सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J २२४. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ॥ अनेन कारणेनाहमिह वासं न रोचये ॥ २५ ॥ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् || रैमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ २६ ॥ एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ॥ राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ २७ ॥ दशक्रोश इतस्तात गिरिर्यस्मिँन्निवत्स्यसि || महर्षिसेवित: पुण्यः सर्वतः सुखदर्शनः ॥ २८ ॥ गोलाङ्गूलानुचरितो वानरक्षनिषेवितः ॥ चित्रकूट इति ख्यातो गन्धमादनसंनिभः ॥ २९ ॥ यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते ॥ कल्याणानि समाधत्ते न पोपे कुरुते मनः ॥ ३० ॥ ऋषयस्तत्र बहवो विहृत्य शरदां शतम् || तपसा दिवमारूढाः कपालशिरसा सह ॥ ३१ ॥ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ॥ इह वा वनवासाय वस राम मया सह ॥ ३२ ॥ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ॥ सभा सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ ३३ ॥ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ॥ प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३४ ॥ सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः ॥ भरद्वाजाश्रमे रंम्ये तां रात्रिमवसत्सुखम् ||३५|| प्रभातायां रेंजन्यां तु भरद्वाजमुपागमत् || उवाच नरशार्दूलो मुनि ज्वलिततेजसम् ॥ ३६ ॥ शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे ॥ उषिताः सेह वसतिमनुजानातु नो भवान् ॥ ३७ ॥ ।। २४ – २६ ॥ अर्थग्राहकं अर्थबोधकंयथाभवति चित्रकूटे | शरदांशतं तपसाविहृत्य क्रीडन्तइवमहत्तपः तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ॥ २७ ॥ परिसमाप्येत्यर्थः । कपालशिरसासहदिवमारूढाः तप- यस्मिन् गिरौनिवत्स्यसि सगिरिरितोदशक्रोशः दश- |श्चरणेननिरन्तरकपालासनेनप्रक्षीणत्वक्छिरोरुहतया क्रोशावस्थितइत्यर्थः । गन्धमादनसंनिभः गन्धमा- कपालावशिष्टशिरसासहदिवमारूढाइत्यर्थः । कपाल- दुनपर्वतसंनिभः । अतीतानागतवर्तमानज्ञोमहर्षिः शिरसेत्येतच्छरीरोपलक्षणं । सशरीराः स्वर्गगता “गोलांगूलानुचरितोवानरर्क्षनिषेवित: ” इतिकेवल इत्यर्थः । यद्वा कपालशिराइतिकस्यचिदृषेः संज्ञा । त्रिवर्गाभिधानेन एतत्सजातीयाएवरामस्यसहायाअ- कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरी- पिभविष्यन्तीतिसूचितवानितिगम्यते ॥ २८ – २९॥ रपदविशेषणमित्येके | कपालमात्रावशिष्टंशिरोयस्मि- नरः यावतादूरेणचित्रकूटस्यशृङ्गाण्यवेक्षते तावता |न्नितितपोविशेषणमित्येके ॥ ३१ ॥ प्रविविक्तं प्रकर्षे- कल्याणानि पुण्यकर्माणि । समाधत्ते प्राप्नोति । यद्वा णविजनं ॥ ३२ ॥ सर्वकामै : प्रतिजग्राह अतिथियो- समाधत्ते आचरति । पापेमनोनकुरुते तत्रवसन्कि - ग्यसत्कारैर्वशीकृतवानित्यर्थः । [ प्रतिजग्राहउपच- मुतेतिभावः । यद्वा यावता कालेन ॥ ३० ॥ तत्र चार ] ॥ ३३ ॥ प्रपन्ना प्राप्ता ॥३४–३६॥ वसति- ति० यत्र यस्मिन्नाश्रमस्थाने । तादृशमेकान्तेवर्तमानं पश्य ज्ञात्वानिर्दिशेत्यर्थः । अत्रभगवन्नित्यादिश्लोकत्रयंतीर्थेन मत्स्वरूपंन प्रकटयेल्यन्तेनव्याख्यातं तदयुक्तं । मुनिनारामस्वरूपप्रकटनस्यसर्ववेद्यंयथा भवतितथाप्राक्क्काप्यकरणात्अक्षरमर्यादयापितादृशा- र्थालाभाच्च । पौरजानपदोजन इतिपदास्वारस्याञ्चेतिसुधियोविभावयन्तु | शि० आश्रमं आसमन्तात अश्रमंश्रम निवर्तकंस्थानं । यत्रवैदेही रमते रमेत ॥ २६ ॥ ति० राघवस्यार्थग्राहकं तदुक्तप्रयोजनप्रतिपादकं तत् वक्ष्यमाणंअब्रवीत् ॥ २७ ॥ शि० दशक्रोशे त्रिंशत्क्रोशपरिच्छिन्नदेशसंनिधौ | महर्षिसेवितः पर्वतः अवान्तरपर्वत विशिष्टः । गिरिः पर्वतोस्ति । दशशब्दस्यैक शेषे - णायमर्थोलब्धः । दशक्रोशप रिमितइति पर्वत विशेषणेतुनैकशेषकल्पना ॥ २८ ॥ कतक० केचित्तु कपालशिरसेतिशरीरोपलक्षणं सशरीरास्वर्गगताइत्याहुः। तन्न । धर्मपुत्रादीनामपिकियहूरमेवधर्मवैभवदर्शनायैतच्छरीरेणगमनं ततस्तन्निरासपूर्वकमेवस्वर्गगमन- श्रवणात् । शि० कपालशिरसा त्वद्दर्शनफलक नित्यस्थितिमच्छिवेनसह शरदांशतं विहृत्य दिवं प्रमोदविशेषमारूढाः प्राप्ताः । एतेन शिवरामानुरागिश्रेष्ठत्वंव्यजितं ॥ ३१ ॥ ति० इहवेति शिष्टाचारमात्रं । स० इतोयाहीत्यस्यानुचितत्वादाह-इहवे. ति ॥ ३२ ॥ ति० इहाश्रमेशर्वरीमुषिताः स्मः | अहअथेत्यर्थे ॥ ३७ ॥ इतिचतुष्पञ्चाशस्सर्गः ॥ ५४ ॥ A [ पा० ] १ क— घ च – ट. रमते. २ ङ. च. छ. झ ञ ट . राघवस्यतुतद्वाक्यं. ३ क. ख. ग. ज. र्यत्रनिवत्स्यति. ४.ग. ङ. छ. झ. ञ. ट. पर्वतःशुभदर्शनः ५ ङ. छ. झ ट मोहे. ६ ख मुनयस्तत्र ७ क. च. निवासं. ८ ङ. च. झ. ट. हर्षयन्. ९ घ. ट. पुण्ये. १० ङ. च. छ. झ ञ ट तुशर्वय. ११ ङ. छ. झ. ट, स्मोह.