पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । २२१ न हि तातं न शत्रुघ्नं न सुमित्रां परंतप | द्रष्टुमिच्छेयमद्याहं स्वर्ग वाऽपि त्वया विना ॥ ३२ ॥ ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् || न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥३३॥ स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य “चैवं वनवासमादरात् ॥ समा: समस्ता विदधे परंतपः प्रपद्य धर्म सुचिराय राघवः ॥ ३४ ॥ ततस्तु तस्मिन्विजने वँने तदा महाबलौ राघववंशवर्धनौ ॥ न तौ भयं संभ्रममभ्युपेयतुर्यथैव सिंहौ गिरिसानुगोचरौ ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ प्रभातेसीतालक्ष्मणाभ्यांसहप्रस्थितेनरामेणसायाह्वेगङ्गायमुनासंगमदेश संनिहितभरद्वाजाश्रमंप्रतिगमनम् ॥ १ ॥ भर- द्वाजेन श्रीरामंप्रत्यर्चन पूर्वकंचित्रकूटगुणानुवर्णनेन तस्यवासार्हस्थानत्वकथनम् ॥ २ ॥ विचित्रकथाकथनपूर्वकं स्वाश्रमेरात्रिंया- पितवन्तंरामंप्रतिप्रभातेभरद्वाजेनचित्रकूटगमनाभ्यनुज्ञानम् ॥ ३ ॥ ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् || विमलेऽभ्युदिते सूर्ये तस्माद्देशात्मतस्थिरे ॥ १ ॥ यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते || जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २॥ अहमपिनजीवाम्येवेत्यर्थः । दृष्टान्तार्थसीताग्रहणं | | ष्कलंच उत्तमपुष्कलं अतीबभ्रातृस्नेहपुरस्कृतत्वादुत्तमं यद्वा “ सीतासमक्षंकाकुत्स्थमिदं वचनमब्रवीत् " इ- | वक्तव्यस्यसर्वस्योक्तेः पुष्कलंपूर्णार्थी लक्ष्मणस्यवचः आ- तिसीतापुरुषकारेणशरणागतिकरणात् स्वस्यशरणा- | दरान्निशम्य चिरायधर्म वानप्रस्थधर्म अधश्शयना- गतिफलाभावेपुरुषकारभूतसीतायाअपिनेतिभावः । दिकंप्रतिपद्य । समस्ताःसमाः वनवासं अत्यन्तसंयो- अपिजीवावः यदिजीवावः । तदा जलादुद्धृतौमत्स्या- | गेद्वीतीया | विदधे लक्ष्मणेनसविधातुमैच्छदित्यर्थः । विव | मुहूर्तै स्वल्पकालं जीवावः । यथाजलोद्धृतौम- अन्यथाभूतार्थासंभवः । कविनाप्यादौतथावक्तुमयु- त्स्यौयावजलसंसर्गजीवित्वातद्विलयेविनश्यतः तथा तं । लक्ष्मणस्यसमस्ताःसमाःप्रतिअनुमतिविदधइति आवामपित्वद्वचन हृदयज्ञानपर्यन्तमितिभावः । तथा- केचिदाहुः ॥ ३४ ॥ भयं व्याघ्रादिभ्यः | संभ्रमं वक्ष्यतिसुन्दरकाण्डे “ नचास्यमातानपितानचान्यः व्याकुलत्वं । भयहेतुशङ्कया इतस्ततोनिरीक्षणमिति- स्नेहाद्विशिष्टोस्तिमयासमोवा | तावद्ध्यहंदूतजिजी- यावत् ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्री- विषेयंयावत्प्रवृत्तिंशृणुयांप्रियस्य ” इति ॥ ३१ ॥ अ- | मद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- थनोत्कण्ठितुमर्हसीत्युक्तस्योत्तरमाह-नहितातमि- | ख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥ त्यादिश्लोकेन ॥ ३२ ॥ ततः लक्ष्मणवचनानन्तरं । 66 तत्र पूर्वाश्रितवृक्षमूलेभुक्तिस्थाने | सुखासीनौ सुखो- महावृक्षे महावृक्षमूले । सामीप्येसप्तमी । विमले- पविष्टौ सुखासीनाचसुखासीनश्चसुखासीनौ । सर्वत्र ऽभ्युदिते । स्पष्टमुदितइत्यर्थः ॥ १॥ यत्रेत्यादिश्लो- पुमान्स्त्रिया " इत्येकशेषः । सीतारामौन्यग्रोधे कद्वयमेकान्वयं । भूमिभागान् वनप्रदेशान् । दे- न्यग्रोधमूले । सुकृतां लक्ष्मणेनसुष्ठुकृतां शय्यांनिरी- शान् वत्सदेशावान्तरदेशान् । एतदेवनानात्वमाह — क्ष्य तांभेजातेइतिसंबन्धः ॥ ३३ ॥ उत्तमंचततपु- | तत्रतत्रेति | यशस्विनइत्यनेनतत्तद्देशीयैरर्चितत्वमुक्तं थासत्यत्वप्रतिपादनायद्विरुक्तिः ||३१|| ति० नञ्त्रयस्य इच्छेयमितिपदावृत्त्याऽन्वयः ॥ ३२ ॥ स० धर्म स्वशुश्रूषणरूपं । प्रपद्यां- गीकृत्य। समस्तास्समाः चतुर्दशवर्षाणि | वनवासंप्रतिविदघे लक्ष्मणसंमतमकरोदित्यर्थः ॥ ३४ ॥ इतित्रिपञ्चाशस्सर्गः ॥ ५३ ॥ [ पा० ] १ घ. मिच्छामिचाद्याहं. २ च. छ. झ ञ ट चापि. ३ झ. समासीनौ ४ ख. समीक्ष्य ५ ख. रामो. ६ ङ. च. छ. झ. ञ. ट. महाबलौमहावने. ७ ख. ग. ट. भागीरथीगङ्गायमुनामभिवर्तते. ८ क. यमुनाहि.