पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६८। श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् २७१ । कुमारमिक्ष्वाकुसुतं वेदान्यं त्वमेव राजानमिहाभिषिञ्च ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ अष्टषष्टितमः सर्गः ॥ ६८ ॥ वसिष्ठेनमार्कण्डेयाद्यनुमत्याभरतशत्रुघ्नानयनायदूतानांप्रेषणम् ॥ १ ॥ दूतानांमार्गगमनप्रकारनिरूपणम् ॥ २ ॥ दूतैरा- नौकेकयनगरप्रवेशः ॥ ३ ॥ तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ॥ मित्रामायगणान्सर्वान्ब्राह्मणांस्तानिदं वचः १॥ यदसौ मातुलकुले पुरे राजगृहे सुखी | भरतो वसति भ्रात्रा शत्रुघ्न समन्वितः ॥ २ ॥ तैच्छीघ्रं जवना दूता गच्छन्तु त्वरितैयैः ॥ आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ ३ ॥ गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् ॥ तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ||४|| एहि सिद्धार्थ विजय जयन्ताशोकनंन्दन ॥ श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ ५ ॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः ॥ त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम ॥ ६ ॥ पुरोहितस्त्वां कुशलं ग्राह सर्वे च मन्त्रिणः ॥ त्वरमाणश्च निर्याहि कृत्यमांत्ययिकं त्वया ॥ ७ ॥ मा चामै ' प्रोषितं रामं मा चामै पितरं मृतम् ॥ भवन्तः शंसिषुर्गत्वा रौंघवाणामिमं क्षयम् ॥ ८॥ मरण्यभूतंस्यादित्यपिसमीक्ष्य इक्ष्वाकुसुतं दशरथत- | त्रिसमाननामानोदूताः नतुमत्रिणः । मन्त्रिव्यति- नयं । अभिषिञ्चेतियोजना ॥ ३८ ॥ इति श्रीगोवि- रिक्तनन्दनशब्दसहपाठात् । “पुरोहितस्त्वांकुशलंप्रा- न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने हसर्वेचमत्रिणः " इत्युपरिवक्ष्यमाणत्वाञ्च । इतिक- अयोध्याकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥ र्तव्यं कार्यकलापं ॥ ५ ॥ त्यक्तशोकैः भवद्भिरितिशे- षः । इदं वक्ष्यमाणंवचनं । ममशासनात् भरतोवा मित्रामात्यगणान् मित्रभूतामात्यगणान्सुमत्रादीन् । च्यः ॥ ६ ॥ मत्रिणः प्राहुरितिविपरिणामः । अत्य- ब्राह्मणान् मार्कण्डेयादीन् ॥ १ ॥ राजगृहे राजगृहा- यः कालातिपात: तंप्राप्तमात्ययिकं । " विनयादिभ्य ख्येपुरे । यद्यस्मात्वसति तत्तस्मात् । जवनाः वेग- ठक् " इतिठक् | तादृशंकृत्यमस्ति अतस्त्वरमाणोनि+ वन्तः । दूता गच्छन्त्वितिसंबन्ध: । किंसमीक्षामहे र्याहीतिवाच्यइत्यनुकर्षः । यद्वा अत्ययः कृच्छ्रं तन्त्रम किंविचारयामः । राज्ञैवभरतायराज्यस्यदत्तत्वादिति वमात्ययिकं ।“ अत्ययोतिक्रमेकृच्छ्रे " इत्यमरः । भावः ॥ २–३ ॥ तथैवामात्याअनुजानन्तिगच्छ- कृत्यं । अस्तीतिशेषः ॥ ७ ॥ माशंसिषुरित्यन्वयः । विति ॥ ४ ॥ सिद्धार्थविजयजयन्ताशोकाख्याम- | राघवाणां क्षयं अपचयं तेजः क्षयमित्यर्थः । “निल 66 ति० यद्यस्माद्राज्ञाकैकेयीवचनाद्दत्तराज्योभरतोमातुलकुलेवसति ॥ २ ॥ शि० शीघ्रंयथास्यात्तथाजवनाः शीघ्रगमनकतारों दूताः भ्रातरावानेतुंहयैस्त्वरितंगच्छन्तु । अतःपरंउत्कृष्टंवयंकिंसमीक्षामहे अतःपरमुत्कृष्टंनास्त्येवेतितात्पर्यम् ॥ ३ ॥ शि० सिद्धार्थादयोमन्त्रिनामानोदूताः नतुमन्त्रिणः नन्दनसाहचर्यादित्येके । यदिचसिद्धार्थादिसाहचर्येणनन्दनोपिमन्त्रीति व्याख्यायते तदानन्दनइतिकस्यचिन्मन्त्रिणोनामान्तर मितिबोध्यम् । मन्त्रिभिर्दूतकर्मकथंक्रियतइतितुनभ्रमितव्यम् । अतिनिपुणानां सर्वकर्मस्व धिकारात् ॥ ५ ॥ ति० अत्ययं असत्यकालातिक्रमं तदेवात्ययिकं । अतिकमेएवीव्यव्ययं । कालातिक्रमे एतिनश्यतीतिवाच्योर्थः । विनयादित्वाद्वक् | तादृशंकृत्यमस्ति । स० लया आत्ययिकं अतिक्रमणयोग्यंकृत्यमस्ति । त्वदागमनैकाधीनप्रयोजनमस्तीतिया- वत् ॥ ७ ॥ ति० इतः स्त्रीरूपान्मूलात् क्षयंमाशंसिषुः माकथयन्तु । स० शंसिषुरिति “माडिलुङ्” इतिलुङ् सर्वलकारापवादः । [ पा० ] १ डं. च. छ. झ ञ ट तथान्यं. २ ङ. छ. ज झ ट मिहाभिषेचय. ३ क. ख. ग. ङ. च. छ. झ. ज. ट. तेषांतद्वचनं. ४ ग. घ. ङ. च. ज. ञ. ट. जनान्. ५ ङ. छ. ज. झ. दत्तराज्य:परंसुखी ६ ङ. छ. झ. ट. मुदान्वितः ७ क. च. ञ. तौशीघ्रं. ८ ग. ङ. छ. झ. ट. लरितंहयैः ९ट. समीक्ष्यामहेपरं. १० क. ग. च. ञ. तेषांतुवचनं. ११ क. घ. च. ञ, नाशन. १२ ग. पुरोहितस्त्वा १३ ख. प्रेषितं. १४ ङ. झ ञ ट राघवाणामितः,