१९८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ ते विषं पिचतालोड्य क्षीणपुण्याः सुदुर्गताः ॥ राघवं वाऽनुगच्छध्वमश्रुतिं वाऽपि गच्छत ||२७|| मिथ्या प्रत्राजितो रामः सभार्यः सहलक्ष्मणः ॥ भरते सैन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ २८ ॥ पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः || आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ २९ ॥ पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ॥ सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः ॥ ३० ॥ नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः || शोभयिष्यत्यरण्यानि विचरन्स महारथः ॥ ३१ ॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ॥ चुक्रुशुर्दुःखसंतप्ता मृत्योरिव भैयागमे ॥ ३२ ॥ इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ॥ जगामास्तं दिनकरो रजनी चाभ्यवर्तत ॥ ३३ ॥ नष्टज्वलनसंपाता प्रशान्ताध्यायसत्कथा || "तिमिरेणाभिलिप्तेव सौ तदा नगरी बभौ ॥ ३४ ॥ उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया || अयोध्या नगरी चासीन्नष्टतारमिवांबरम् ॥ ३५ ॥ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ॥ विलप्य दीना रुरुदुर्विचेतसः सुता तो सामधिको हि सोभवत् ॥ ३६ ॥ प्रशान्तगीतोत्सव नृत्तवदना व्यपास्तहर्षा पिहितापणोदया || ॥ २६॥ ते यूयं आलोड्य अमुमर्थमालोच्य | सुदुर्ग | पूर्वाभिभाषी स्वसौहार्दभव्यत्वप्रदर्शनायसर्वत्रपूर्वभा- ताः सुदरिद्राः रामरूपधनहीनाइत्यर्थः । अश्रुतिं यत्रग- षणशीलः ॥ ३०-३१ ॥ मृत्योर्भयागमे मरणसमये सेनामापिनश्रूयते तं देशमित्यर्थः ||२७|| पितृवचननि- ॥ ३२ ॥ विलपन्तीनां विलपन्तीषु सतीष्वित्यर्थः । वै॒शेनकैकेयीप्रियचिकीर्षयाचक्रियमाणेप्रव्रजनेकोदोष राघवमुद्दिश्येतिशेषः || ३३ || नष्टज्वलनसंपाता इत्यत्राह — मिथ्याप्रव्राजितइति । मिथ्याप्रत्राजित: नष्टाग्निप्रणयना | प्रशान्ताध्यायसत्कथा अध्यायोवेदः कपटेनप्रब्राजितः । सन्निसृष्टाः निक्षिप्ता:राज्ञेतिशे- सत्कथापुराणादि: निवृत्तवेदाध्ययनपुराणपाठेत्यर्थः षः । सौनिके पशुमारके ॥ २८ ॥ विश्लेषासहि- ॥ ३४ ष्णुतया रामस्त्व कार्यकृतवा नित्यभिधायतद्गुणकीर्तनेना- प्यायनं कुर्वन्ति – पूर्णेत्यादिना | गूढजत्रु: गूढे निम- भेजत्रुणीअंससंधी यस्यसतथोक्तः । “स्कन्धोभुजशि- रोसोस्नीसंधीतस्यैवजत्रुणी इत्यमरः ॥ २९ ॥ " उपशान्तवणिक्पण्या उपशान्तानिवणिजां पण्यानियस्यांसा पण्यकल्पनाशून्येत्यर्थः ॥ ३५ ॥ सुतैः सुतेभ्यः । पञ्चम्यर्थेतृतीया । भ्रातृभ्यश्चेत्यपि द्रष्टव्यं ॥ ३६ ॥ पिहितापणोदया पिहित: आपणो- दय: आपणस्थवस्तुसमृद्धिर्यस्याः सातथोक्ता । आपणो- पःनाशः ॥ २६ ॥ ति० तेयूयं पुरुषाः | सस्त्रीका इतिशेषः । आलोड्य पेषयित्वा । अश्रुतिंवापि यस्मिन्देशेकैकेय्या नामश्रवणमपिनभवति तादृशंदूरदेशंवा गच्छतेत्यर्थः ॥ २७ ॥ ति० सौनिके सूना पशुवधस्थानं तत्रभवे हिंसके तत्समीपे । शि० रामः मिथ्या वृथा प्रत्राजितः । ननु राजनियोगे भवदुक्त्या किमित्यतआहुः । भरते कैकेय्यतिप्रियत्वेनभरतसदृशेम- न्थरायां तदाज्ञायामित्यर्थः । वयंसंनिबद्धास्स्मः | भरतशब्दः आचारक्किबन्तप्रकृतिककर्तृक्विबन्तः । सामान्ये नपुंसकम् ॥ २८ ॥ ती० विलपन्तीनां प्रलपन्तीषुसतीषु दिनकरोस्तंजगाम | सूर्यास्तमयानन्तरं रजनीचाभ्यवर्ततेति । अनेन पौरस्त्रीदुःखासहि- ष्णुतयाऽस्तमयानन्तर मस्तमयात्पूर्वच भानोः पूर्वगत्यपेक्षयाऽतिवेगेनगमनंद्योत्यते ॥ ३३ ॥ ति० नष्टज्वलनसंतापा नष्टः होमा- द्यर्थोपि ज्वलनसंतापो ज्वलनसंगमोयस्यां ॥ ३४ ॥ स० सुतैः बहुवचनमाद्यर्थे ॥ ३६ ॥ ति० संक्षपितोदकः क्षीणोदकः । संक्षुभितोदकइतिपाठे क्षैण्यात्संक्षुभितोदकइत्यर्थः । स० संक्षुभितोदकः प्रलये ॥ ३७ ॥ इत्यष्टचत्वारिंशस्सर्गः ॥ ४८ ॥ [पा०] १ क. पुण्याःस्थदुःखिताः. घ. पुण्याचदुःखिताः. च. ज. झ. ज. पुण्याः सुदुःखिताः • ख. पुण्याश्चदुर्गताः. ङ. छ. ट. पुण्याः स्मदुःखिताः २ च. राघवंचानु. ३ ङ. ज. चापि ४ ख. सहर्भायःसलक्ष्मणः ग. ज. ससीतः ५ क. ख. ग. ज.ज. संनिविष्ठाः. ङ. छ. झ. ट. संनिबद्धा: च. संनिविष्टास्त. घ. संनिकृष्टाः ६ क. पूर्वभाषीच. ७ ख मधुरं. ८ घ. सौम्यः सर्वस्य लोकस्य ९ क. ख. महाबलः १० क. ख. च. ज. नागराः ११ क – घ. ज. भृंशसंतप्ताः १२ क ख समागमे १३ जट. संतापा. १४ ग. घ. च. ज. शान्ताध्ययनसत्कथा. ख. प्रशान्तायतसत्कथा. १५ क. ख. ग. च. ज—ट. तिमिरेणानु. घ. तिमिरौघविलिप्तेव. १६ च ज झ व तदासा. १७ ङ. छ. झ. तदा १८ ख. सुताद्धि. १९ ङ. छ. झ ट मधिकोपि २० ख. घ. वादिता. क. च. वादिनी. ग. वाद्यका. ज. वाद्या, २१ ङ च झ. ज. द. बिभ्रष्ट, ख. व्यपेत.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०२
दिखावट