पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ स्वर्गतश्च महाराजो रामधारण्यमाश्रितः ॥ लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ ६ ॥ उभौ भरतशत्रुघ्नौ कैकयेषु परंतपौ ॥ पुरे राजगृहे रम्ये मातामहनिवेशने ॥ ७ ॥ इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् || अराजकं हि नो राष्ट्र नै विनाशमवाप्नुयात् ॥ ८ ॥ नाराजके जनपदे विद्युन्माली महास्वनः ॥ अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ ९ ॥ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ॥ नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ १० ॥ नाराजके धनं चास्ति नास्ति भार्याऽप्यराजके ॥ इदमत्याहितं चान्यत्कृतः सत्यमराजके ॥ ११ ॥ नाराज के जनपदे कारयन्ति सभां नराः ॥ उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ १२ ॥ नाराजके जनपदे यज्ञशीला द्विजातयः ॥ संत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ १३ ॥ नाराजके जनपदे महायज्ञेषु यज्वनः || ब्राह्मणा वसुसंपन्ना विसृजन्त्याप्तदक्षिणाः ॥ १४ ॥ नाराजके जनपदे प्रेभूतनटनर्तकाः ॥ उत्सवाच समाजाच वर्धन्ते राष्ट्रवर्धनाः ॥ १५ ॥ 66 ॥ ५-६ ।। राजगृहे राजगृहनामनिपुरे । वर्तेतेइति - | सत्यं क्रयविक्रयादिलक्षणं ॥ ११ ॥ सभांनकारयन्ति शेषः ॥ ७ ॥ इक्ष्वाकूणामितिनिर्धारणेषष्ठी । रामा- मनस्स्वास्थ्याभावात् । उद्यानानिनकारयन्ति छेदन- दीनांचतुर्णांमध्येइत्यर्थः । अद्यैवराजाविधानेदोषः - भयात् । पुण्यगृहाणि देवतायतनादीनि नकारय- अराजकंहीति ॥ ८ ॥ अराजकत्वस्यविनाशहेतुत्वंप्र- न्ति दुर्गनिर्माणभयादितिभावः ॥ १२ ॥ ब्रह्म वेदः पञ्चयति–नाराजकइत्यादिना । विद्युन्मालीत्यादि- तदध्येतारोब्राह्मणाः । तद्धीतेतद्वेद " इत्यण् । विशेषणैर्महावर्षोदुर्लभइतिभावः । दिव्येनेत्यनेन सत्राणि महायज्ञान् यत्रसर्वेयजमानाः सर्वेऋत्विजः । शिलावर्षस्तुभविष्यतीतिभावः ॥ ९ ॥ बीजमुष्टि : नान्वासते नानुतिष्ठन्ति । विघ्नभयात् ॥ १३ ॥ नप्रकीर्यते फललाभनिश्चयाभावादितिभावः । भार्या यज्वनः यज्वानः | वसुसंपन्नाअपि धनसंपन्नाअपि । वशेनवर्तते व्यभिचारेशिक्षकाभावादितिभावः ॥१०॥ आप्तदक्षिणा : भूरिदक्षिणाः । नविसृजन्ति नदिश- धनंनास्ति चोरभयादितिभावः । भार्यानास्ति बन्धु- न्ति । आढ्यत्वव्य अनेनदण्डभयादितिभावः ॥ १४ ॥ निप्रहादितिभावः । इदं वक्ष्यमाणं । अन्यत् पूर्वोक्त- नटा: नाट्याभिनयसमर्थाः । नर्तकाः नर्तनमानस- भयादन्यत् । अत्याहितं महाभीतिरस्ति । अत्या- | मर्थाः । प्रभूताः बहुला : नटनर्तकायेषुतेतथोक्ताः । हितंमहाभीतिः " इत्यमरः । तदेवाह – कुतइति । उत्सवाः देवतोत्सवाः । समाजाः तीर्थयात्राः । स० पृथग्वाचं भरतानयनायुपयुक्तां । ति० केकयेषु तदाख्यदेशेषु । अवान्तरदेशापेक्षयाबहुवचनमितिकतकः । वस्तुतो- Sङ्गा इत्यादिव बहुवचनान्तएवजनपदवाचीत्यन्ये । स० राजगृहे लुप्तोपमा । दशरथगृहइव ॥ ७ ॥ शि० इहअस्यामयोध्यायां इक्ष्वाकूणांमध्येकश्चिद्राजा रक्षकत्वेनराजसदृशः । ति० विपक्षेबाधकमाह – अराजकंहीति | हि यतः । अराजकंनोराष्ट्रं विनाशमवाप्नुयात् । अतः कश्चिद्राजाविधीयतां । कतक ० " राजकंसद्धिराष्ट्रनोनाशनावाप्नुयायथा” इतिपाठः । नः अस्माकं राष्ट्रं राजकं राजयुतंसत् । नाशनाप्नुयायथा तथाकश्चिद्राजाविधीयतामित्यन्वयः । हिर्वाक्यालङ्कारे ॥ ८ ॥ स० विद्युन्माली व्रीत्यायन्तर्गतशिखादित्वादिनिः ॥ ९ ॥ शि० बीजमुष्टि: बीजयुक्तकर्षकबद्धकरः । नप्रकीर्यते नमुच्यते । किंचमुष्टेब जंबीजमु- ष्टि: । राजदन्तादित्वान्मुष्टेः परत्वं । नप्रकीर्यते नोप्यते । भार्याच पत्युरितिशेषः । ति० बीजमुष्टिर्नप्रकीर्यते बीजानामारोपो नक्रियते फलकालेलुण्टाकशङ्कया ॥ १० ॥ स० भार्यानास्ति विटायुपद्रवादितिभावः । ती० अराजकेसति अमार्गवर्तिनांन कुत्रापिभयशङ्केतिभावः ॥ ११ ॥ ती० पुण्यगृहाणि पुण्यसंपादकानि सत्रगृहाणीतियावत् । मठादीनिवा । ति० सभांनकारयन्ति न्यायविचारायेतिशेषः ॥ १२ ॥ शि० आप्तदक्षिणा: आताः विधिप्राप्ताः शास्त्रोक्ता इत्यर्थः । दक्षिणाः । कर्मधारयः । वि०. वसुसंपूर्णाः बहुधनाः । आप्तदक्षिणाः शास्त्रेणयथाप्राप्तदक्षिणाः । यज्वनः ऋत्विजःप्रति नविसृजन्ति नदिशन्ति । आढ्यत्वव्य- अनेन दण्डभयादितिभावः ॥ १४ ॥ [ पा० ] १ ङ. च. झ ञ ट . स्वर्गस्थश्च २ क. ञ. अनायकं. ३ ग. घ. ज. नोराज्यं. च. न. राष्ट्रनो ४ ग. ङ. च. छ. श. न. ट. विनाशंसमवाप्नुयात् ५ ख घ ङ. छट. अराजकेधनंनास्ति ६ ग घ. ज. सौख्य मराजके. ७ च. ञ. सत्राण्युपासते. ८ कट. संपूर्णा. ९ ङ. च. छ. झ ञ. प्रहृष्टनट. १० घ. दुष्प्रवर्धनाः