्माणि ||३७|| हर्षबाष्पकलं हर्षबा- भ्यामितिशेषः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचि प्र्पेणकलमव्यक्तमधुरं । वाक्यं ईषद्वाक्यं ।। ३८ || ह- ते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याका- ताः भवन्त्वितिशेषः । ज्ञातीन् बन्धून् ॥ ३९ ॥ - ण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥ ल्याणे अतिशोभने । नक्षत्रे मयिजातोसि । बतेतिसं- तोषे । “खेदानुकंपासंतोषविस्मयामन्त्रणेबत" इत्यम- शि० एवमुपाध्यायैरुक्तंवचः सपितामामुक्तवान् ॥ ३६ ॥ ति० कल्याणेनक्षत्रे शुभयुक्तेकाले । मयाजातः जनितः ॥ ४० ॥ ति० यद्वाराज्यफलानि धर्मार्थौ | तौचप्राप्नुहि ॥ ४४ ॥ इतिचतुर्थस्सर्गः ॥ ४ ॥ [1] [ पा० ] १ ज तदासनियमां. क – छ. झ. तथासनियमां. २ ख. ग. ज. मेवंसोभिगम्य ३ ङ. झ. ट. स्तामिदंवरं. ग. घ. ज. स्तामनिन्दिताम्. ४ क. च. न. वोऽभिषेकोऽयं. ५ ख. रजनीचमया ६ ङ. झ ट एवमुक्तमुपाध्यायैः ७ ङ. छ. झ. ट. सहिमामुक्तवान्. ८ घ. योज्यानि ९ ख मङ्गलान्यत्र. १० ख. ग. घ. ज. वैदेयाश्चापि ११ ङ. छ. झ ञ ट बाष्पाकुलं. १२ घ. कल्याणेऽदितिनक्षत्रे. १३ ख – च. झ. ट. मयाजातोसि. १४ ङ. छ. झ. ट. मात्रातु. १५ ङ. द. प्राक्समासीनं. १६ घ. भोग्यांस्त्वं. १७ ङ. झ , जीवितंचापि १८ ब. छ. झ. ट. ययौवंच निवेशनम्. +