पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उत्तिष्ठोत्तिष्ठ किं शेषे राजन्नत्र महायशः ॥ त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः ||२४|| दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा || बुद्धिस्ते बुद्धिसंपन्न प्रमेवार्कस्य मन्दिरे ॥ २५ ॥ स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ॥ जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ २६ ॥ अभिषेक्ष्यति राम नु राजा यज्ञं नु यक्ष्यते ॥ इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् ॥ २७ ॥ तदिदं ह्यन्यथा भूतं व्यवदीर्ण मनो मम ॥ पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ २८ ॥ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ॥ धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥२९॥ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ॥ उपजिद्धि मां मूर्ध्नि तातः संम्य सत्वरम् ||३०|| कस पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः ॥ ” येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥३१॥ यो मे भ्राता पिता बन्धुर्यस्य दासोस्मि धीमतः ॥ तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥ ३२॥ पिता हि भवति ज्येष्ठ धर्ममार्यस्य जानतः ॥ तस्य पादौ गृहीष्यामि स हीदानीं गतिर्मम ॥ ३३॥ धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः || आर्य: किमब्रवीद्राजा पिता मे सत्यविक्रमः ॥ ३४ ॥ [ गुरुरेक: प्रजानां तु पिता मे सत्यविक्रमः ] ॥ पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः ॥ इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ ३५ ॥ रामेति राजा विलपन्हा सीते लक्ष्मणेति च ॥ स महात्मा पर लोकं गतो गंतिमतां वरः ॥ ३६॥ २८४ थायुक्तः ॥ २१ – २३ ॥ राजन्निति भरतशोकनिव- | स्वार्कस्यप्रभेवाधिकप्रकाशवतीत्यर्थः । उत्तरायणेहिम- र्तनार्थमित्युक्तवती । सदसिसंमताः सभ्याइत्यर्थः न्दरगतस्यसूर्यस्यप्रभाऽधिकंप्रकाशतइतिप्रसिद्धम् ] ॥ २४ ॥ दानयज्ञौअधिक्रियेतेअनयेतिदानयज्ञाधि- ॥ २५–२६ ॥ यज्ञंयक्ष्यतइति यज्ञंकरिष्यतइत्यर्थः । कारा। तत्रर्हेतुःशीलेति । शीलंसद्वृत्तं श्रुतिवचोबेदवा- यात्रामयासिषं यात्रामकार्षमित्यर्थः ॥ २७ ॥ व्यव- क्यं अनुगच्छतीतितदनुगा तदनुसारिणी बुद्धिः दीर्ण भिन्नं ॥ २८–३० ॥ परिमार्जति परिमार्ष्टि। अध्यवसाय: । अर्कस्यप्रभामन्दिरइव सूर्यप्रभायथा मां आगतमितिशेषः । वसपाणि: गतइतिशेष: स्वस्थानेनिश्चलाभवतितथातेबुद्धिर्निश्चलाभातीत्यर्थः । मन्दरइतिपाठे अर्कस्यप्रभामन्दरइवेत्युक्तिरत्युन्नतम- ॥ ३१ - ३४ ॥ आत्मन:संदेशं मद्विषयसंदेशं न्दरपर्वतेअर्कप्रभायाःपर्वतान्तरापेक्षयाचिरकालाव- ॥ ३५ ॥ एवं पृष्टवन्तंभरतंप्रतित्वांराजा न स्मृतवान् स्थानात् । [ मन्दरइतिपाठे मन्दर शिखरेस्थित- | किंतुराममेवस्मरन्स्वर्गमगादितिपितृविषय स्नेहनिवर्त- क्षेपेणगजसदृशं । चन्द्रार्कसदृशं रामपक्षाणांचन्द्रसदृशं अन्येषांतापकत्वेन सूर्यसदृशमितिविवेकः ॥ २३ ॥ स० स्वमनोविवक्षया राजनित्युक्तिः ॥ २४ ॥ ति० श्रुतिः श्रुतं । तपः चान्द्रायणादि । शीलश्रुतिमनोनुगेतिपाठे तदुभयपरिशीलनविषयंयन्मनः संक- ल्पात्मकं तदनुगाबुद्धिः अध्यवसायात्मिका | अर्कैस्यमन्दिरे अर्कमण्डले | तदेवहि तस्यगृहं । स० अर्कप्रभायथामन्दिरे समुद्रे सर्वदाव्याप्ता तथातवबुद्धिरपि लौकिकालौकिक विषयेव्याप्तेत्यर्थः । यद्वा मन्दिरे गृहे । अर्कस्य स्फटिकस्य | प्रभायथा तथातवबु- द्धिरपिखच्छा । “अर्कोर्कपर्णैस्फटिके” “मन्दिरंनगरेऽगारेमन्दिरोमकरालये” इतिविश्वः ॥ २५ ॥ ति० अयाचिषमितिपाठे मातामहमितिशेषः ॥ २७ ॥ शि० मांप्राप्तंतातोराजानजानाति । नूनं निश्चितमेतत् । अन्यथामांसनाम्यमूर्ध्निउपजिघ्रेत् । तुर- न्यथार्थे ॥ ३० ॥ शि० गुरुरिति । तुयतः मेपिताप्रजानामेकोमुख्यः । गुरुः उपदेष्टा । अतः आत्मनः मत्संबन्धिनं । पश्चिमं अन्तिमं । संदेशं तदुपदिष्टंश्रोतुमिच्छामि । एतेनसंदेशंवदेतिसूचितं ॥ ३५ ॥ ति० विलपन्परलोकंगतः नतुकिंचिदपिसंदेशम- [ पा० ] १ क. ख. ग. ङ. च. छ. ज. राजपुत्र. २ क. द्विधाहिन. ३ क. घ – ट. तपोनुगा. ४ घ. मण्डले. ५ ङ. छ. झ. ट. परिविवृत्य. ६ क. ख. ङ - ट. रामंतु. ७ च. रामोयज्ञेन. ख. राजायने ८ छ. ट. अयाचिषं. ९ घ. भूतमवदीर्ण. १० ङ. छ. झ. ट. जिघ्रेत्तु. ११ ग. ङ. छ. झ ञ ट संनाम्य. १२ ङ. छ. झ ट योहिमां. १३ ज. त्राता. १४ ङ. छ. झ. ट. संमतः १५ क. श्रेष्ठो. १६ ङ. छ. झ. ट. धर्मविद्धर्मशीलश्च १७ क. ख. ङ. च. छ. झ, ञ ट महाभागो, १५ क ख, ग. ङ, च. छ, झ. ञ, ट. आर्ये, १९ इदमघै. ट, पुस्तके दृश्यते २० झ. मतिमतां.