पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९७ प्रत्रविष्यन्ति तोयानि विमलानि महीधराः || विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् || पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ १४ ॥ यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ स हि शूरो महाबाहुः पुत्रो दशरैथस्य च ॥ १५ ॥ पुरा भवति नो दूरादनुगच्छाम राघवम् ॥ १६ ॥ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ॥ स हि नाथो जनस्यास्य स गतिः स परायणम् ॥१७॥ वयं परिचरिष्यामः सीतां यू॒यं तु राघवम् || इति पौरस्त्रियो भर्तृन्दुःखातस्तत्तदब्रुवन् ॥ १८॥ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ॥ सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १९ ॥ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च || संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ २० ॥ | कैकेय्या यदि चेद्राज्यं स्याधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥२१॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् || कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥ कैकेय्या न वयं राज्ये भृतका निवसेमहि || जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २३ ॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा || कस्तां प्राप्य सुखं जीवेदधर्म्यं दुष्टचारिणीम् ॥ २४ ॥ उपद्रुतमिदं सर्वमनालम्बमनायकम् || कैकेय्या हि कृते सर्व विनाशमुपयास्यति ॥ २५ ॥ न हि ब्रजिते रामे जीविष्यति महीपतिः ॥ मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ २६ ॥ भृ- " अनुक्रोशात् आदरादित्यर्थः ॥ १३-१४ ॥ यत्रदेशे | अनेनवासेन नगरेणेत्यर्थः । कोनुजनःसंप्रीयेत नको- रामोवर्तते तत्रभयं नास्ति । तत्र पराभवोपिनास्ति पीत्यर्थः । तस्मादयवासस्त्याज्यइतिभावः ॥ २० ॥ ॥ १५ ॥ दूरात् पुराभवति भविष्यति । ततः पूर्व- अधर्म्यं धर्मादपेतमित्यर्थः । अनाथवत् नाथशून्यं मेवानुगच्छामइत्यर्थः । (6 यावत्पुरानिपातयोर्लट्” भाविप्रतिसन्धानेनेदमुक्तं । कुतइति पुत्रधनकृतपुरु- इतिलट् ॥ १६ ॥ पादच्छायेति पादसेवालक्ष्यते । षार्थस्यजीवितमूलत्वादित्यर्थः ॥ २१ ॥ पुत्रोरामः | सुखा सुखसाधनभूता । गम्यतइतिगतिः प्राप्य: । परिहरेत् विपद्व्यइतिशेषः । रक्षेदितियावत् ॥ २२ ॥ परायणं परमयनं सर्वप्रकारेणाधारभूतइत्यर्थः ॥ १७ जीवन्त्याः कैकेय्याःराज्ये भृतकाः भृतिभुजः । — १९ ॥ अप्रतीतेन अप्रशस्तेन सतामयोग्येनेति तकोभृतिभुक् " इत्यमरः । कैकेयीजीवनपर्यन्तंनत- यावत् । उत्कण्ठयाशोकस्मरणेनसहितः सोत्कण्ठः स्याराज्येनिवसेमहीतिजीवन्तीशब्दस्यभावः ॥ २३- कृतःसोत्कण्ठःसोत्कण्ठितः तादृशो जनोयस्यतेन । ॥ २४ ॥ कैकेय्याः कृते कैकेयीनिमित्तं ॥ २५ ॥ विना- अमनोज्ञेन उद्वेगकारिणा | हृतचेतसा चित्तनाशकेन । | शप्रकारमुपपादयन्ति - नहीति | विलापो विनाशः “पद्मंस्यात्पन्नगे” इतिविश्वः ॥ ९ ॥ ती० योगक्षेमं अप्राप्तप्राप्तिर्योगः प्राप्तस्यरक्षणक्षेमं ॥ १९ ॥ ती० कंपरिहरेत् त्यागात्प- रिहरेत् । सर्वानपिपरित्यजेदित्यर्थः । भर्तृपुत्रत्यागकारिण्यास्तस्याइतरत्यागः कियानितिभावः । शि० ययाहेतुभूतयामन्थरया ऐश्वर्यकारणात् अहमतीवराज्ञोप्रियेति स्वप्रभूतिहेतोः पुत्रोरामः भर्तादशरथश्च व्यक्तौ त्याजितौ सा कैकेयी कुलस्य पांसनी मलभू- तामन्थरा अन्यं कं परिहरेत् त्यजेत् नत्याजयेदित्यर्थः । स० कंअपरिहरेत् सर्वपरिहरेदेव । अमानोनाइत्यादिना निषेधार्थकोकारः ॥ २२ ॥ स० भृतकाः श्रियन्तइतिभृतकाः भृत्याइतियावत् । तथासन्तःननिवसेम । हीति अस्यार्थस्यातिदृढत्वंसूचयति । तेन नपदव्यत्यासदोषः ॥२३॥ शि० उपद्रुतं नानोपद्रवसहितं । अतएव अनालंभं पश्वालंभोपलक्षितयागरहितं ॥२५॥ ति० विलो- [ पा० ] १ ग. तत्रनास्ति २ ग. दशरथस्यहि. ३ ङ. छ. झ. ट. सुखंभर्तुः क. ख. च. ञ. सुखोदर्कातादृ. ४ ङ. च. छ. झ. न. ट. यूयंच. ५ ख घ. स्तास्तदाब्रुवन् ६ ङ. छ. ट. त्यक्तौचैश्वर्य. ७ झ. घ – छ. झ ञ ट भृतकाहि ख भृतकामा. ८ ङ. छ. झ ञ ट . मनालंभं. ९ ख. ङ. च. छ. झ ञ ट कैकेय्यास्तु. १० क. ग. ज. कृत्स्नं. ११ ख. घ. प्रत्राजिते १२ क. छ. ङ. छ-ट. विलोपः.