२१२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अहं किंचापि वक्ष्यामि देवीं तव सुतो मया ॥ नीतोसौ मातुलकुलं संतापं मा कृथा इति ॥ ४५ ॥ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् || कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥ मम तावन्नियोगस्थास्त्वद्वन्धुजनवाहिनः || कथं रथं त्वया हीनं ग्रैवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥ तन शक्ष्याम्यहं गन्तुमयोध्यां त्वतेऽनघ || वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥ यदि मे याचमानस्य त्यागमेव करिष्यसि ॥ सरथोऽग्निं प्रवेक्ष्यामि व्यक्तमात्र इह त्वया ॥ ४९ ॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते ॥ रथेन प्रतिबाधिष्ये तानि सँत्वानि राघव ॥ ५० ॥ त्वत्कृते न मयाऽवाप्तं रथचर्याकृतं सुखम् || आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ॥ प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ ५२ ॥ ईमे चापि हया वीर यदि ते वनवासिनः ॥ परिचर्या करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् || अयोध्यां देवलोकं वा सर्वथा अँजहाम्यहम् ।। ५४ ॥ न हि शैक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना ॥ राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥५५॥ वनवासे क्षयं प्राप्ते ममेष हि मनोरथः ॥ यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥ - ॥४४॥ यदिप्रियंब्रूयांतदसत्यंभवति यदिचसत्यंब्रूयां शेषः ॥ ५० ॥ त्वत्कृते त्वन्निमित्तं । रथचर्याकृतंसु- तदप्रियंभवति अतःकौसल्यांप्रति किमपिवक्तुंनशक्य- खंमयानावाप्तं राज्याभिषिक्तत्वद्रथचर्याकृत सुखमया मित्यभिप्रायेणाह – अहमित्यादिना | देवीमहं किंवाव- भाग्यहीनेननलब्धं । तथापि त्वत्कृतेन त्वत्साहाय्यक- क्ष्यामि नकिमपिवक्तुंशक्नोमीत्यर्थः । तदेवोपपादय- रणेन | वनवासकृतमपिसुखं आशंसे इच्छामि । राज्ये ति —तवेत्यादिना । तवासौसुतोमयामातुलकुलंनीतः | रथचर्याकृतसुखाभावेपि वनेसारथित्वेन परिचर्याकर- तस्मात्संतापंमा कृथाइतीदृशमसत्यवचनमप्यहं नैवब्रूयां णकृतंवापिसुखममभवत्वितिभावः । यद्वा त्वत्कृतेन असत्यवचनप्रतिषेधादितिभावः । सत्यमेववदेत्यत्राह त्वयाकृतेनानुग्रहेणेत्यर्थः । रथचर्याकृतं रथप्रेरणकृतं — कथमिति । अप्रियमिदं वनप्रापणरूपं सत्यं वचनंक | सुखमयाअवाप्तं । एवं त्वत्कृतेनानुग्रहेणवनवासकृतंसु- थंब्रूयां देव्याहानिप्रसङ्गादितिभावः ॥ ४५ – ४६ ॥ | खमप्यहमाशंसइति ॥ ५१ ॥ प्रत्यनन्तरः समीपवर्ती । त्वद्वन्धुजनाः त्वद्व॑श्याः। यद्वा त्वं त्वद्वन्धुभूतसीताल- | मेप्रत्यनन्तरोभवेतिप्रीत्याअभिहितमिच्छामि । त्वत्क- क्ष्मणरूपजनौचत्वद्वन्धुजना: तद्वाहिनः प्रवक्ष्यन्ति | र्तृकमभिधानमिच्छामीत्यर्थः । क्रियतामितिमांवदेति वोढांरोभविष्यन्ति । वहेलेटिरूपं ॥ ४७-४८ ॥ वत् ॥ ५२ ॥ परमांगतिं स्वामिशुश्रूषणादितिभावः त्यक्तमात्रः तत्क्षणएवत्यक्तः ॥ ४९ ॥ रथेनसाधनेन ॥ ५३ ॥ मूर्धेत्यस्यसोपचारमितिफलितार्थः । सर्वथा प्रतिबाधिष्ये अहमेवरथीभूत्वानिवर्तयिष्यामीत्यर्थः । सर्वप्रकारेण ॥ ५४ ॥ महेन्द्रस्यराजधानी स्वर्ग: तानिसत्त्वानीतिपाठः । सर्वाणीतिपाठे सत्त्वानीति ॥ ५५ ॥ वनवासेक्षयंप्राप्ते वनवासेसमाप्तेसतीत्यर्थः । मिल्यस्यस्थितमित्यस्य चलिङ्गविपरिणामेनान्यत्राप्यन्वयः । एकस्त्वाशब्दः सर्वादिपठितादन्त प्रकृति कटाबन्तः ॥ ४२ ॥ ति० कथंप्र- वाह्यन्ति नकथमपिवहन्ति । अतोरथनयनं दुश्श कमितिभावः ॥ ४७ ॥ ती० त्वयाकृतानुग्रहेण रथचर्याकृतं रथप्रेरणकृतं सुखम- वाप्तं | वनवासकृतंसुखमाशंसे । अस्यायंभावः । त्वमस्मिन्कुलेऽवतरिष्यसीतिज्ञा त्वैव मन्त्रिप्रधानोप्यहं त्वद्रथचर्या सेवाभाग्यंममभ- विष्यतीति निन्द्यमपिसूतकृत्यंमयाङ्गीकृतं । तेनभाग्यवशात्वत्सेवा सुखप्राप्तमेव । इतः परं वनवासकृतंसुखं वनवासेपित्वत्सेवाकृतं सुखं आशंसे प्रार्थयइति ॥ ५१ ॥ ति० देवलोकंवेत्यनेन त्वद्भक्तानांभक्त्यन्तरायभूतदेवलोकप्राप्तिरपिहेयैवेतिसूचितं । शि० देवलोकं [ पा० ] १ क. ख. किंचाद्य. २ क. संतापस्त्यज्यतामिति ३ ङ. झ ञ ट प्रवाह्यन्ति ४ क. ख. त्वामृते. ५ ज योधिष्ये. ६ क. ख. घ - छ. झ ञ ट. सर्वाणि ७ ख. लत्कृतेहि च त्वत्कृतेतु. ८ ग घ ङ छ – ट. मयाप्राप्तं. ९ ख. . ग. ङ. च. छ. झ. ञ. ठ. इमेपिच १० घ. नवजाम्यहं ११ ग. प्रवेष्टुंशक्या. १२ ग. ज. कारिणा. १३ क. ममैवहि. १४ क—घ, वहेयंत्वां.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१६
दिखावट