सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २४५ एकषष्टितमः सर्गः ॥ ६१ ॥ पतिव्रता वरिष्ठयापिकौसल्ययापुत्रशोकासहिष्णुतयारामादीनांदुरवस्थासंभावनेनतान्प्रतिपरिशोचन पूर्वकंदशरथोपालंभः १ वनं गते धर्मपरे रामे रमयतांवरे || कौसल्या रुदती खार्ता भर्तारमिदमब्रवीत् ॥ १ ॥ यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः ॥ सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ २ ॥ कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया || दुःखितौ सुखसंवृद्धौ ने दुःखं सहिष्यतः ॥ ३ ॥ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता || कथमुष्णं च शीतं च मैथिली सहिष्यते ॥ ४ ॥ भुक्त्वाऽशनं विशालाक्षी सूपदंशान्वितं शुभम् ॥ वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ ५ ॥ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता || कथं ऋव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ ६ ॥ महेन्द्रध्वजसंकाशः कनु शेते मँहाभुजः ॥ भुजं परिघसंकाशमुपधाय महाबलः ॥ ७॥ पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् || कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥ वज्रसारमयं नूनं हृदयं मे न संशयः || अपश्यन्त्या न तं यद्वै फैलतीदं सहस्रधा ॥ ९ ॥ यत्वयाऽकरुणं कर्म व्यपोध मम बान्धवाः || निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥१०॥ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ॥ जह्याद्राज्यं च कोशं च भरतेनोपभुज्यते ॥ ११ ॥ स्वार्ता सुतरामार्ता ॥ १ ॥ राघवः दशरथः | | व्यञ्जनसहितं । नैवारं नीवारसंबन्धिनम् ॥ ५ ॥ सानुक्रोशः वदान्यश्च प्रियवादीचेति तेमहद्यशः त्रिषु ऋव्यादा: मांसभक्षकाः ॥ ६ ॥ महेन्द्रध्वजसंकाश 'लोकेषुप्रथितं यद्यपि तथापि अतिशयिताऽपयशस्करं इति महेन्द्रध्वजोनाम इन्द्रधनु: । कदाचित् ध्वजा- कृत्यंकृतमितिवाक्यशेषः । तथापि दुःखितौ मार्गेदु:- कारेणपरमाभ्युदयनिमित्ततयाप्रतिभातीत्याहुः ।। ७ ।। खितौ । तौ वनेकथंदुःखंसहिष्यतइतिवक्ष्यमाणेना- पद्मवर्ण पद्मपत्रवर्ण । पद्मनिश्वासं पद्मगन्धिनिश्वासं न्वयोवा । यद्वा वार्धकेनानाव्रतोपवासादिमहाप्रयास ॥ ८ ॥ नफलति नस्फुटति । त्रिफलाविशरणइति लब्धंज्येष्ठमपिपुत्रमभिषेककालेत्यक्त्वापि प्रतिज्ञांनि- धातुः ॥ ९ ॥ त्वयानिरस्ता: ममबान्धवाः रामादयः रूढवानिति तेमहद्यशस्त्रिषुलोकेषुयद्यपिप्रथितंभवति । व्यपोह्य नगरंत्यक्त्वा वनेपरिधावन्तीतियत् एतत् राघवश्ववदान्यतयाययाप्रियवचनशीलतयामह्यंवा अकरुणकर्म करुणाराहित्येनकृतंकर्मेत्यर्थः ॥१०॥ च- चापूर्वेदत्तराज्यंनत्यजामीतिवक्तुमक्षमतयाचराज्यंदत्त- तुदशवर्षानन्तरंरामोराज्यंप्राप्स्यतीत्याशङ्कय परिहरति वान् अतस्तस्यापिमहद्यशइतियुवयोरिदंयुक्तमस्तु । – यदीति । पञ्चदशेवर्षेराघवोयदिपुनरेष्यति तथापि तथापि तौकथंदुःखंसहिष्यतइतियोजना ॥ २ – ३ ॥ राज्यंकोशं जह्यात् त्यजेत् । कुतः यस्मात्कारणात् तरुणी आरब्धयौवना | श्यामा यौवनमध्यस्था | भरतेनोपभुज्यते भरतेनोपभुक्ततयातेनपुनर्दत्तमपिरा- एतत्पदद्वयोपादानेनेषन्यूनयौवनमध्यंप्राप्तेत्यवगम्यते । ज्यंरामस्त्यजेदित्यर्थः । भरतोनोपलक्ष्यतइतिपाठान्त- [ श्यामातरुणी यौवनमध्यस्थातरुणी नतुयौवनार- रं। राज्यंकोशंचभरतोजह्यात् इदं तुनोपलक्ष्यते यद्रामः म्भस्थातरुणीत्यर्थः ] ॥ ४ ॥ सूपदंशान्वितं शोभन - पुनर्भरतदत्तराज्यं प्रतिगृह्णीयादिति । यद्वा यदिराघवः ति० परमपतिव्रतापिकौसल्यादुःखातिशयात्पूर्वंजानंत्यपित्रेताश्रयव्यवहारवल्लोकाश्रयेणराजानमुपालभते – वनमिति । आर्ता खिन्ना | स्वार्तेतिपाठेसुतरामार्ता | रुदतीवेतिपाठे इवएवार्थे । यद्वा उक्तार्थध्वननायेवशब्दः ॥ १ ॥ ति० अथापिहेनरवरश्रेष्ठ सीतयासह तौपुत्रौ कथंव्यक्तवानितिशेषः । अथताञ्शोचति - दुःखितावित्यादि ॥ ३ ॥ शि० पद्मवर्ण पद्मवद्वर्ण्य तेक विभि- [ पा० ] १ ङ. च. छ. झ ञ ट . धर्मरते. २ ङ. झ. चार्ता. ३ च. ञ. नरवरश्रेष्ठौ ४ घ. सहसंवृद्धौ ५ घ. ङ. झ. ट. कथं. ६ ख. वैदेही. ७ ङ. छ. झ ञ ट . विसहिष्यते. क. घ. च. विसहिष्यति. ८ क. ख. च. भोक्ष्यति. ९ ङ. च. झ. ञ. ट. शुभसमन्विता. १० क. ख. च. ञ. सहानुजः ११ क. ख. च. ञ. सारमिदं. १२ ङ. देव. १३ च. ञ. फलतीह. घ. दलतीदं. १४ ख. यत्त्वयादारुणं. १५ ग. – छ. झ ञ ट भरतोनोपलक्ष्यते. क. भरतेनोपभोक्ष्यते.