सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ते भूमिभागान्विविधान्देशांश्चापि मनोरमान् || अदृष्टपूर्वान्पश्यन्तस्तत्रतत्र यशस्विनः ॥ ३ ॥ यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्दुमान् || निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥ प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् || अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः ॥ ५ ॥ नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् || तथाहि श्रूयते शब्दो वारिणो वारिपट्टितः ॥ ६ ॥ दारूणि परिभिन्नानि वनजैरुपजीविभिः ॥ भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे || गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः ॥ ८ ॥ रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः ॥ गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ ९ ॥ तैंतस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ || सीतयाऽनुगतौ वीरौ दूरादेवावतस्थतुः ॥ १० ॥ सँ प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् || संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ ११ ॥ हुताग्निहोत्रं दृष्ट्वैव मँहाभागं कृताञ्जलिः ॥ रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ १२॥ न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः ॥ पुत्रौ दशरथस्यावां भगवन्नामलक्ष्मणौ ॥ १३ ॥ भार्या ममेयं वैदेही कल्याणी जनकात्मज़ा || मां चानुयाता विजनं तपोवनमनिन्दिता ॥ १४ ॥ ।। २–३ ॥ यथाक्षेमेण क्षेमानतिक्रमेण । “यथा- | || ७ || लम्बमाने अस्तगिरौलम्बमानइव दृश्यमाने । Sसादृश्ये ” इति पदार्थानतिवृत्तावव्ययीभावः । संधौ संगमेवर्तमानं निलयं आश्रमं तत्समीपप्रदेशंप्रा- "तृतीयासप्तम्योर्बहुलं" इत्यलुकू । क्षेमहेत्ववधानम- पतुः ॥ ८ ॥ त्रासयन् अपूर्वदर्शनेनत्रासंजनयन् । नतिक्रम्येत्यर्थः । निवृत्तमात्रे अर्धमण्डलकालइत्यर्थः मुहूर्त मुहूर्तगम्यं । भरद्वाजं भरद्वाजसमीपं ॥ ९ ॥ ॥ ४ ॥ प्रयागमभितः प्रयागस्याभितः । “ अभि- दूरादेवावतस्थतुः सायंतनसमयत्वादग्निहोत्रावसानं तःपरितः—” इत्यादिनाद्वितीया | केतुं ध्वजीभूतं प्रतीक्षमाणाववतस्थतुरित्यर्थः ॥ १० ॥ सप्रविश्ये- धूममितिसंबन्धः । अतः संनिहितोमुनिरितिमन्ये त्यादिश्लोकद्वयं । प्रविश्य दैवान्निर्गतशिष्यमुखेनेति- ।। ५ ।। संभेदं संगमं । “ संभेद: सिन्धुसंगम: " शेषः । संशितव्रतं तीक्ष्णव्रतं । एकाग्रं एकप्रधानं । इत्यमरः । वारिघट्टितोवारिणःशब्दः । वारिजनि- ध्यानपरमितियावत् | तपसा तपोवैभवेन | लब्धच- तो वारिशब्दः । वारिणोरन्योन्यघट्टनजःशब्दइत्यर्थ: क्षुषं लब्धज्ञानं अतीतानागतवर्तमानयावदर्थगोचर- ॥ ६ ॥ वनजैरुपजीविभिः वनोत्पन्नैः फलमूलकाष्ठा- ज्ञानयुक्तमित्यर्थ: । दृष्ट्वैव दर्शनोत्तरकालमेवेत्यर्थः पजीविभि: । दारूणीत्यत्रापि दृश्यन्तइत्यनुषज्यते ।। ११–१२ || न्यवेदयतेत्यादिश्लोकद्वयमेकान्वयं । ति० यथा यथासुखं जनानुमानशङ्काभावात्क्षेमेणोपविश्योत्थाय चशनैः शनैःखेच्छानुरोधेन संपश्यन् समपश्यन् ॥ ४॥ स० तस्मादत्रमुनिरे कस्संनिहितइति मन्ये ॥ ५ ॥ ति० वारिणोः गङ्गायमुनाजलयोः । वारिधर्षः विजातीयवारिसंबन्धः । स० यद्वा वारिणोःशब्दः श्रूयते तत्रदृष्टान्तः - अरिघर्षजइति । अर्योःचक्रयोः अर्योर्वैरिणोः संघर्षजः शब्दोवा शब्दइव | “वाविकल्पोपमानयोः” इत्यभिधानात् ॥ ६ ॥ ति० येषांदा रूणिभिन्नानितेद्रुमादृश्यन्तइत्यन्वयः । स० वनजैः कन्दमूलादिभिः उपजीविभिर्वनस्थैः । दारूणिपरिभिन्नानियेषां ते विविधाद्रुमाः छिन्नादृश्यन्ते ॥ ७ ॥ ति० धन्विनांविततावितिपाठे तेषांमध्येवि- ततौमुख्यावितियावत् ॥ ॥ शि० मृगपक्षिणः दुष्टान्मृगान्पक्षिणश्च त्रासयन् । स० त्रासयन् धनुर्धरत्वादितिभावः । ति० भरद्वाजं तदाश्रमं ॥ ९ ॥ ति० दूरादेवावतस्थतुः कार्यवशनिर्गतशिष्यद्वारा विज्ञापनपूर्वकानुमतिलाभार्थमितिभावः ॥ १० ॥ ति० प्रविश्य उटजमितिशेषः ॥ ११ ॥ ३ ङ. छ. झ ञ ट . संपश्यम्पुष्पिता- ४ झ निर्वृत्तमात्रे. ५ ङ. च. छ. झ. ७ ङ. छ. झ ट वारिणोर्वारिवर्षजः ८ क. घ. च. ञ. घट्टजः. ग. ज. घट्टनात्. [ पा० ] १ ङ. चं. छ. झ ञ ट . मनोहरान्. २ क. ग. घ. च. ज. क्रमेण. विविधान् घ. संगच्छन्पश्यंच. ज. गच्छन्सन्पश्यंश्च च पश्यंञ्चपुष्पितान्विविधान् ट. मुत्तमं. घ. मुद्रतं. ६ ख. तथापि ९ ख. दारूणिच विभिन्नानि १० ङ. छ. झ. ट . छिन्नाश्चाप्याश्रमे चैते. ११ क. घ. सुधन्विनौसुखं च धन्विनांविततौ १२ क. यमुनयोर्मध्ये. १३ क. तत्रत्वाश्रम १४ ख मुनिदर्शन. १५ क. घ. च. संप्रविश्य १६ घ र्युतं. १७ ख. घ—छ, झ, ञ, ट. महाभागः १८ क. ग. ङ. च. छ. झ ञ ट. कल्याणीवैदेही.