सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ३४ ॥ पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः || स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥ ३३ ॥ अप्राप्य सहशान्दाराननपत्यः प्रमीयताम् || अनवाप्य क्रियां धर्म्यं यस्यार्योऽनुमते गतः माऽऽत्मनः संततिं द्राक्षीत्स्खेषु दारेषु दुःखितः ॥ आयु: समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥ ३५ ॥ राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ॥ भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ३६ || लाक्षया मधुमांसेन लोहेन च विषेण च ॥ सदैव बिभृयाद्धृत्यान्यस्योर्योऽनुमते गतः ॥ ३७ ॥ संग्रामे समुपोढे स्म शतपक्षभयंकरे || पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥ ३८ ॥ कपालपाणिः पृथिवीमटतां चीरसंवृतः ॥ भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः ॥ ३९ ॥ पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ॥ कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥ ४० ॥ माँ स धर्मे मैंनो भूयादधर्म सुनिषेवताम् || अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ ४१ ॥ संचितान्यस्य वित्तानि विविधानि सहस्रशः || दस्युभिर्विप्रलुप्यन्तां यस्यार्थोऽनुमते गतः ॥ ४२ ॥ उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ॥ तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥ ४३ ॥ यदग्निदायके पापं यत्पापं गुरुतल्पगे || मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ४४ ॥ देवतानां पितॄणां च मातापित्रोस्तथैव च ॥ मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः ॥४५॥ सतां लोकात्सतां कीर्त्यांसंजुष्टात् कर्मणस्तथा ॥ अश्यतु क्षिप्रमद्यैव यस्यार्थोऽनुमते गतः ॥ ४६ ॥ स्म प्रत्युपकारस्याकर्ता । अथाप्यकृतज्ञः आभ्यामेकं | निवर्जनीयानिविक्रये” इतिस्मृतेः । अप्यकार्यशतं पापमुक्तं । त्यक्तात्मा सद्भिः परिहृतः । अथापिनि- कृत्वेत्यस्यापवादोयं ॥ ३७ ॥ समुपोढे निकटे । रपत्रपः निर्लज्जः । अकृतप्रायश्चित्तइतियावत् । “उपोढोनिकटोढयोः" इतिवैजयन्ती ॥ ३८ ॥ अटतां इदमेकंपापं ॥ ३२ ॥ मृष्टमश्नातु इतरेषुकदन्नभुक्षु चरतु । चीरं मलिनं जीर्णवस्त्रं । अनेनशैवमतप्रवे- स्वयंमृष्टंसमीचीनमन्नं अनातु ॥ ३३ ॥ सदृशान् | शोनिन्द्यते ॥ ३९ - ४० ॥ अपात्रवर्षी अपात्रेबहु- समानकुलान् । धर्म्याक्रियां अग्निहोत्रादिकंच अप्रा- दायी ॥ ४१ ॥ दस्युभिः तस्करैः ॥ ४२ ॥ उभे प्य अनपत्यःसन्प्रमीयतां ॥ ३४ ॥ अप्राप्येत्यादि- इति उभयोः संध्ययोः ॥ ४३ || गुरुतल्पगे गुरुदा विवरणं—मात्मनइति। अनेनऋणापाकरणविनात्र- रंगे ॥ ४४ ॥ देवानांशुश्रूषा अग्निहोत्रादिकर्म संभृतै- ह्मचर्यादेवसंन्यासःप्रतिषिध्यते । अविरक्तविषयमि- दमितिचेन्न ब्रह्मचर्यादेवप्रव्रजेदित्यादेर्दारालाभविषय- राज्यचरुपशुपुरोडाशादिभि:प्रीणनं । पितॄणांतु उपरा- त्वात् । तत्रैवहि इतरथेत्यनेनायमर्थोदर्शितः ॥ ३५ ॥ गादिषुमातापितृमरणतिथ्यादिषुचपूर्वोक्तैरन्यैश्चतिला- राजस्त्रीत्यत्रापि यस्यार्योनुमतेगतइत्यनुषञ्जनीयं दिमिराराधनं । पितृशुश्रूषयैवमृतमातापितृशुश्रूषा- ॥ ३६ ॥ भृत्यान् भरणीयान् । लाक्षादिविक्रयलब्ध ग्रहणसंभवात् मातापित्रोरित्यत्रजीवतोरितिविवक्षितं द्रव्येणबिभृयात् रक्षेदित्यर्थ: । " लाक्षालवणमांसा |॥ ४५ ॥ सतांकीत् सद्भिः क्रियमाणश्लाघनात् । ति० समुपोढे प्राप्ते ॥ ३८ ॥ ति० कपालेति ब्रह्महाभवत्वितिशेषः । तादृशीनिषिद्धाचरणाप्रव्रज्याभववितिवाभावः । स० कपालपाणिः स्फुटितघटशकलपाणिः ॥ ३९ ॥ ति० दस्युभिर्विप्रलुप्यन्तां त्यागभोगविहीनानिभवन्वितिभावः ॥ ४२ ॥ ति० उभेसन्ध्ये व्याप्येतिशेषः ॥ ४३ ॥ स० पितॄणां व्यवहितानां ॥ ४५ ॥ [ पा० ] १ झ पुत्रैर्दासैश्च. क. ग. ङ. छ. ज. ट. पुत्रैर्दारैश्च २ क. क्रियाधर्म. ३ ग. नित्यशः ४ ङ. छ. त्यागेन. ५ घ. ङ. यस्यार्थोऽनुमतेगतः [ अस्मिन्पाठेतत्पापंप्रतिपद्यतामित्यध्याहृत्ययोजनाकार्या ] ६झ ट समुपोढेच. क. च. ञ समुपोढेतु. ७ क. च. ज. शत्रुपक्षे. ८ झ. मद्यप्रसक्तो. क. ङ. च. छ. ञ. ट. मद्येप्रसक्तो. ९ क. ङ. छ. झ ञ ट भूतश्च १० ङ. च. झ. ञ. ट॰ मास्य ११ ग. मतिर्भूयात् १२ क. ग. ङ. च. छ. झ. ञ ट सनिषेवंतां. १३ ग. संचितानित १४ घं.दाहके. १५ घ. यस्यार्मोनुमतेगतः [अस्मिन्पाठेतत्पापंप्रतिपद्यता मित्यध्याहृययोजनाकार्या ]. १६ क – छ. झ ञ ट, की संजुष्टात्.