पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२३ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ॥ अयमेन्वगमद्भाता वनमेव दृढव्रतः ॥ १५ ॥ पित्रा नियुक्ता भगवन्प्रवेक्ष्यामस्तपोवनम् || धर्ममेवं चरिष्यामस्तत्र मूलफलाशनाः ॥ १६ ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ॥ उपानयत धर्मात्मा गामर्ध्यमुदकं ततः ॥ १७ ॥ नानाविधानभरसान्वन्यमूलफलाश्रयान् || तेभ्यो ददौ तप्ततपा वासं चैत्राभ्यकल्पयत् ॥ १८ ॥ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः ॥ राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ १९ ॥ प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् || भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ २० ॥ चिरस्य खलु काकुत्स्थ पैश्यामि त्वामिहागतम् ॥ श्रुतं तव मया 'चेदं विवासनमकारणम् ॥ २१ ॥ अवकाशो विविक्तोऽयं महानद्योः समागमे || पुण्यश्च रमणीयश्च वसत्विह भवान्सुखम् ॥ २२ ॥ एवमुक्तस्तु वचनं भरद्वाजेन राघवः ॥ प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २३ ॥ भगवन्नित आसन्नः पौरजानपदो जनः ॥ सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ २४ ॥ i सीतालक्ष्मणयोःसर्वात्मनापरतत्रत्वादात्मानमित्यनेन | शेषंसंजातविश्वासाः सेवन्तइतिगम्यते । स्वागतेनाह तयोरपिग्रहणं | कल्याणी पतिव्रतेत्यर्थः । अनुयाते- | स्वागतमाहेत्यर्थः । यद्वा मृगपक्षिभिः सहेतिशेषः । ति न्यवेद्यतेतिसंबन्धः ॥ १३–१४ ॥ धर्मं पितृव- | स्वागतेनाभ्यर्च्यतिसंबन्धः ॥ १९ ॥ मुनिराहे ये- चनपरिपालनरूपं ॥ १६ ॥ गां मधुपर्काङ्गभूतमहो- | तद्विवृणोति - प्रतिगृह्येति ॥ २० ॥ चिरस्य चिरं क्षं । तथाचस्मृति: “ गोमधुपर्कार्होवेदाध्याय्याचा- || २१ – २३ || इतः एतदाश्रमापेक्षया । इह आश्र - र्यऋत्विक्स्नातकोराजावाधर्मयुक्तः" इति । अयै पू- मे सुदर्श सुखेनद्रष्टुंशक्यं । प्रेक्ष्य ज्ञात्वा । वैदेहीं जाविधेरङ्गं ॥ १७ ॥ अन्नरसान् अदनीयरसान् रस- मांचप्रेक्षकोजन : इममाश्रममागमिष्यतीत्यहंमन्ये । प्रधानान्पदार्थविशेषानित्यर्थ: । वन्यमूलफलाश्रयान् अनेनकारणेनइहवासंनरोचयइत्यन्वयः । मांप्रेक्षकइ- वन्यमूलफलप्रकृतिकान् ॥ १८ ॥ मृगपक्षिभिरासी- त्यत्र “ अकेनोर्भविष्यदाधमर्ण्ययोः " इतिषष्ठीप्रति- नोमुनिभिश्चेत्यनेन मुनिवैभवात्तिर्य ञ् चोपिमुनिनिर्वि- षेधः एकान्ते पौरजनाविदिते । पश्य चिन्तय ति० धर्ममेव वानप्रस्थधर्ममेव | शि० नियुक्ताः साक्षात्परंपरयाचाज्ञप्ताः ॥ १६ ॥ शि० अर्ध्य अर्घहितमुदकं तदुपलक्षि- तनिखिलपूजनसामग्रीं ॥ १७ ॥ शि० अन्नरसान् अदनीयरसान् | अन्नशब्दस्यौदनार्थकत्वंतुनात्रसंभवति । “धर्ममेवाचरिष्या- मस्तत्रमूलफलाशनाः” इत्यनेनतन्निषेधस्यबोधितत्वात् ॥ १८ ॥ ती० मृगपक्षिभिस्सहाभ्यर्च्यव्यस्यायंभावः । मुनिप्रभावात्ति- यश्चोपिराममीश्वरंमत्वामुनिनिर्विशेषास्सन्तः सेवन्तइति । ति० आगतमागतं तेजोविशेषान्मर्यादारक्षणायमध्येमध्येस्थित्वानिकटं प्राप्तं रामं मृगपक्षिभिर्मुनिभिश्च सहस्वागतेनाभ्यर्च्य मुनिभिस्सहमुनीरामंसमन्ततआसीनोऽभव दितियोजना | मृगपक्षिणामर्चाच, प्रदक्षिणगमनादिरूपावर्णिता ॥ १९ ॥ ती० चिरस्य चिरकालस्य | इहाश्रमेत्वांपश्यामि । अयंभावः । चक्षुराद्यगोचरंलामेवमनसि सतत मनुसंदधानोऽहं चिरकालस्यइहममपुरतः चक्षुषापश्यामीत्याश्चर्य । अतोममभाग्यं किंवर्ण्यतइति लौकिकदृष्टिमनुसृत्याह- श्रुतमिति | ति० चिरस्य चिरकालस्य | इहाश्रम आगतंत्वांपश्यामि । अनेन पूर्वमपिकदाचिदागमनध्वनितं । पूर्वरामावतारका- लिकमागमन॑मनसिनिधायवैषोक्तिः । शि० हेकाकुत्स्थ तव उपागतं समीपागमनं । चिरस्यबहुकालतः पश्यामि कंदाऽऽगन्तेति सर्व॑दैवालोचयामीत्यर्थः । तत्रहेतुः अकारणं स्वेच्छातिरिक्तकारणरहितं । तवविवासनंश्रुतं वाल्मीकिमुखादवगतं ॥ २१ ॥ शि० विविक्तः दुर्जनसंसर्गरहितः ||२२|| ती० भगवन्नित्यादिश्लोकत्रयस्य वास्तवार्थस्तु | भगवन् सर्वज्ञ | रावणवधार्थेगूढतयाऽवतीर्ण मांयद्येवं प्रकटीकरोषि तदा सर्वोपिजनः मांसुदर्श सुष्टुद्रष्टुं योग्यसुदर्श विष्णुंच | "दृश्यतेत्वम्यया” इतिश्रुतेः । वैदेहींमांच लक्ष्मीं- च ज्ञात्वा प्रेक्षकः दिदृक्षुस्सन् इहागमिष्यति । तेनैवं विधप्रकटवासं प्रकटावस्थानंन रोचये । अतोयत्रपरमानन्दैकताने यवैदेहीरमते । “योमृग्यतेहस्तगृहीतपद्मयाश्रियेतरैरङ्गविमृग्यमाणया" इत्यादिरीत्या सर्वैराश्रयणीयापिलक्ष्मीः अनवरतानुभवेप्यद्यारब्धानुभवेव नित्यानुरक्ताभवति । तं आश्रयतइत्याश्रमंजगत् तस्य स्थानमाधारभूतं सर्वोत्तमं स्वरूपगुणवैभवैर्ब्रह्मरुद्रादिभ्यःश्रेष्ठतमंमां ममातिप्रिय- । स्त्वमेवैकान्तेपश्य गुह्याद्रुह्यतमं मत्स्वरूपंनप्रकट येतिरहस्योपदेशः । शि० अजनः कर्माधीनजन्मरहितः नित्यसुखादिरित्यर्थः ॥२४॥ [पाο १ ख. ग. च. ज. मन्वागमत्. २ क ड - ट. मेवाचरिष्यामः . ३ क. चैवान्वकल्पयत् ४ च. छ. झ ञ ट स्वागतेनागतं. ग. घ. ज. खागतेनातिथिं. ५ ङ. छ. झ. ट. पश्याम्यहमुपा ६ च. चैवं. ङ, छ. झ. न. ट. चैव,