सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५९ न हि त्वसिन्कुले जातो गच्छत्यकुशलांगतिम् ॥ स तु यास्यति येन त्वं निहतो मम बान्धवः ॥४६॥ एवं स कृपणं तत्र पर्यदेवयतासकृत् ॥ तैतोमै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ ४७ ॥ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ॥ स्वर्गमध्यारुहत्क्षिप्रं शक्रेण सह धर्मवित् ॥ ४८ ॥ आबभाषे च तौ वृद्धौ संह शक्रेण तापसः || आश्वास्य च मुहूर्त तु पितरौ वाक्यमब्रवीत् ॥ ४९ ॥ स्थानमस्सि महत्प्राप्तो भवतोः परिचारणात् ॥ भवन्तावपि च क्षिप्रं मम मूलैमुपैष्यतः ॥ ५० ॥ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता || आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ ५१ ॥ स कृत्वा तूदकं तूर्णं तापसः सह भार्यया || मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ५२ ॥ अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा | यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ ५३ ॥ [कैथं तेषां कुले जातः क्षत्रियाणां महात्मनाम् ॥ सर्ववेदविदर्थज्ञो धर्मे न कुरुते मनः ॥ स्त्रीनिमित्तं न ते वैरं क्षेत्रजं वाक्यजं न ते] ॥ ५४ ॥ स्त्रया तु यदविज्ञानान्निहतो मे सुतः शुचिः ॥ तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥५५॥ पुत्रव्यसनजं दुःखं यदेतन्मम सांप्रतम् || एवं त्वं पुत्रशोकेन राजन्कालं कॅरिष्यसि ॥ ५६ ॥ शेषः यद्वा।परलोकप्राप्तिसंकल्पपूर्वकंगङ्गायमुनासंग- | त्रेमूलंकुञ्जसमीपयो: ” इतिनिघण्टुः ॥ ५० ॥ वपु- मादौजलेऽमौवातनुंत्यजतामित्यर्थः ॥ ४५ ॥ अस्मि- ष्मता प्रशस्ताकारेण । प्रशंसायांमतुप् ॥ ५१ – ५२ ॥ कुले तपोनिष्ठानामस्माकंकुले । जातः अकुशलां | जहि प्राणान्मोचय । “ हन्तेर्ज: " इतिजादेशः । अशुभां । गतिंनगच्छेत् । अपितु मम बान्धवः पुत्रः कथंमारणंदुःखाकरत्वादित्यत्राह – मरणेनास्तिमेव्य- त्वं येननिहतः स एवाकुशलांगतियास्यति ||४६ || उद- थेति । व्यथाभावहेतुमाह – यदिति । अतोपिकिंव्य- कं संस्कारपूर्वोदकक्रियाः ॥ ४७ ॥ सहस्वर्ग- थास्तीतिभावः ॥ ५३–५४ ॥ अभिशप्स्यामि मध्यारुहदित्यनेन मुनिपुत्रं स्वर्गेनेतुंशक्रः समागतइति नतुभस्मीकरोमीतिभावः । सुदुःखमतिदारुणमिति गम्यते ।। ४८ ॥ संग्रहेणोक्तंस्वर्गारोहणंविवृणोति - क्रियाविशेषणं ॥ ५५ ॥ यद्यस्मात्कारणात् मम आबभाषइति । तापसः शक्रेणसहतौवृद्धौआबभाषे एतत् मरणपर्यवसायि । पुत्रव्यसनजंदुःखं अभू- आभाषणेपिवृद्धयोरश्रवणात्पुनराहेत्याह – आश्वास्य दितिशेष: । एवंपुत्रशोकेनकालंकरिष्यसि मृत्युंप्रा चेति ॥ ४९ ॥ मूलं समीपं । आद्येशिफायांनक्ष- | प्स्यसीत्यर्थ: । “ कालोमृत्यौचसमये " इति । 66 र्तारः । एतेन यामिच्छसितांगच्छेतिसूचितम् ॥ ४५ ॥ शि० अस्मिन् तपस्विकुले जातः कश्चिदपिजनः येनहेतुना अकुशलांग- तिनगच्छति तेनैवहेतुना ममबान्धवः निहतस्सभवान् अकुशलांगतिनैवयास्यति । एतेनब्रह्मवित्तपस्विकुलस्यदोषास्पार्रीलंसूचितं । तेनतत्कुलस्यब्रह्मवेत्तृत्वंव्यक्तम् ॥ ४६ ॥ ति० आरुह्य पुनश्शक्रेण सहागत्याबभाषेइत्यन्वयः । अस्यैवप्रपञ्चः - आश्वस्येत्यादि । अत्रवक्तुश्शोकप्रस्ततयाऽऽबभाषे अब्रवीदिति पौनरुत्यंनदोषाय | शि० शक्रेणसहतापसः तौमुहूर्तमाबभाषे आश्वासयामासेत्यर्थः । आश्वास्यपितरमिदमब्रवीत् । चशब्देन मातरंचाश्वास्य ॥ ४९ ॥ ति० भवतोरिति । अनेन मातापितृसेवा धर्मान्तराभावेपिसैवे. न्द्रसालोक्यदेतिध्वनितं ॥ ५० ॥ शि० येनहेतुनामेबालःवयानिहतः तेनैवहेतुनावां अतिदारुणं असह्यं सुदुःखंशप्स्येबोधयामि । ऌडुपात्तभविष्यत्त्वस्याविवक्षा | शपोबोधनार्थकत्वंतु "नीवप्रतिप्रणिहितेतुकरेप्रियेणसख्यश्शपामियदिकिंचिदपिस्मरामि” इत्यादि- नामनोरमादौस्पष्टम् ॥ ५५ ॥ कालं पुत्रसंयोगजनितसुखसमयं । करिष्यसि त्यक्ष्यसि । विक्षेपणार्थककृधातोर्लट् ॥ ५६ ॥ [ पा० ] १ क. ख. लस्मत्कुले. २ च. बान्धव. ३ ङ. छ. झ ट तथोक्त्वा. घ. सतस्मै ४ छ. सच. ख. ततो. ५ च. मभ्यारुहत्क्षिप्रं. घ. मध्यारुहच्छीघ्रं. ६ ख. ङ. च. झ. ज. ट. शक्रेणसह. ७ ङ. झ. आश्वस्य. ८ क. ख. च. न. मुहूर्ततौ. ९ ङ. झ. ट. पितरं. १० ख. घ. ङ. झ ञ. मुपैष्यथः ११ क. ख. छ. झ ञ ट कृत्वाथोदकं. ङ. कृत्वाप्युदकं. १२ क ख. ङ. च. झ ञ ट यःशरेण. १३ इदमर्धत्रयं क. पाठेदृश्यते. १४ ङ. च. छ. झ. ञ. ट. त्वयापिचयदज्ञानात्. ख. त्वयाद्यतुयदज्ञानात् १५ ङ. च. छ. झ ञ ट सबालकः १६ घ. वाहंच. ज. लामपि १७ च. छ. श. ञ ट . शप्स्येहूं, १८ घ. ग. गमिष्यसि.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६३
दिखावट