पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ हा कौसल्ये नैशिष्यामि हा सुमित्रे तपस्विनि ॥ हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ ७८ ॥ इति रामस्य मातुश्च सुमित्रायाच सन्निधौ || राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥ ७९ यंदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः || गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहाँ प्राणमुदारदर्शनः ॥ ८० ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ प्रभातेवन्दिप्रमुखानांसवाद्यघोषमुद्दोषणे पिराज्ञोऽप्रबोधेसमीपवर्तिनीभिः स्त्रोभिरुपायेन तस्यजीवितापगम निर्धारणेनशो- फादुत्क्रोशनम् ॥ १ ॥ ततःप्रबुद्धाभ्यांकौसल्या सुमित्राभ्यामन्याभिश्चस्त्रीभिःशोकादुच्चैः परिदेवनम् ॥ २ ॥ अथ राज्यां व्यतीतायां प्रातरेवापरेऽहनि || वन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ॥ १ ॥ सूता: परमसंस्कारा मैङ्गलाश्रोत्तम श्रुताः || गायकाः स्तुतिशीलाच निंगदन्तः पृथक्पृथक् ॥ २ ॥ राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ॥ प्रासादाभोगविस्तीर्णः स्तुतिशब्दो वर्तत ॥ ३ ॥ ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ॥ अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ ४ ॥ तेन शब्देन विहगा: प्रति॑िबुद्धा विसखनुः || शौखास्थाः पञ्जरस्थाच ये राजकुलगोचराः ॥ ५ ॥ व्याहताः पुण्यशब्दाश्च वीणानां चापि निःस्वनाः ॥ आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६॥ षोयैस्तेषां । प्रासादाभोगविस्तीर्णः प्रासादेषुआभोगः परिपूर्णता तयाविस्तीर्णः । “आभोग: परिपूर्णता” इत्य- मरः ॥ ३ ॥ स्तुवतां स्तुवत्सुसत्सु । पाणिवादकाः तालगत्याविविधंपाणिभ्यांवादयन्तीतिपाणिवादकाः । वृत्तान्यद्भुतकर्माणि । पाणिवा- अथेत्यादिश्लोकद्वयमेकंवाक्यं । रात्र्यां रात्रिशेषे । अपदानानि परमसंस्काराः व्याकरणाद्युत्तमसंस्कारयुक्ताः । श्रेष्ठा- दानवादयन् पाणिवादानकुर्वन्नित्यर्थः ॥ ४ ॥ शा- लंकारयुक्तावा । वन्दिनइतिपूर्वमुक्तत्वात्सूताः वंशा- खास्थाः गृहारामवृक्षशाखासुवर्तमाना: । राजकुलगो- वलिकीर्तकाः । मङ्गलाः मङ्गलपाठकाः । उत्तमंश्रुतं चराः राजगृहेदृश्यमानाः । विहगाः शुकादयः गान्धर्वशास्त्रश्रवणंयेषांते उत्तमश्रुताः । एतद्विशेषणद्व- ॥ ५ ॥ व्याहृताः ब्राह्मणैरुक्ताः । पुण्यशब्दाः पुण्य- यंगायकमात्रविशेषणं । अन्यत्सर्वविशेषणं । सर्वत्रप- पुरुषक्षेत्रतीर्थकीर्तनादिरूपा: । पूरयामासुरिति विप र्युपातिष्ठन्नितिक्रियापदं ।। १ – २ ॥ उदात्ताभिहिता- रिणामेनयोजनीयं | गाथानां दशरथविषयप्रबन्धवि- शिषां उदात्तेनउच्चैःस्वरेण अभिहिताः प्रयुक्ताः आशि- | शेषाणां संबन्धि आशीर्गेयं आशीर्वादरूपगानं ॥६॥ णीत्यर्थः ॥ ७५ ॥ शि० हेतिअनृशंसे क्रूरचेष्टारहिते । अतएव आमित्रे अतिप्रिये कुलपांसनि कुलाधिपप्रकाशिकेकैकेयि ॥ ७८ ॥ शि० जीवितान्तं पालनाभावं अप्रकटसाकेतलोकमित्यर्थः ॥ ७९ ॥ शि० प्राणं पालनंजहौ अप्रकटसाकेतं प्रापेत्यर्थः ॥ ८० ॥ इतिचतुष्षष्टितमस्सर्गः ॥ ६४ ॥ दुःखनाशन ।। ७७–८० ॥ इति श्रीगोविन्दराज - विरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो- ध्याकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥ ति० मागधाः वंशावलीकीर्तकाः । शि० मङ्गलाः गणपत्यादिस्तवपाठकाश्च । मागधाश्चेतिपाठान्तरं । राजवंशपरंपरावक्ता- [ पा० ] १ ङ. च. छ. झ ञ ट नपश्यामि . क – घ. ज. विनश्यामि २ क. ख. ङ. च. झ ञ ट मातुश्चरामस्य. ३ ग. ङ. च. झ. ट. तथातुदीन:. क. ख. घ. ज. तथातुदीनं. ४ क. ख. ङ. झ ञ मागधाश्चोत्तम श्रुताः. ज. मागधाश्चोत्तमा- शिषः. ग. घ. मङ्गलाचोत्तमाशिषः ५ ग. गायना: ६ ङ. झट. श्रुतिशीलाच. ७ च ज ञ निनदन्तः ८ च तत्रउत्तमा- भिहिताशिषां. ज. तेषामुदाराभिहिताशिषां ९ क ह्यवर्धत. ख. ग. ज. व्यवर्धत. १० घ ङ. च. झ. ट. वादान्यवादयन्. ११ ङ. ज. झ. ट. बुद्धाश्चसखनु: च. ज. बुद्धाश्चसखनाः क. बुद्धा विसखनुः १२ क. शारिकाः १३ क. वीणानांचैव.