पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । गोकुलाकुलतीरायास्तमसाया विदूरतः ॥ अवसत्तत्र तां रात्रि रामः प्रकृतिभिः सह ॥ १७ ॥ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च ॥ अब्रवीद्धातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ १८ ॥ अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षागृहेष्वपि ॥ वृक्षलेषु संतापश्य लक्ष्मण सांप्रतम् ॥ १९ ॥ यथैते नियमं पौराः कुर्वन्त्यमन्निवर्तने || अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ||२०|| यावदेव तु संसुप्तास्तावदेव वयं लघु || रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥ २१ ॥ अतो भूयोपि नेदानीमिक्ष्वाकुपुरवासिनः ॥ स्वपेयुरनुरक्ता मां वृक्षर्मूलानि संश्रिताः ॥ २२ ॥ पौरा ह्यात्मकृताहुःखाद्विप्रमोक्ष्या नृपात्मजैः ॥ नै ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २३॥ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् || रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ २४ ॥ अथ रामोऽब्रवीच्छ्रीमान्सुमत्रं युज्यतां रथः ॥ गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥२५॥ सुतस्ततः संत्वरितः सन्दनं तैर्हयोत्तमैः ॥ योजयित्वाऽर्थे रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६ ॥ अयं युक्तो महाबाहो रथस्ते रथिनांवर || तैंमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ २७ ॥ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ॥ शीघ्रगामाकुलावर्ती तमसामतरन्नदीम् ॥ २८ ॥ स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् || प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९ ॥ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ॥ उदङ्मुखः प्रयाहि त्वं रथम स्थाय सारथे ॥ ३० ॥ मुहूर्ते त्वरितं गत्वा निवर्तय रथं पुनः || यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥ उषःकालोभूदित्यर्थः । यद्वा उदयपर्यन्तंगमनकाले | पुनः वृक्षमूलानि संश्रिताः नस्वपेयुः । अतोरथमारुह्य पिगुणानब्रवीदितिभावः ॥ १६ ॥ पूर्वकथाशेषंप्रस्तौ- गच्छामेतिपूर्वेणसंबन्धः ॥ २२ ॥ आत्मकृतात् स्वकृ- ति—गोकुलेति । विदूरतः अदूरतः । प्रकृतिभिः पौर- तात् । आत्मना स्वेन ॥ २३ – २६ ॥ युक्तः सज्जः श्रेणिभिः । “राज्याङ्गानिप्रकृतयः पौराणांश्रेणयोपिच" ॥ २७ ॥ सपरिच्छदः धनुः कवचादिसहितः । आकु- इत्यमरः॥ १७॥ निशाम्य दृष्ट्वा ।। १८ ।। अस्मद्व्यपेक्षान् लावत आवर्ताकुलां ॥ २८ ॥ महामार्गप्रापद्यत अस्मास्वेवविशेषेणापेक्षावतः ॥ १९ ॥ पौराः अस्मन्नि- जलस्थितरथादवतीर्य पद्भ्यामेवमहामार्गप्रापदित्यर्थः । वर्तने यथा येनप्रकारेण नियमंकुर्वन्ति । तेनप्रकारेणप्रा- भयदर्शिनां श्वापदादीनां | अभयं तत्संबन्धिभयरहि- णानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयंतु निवर्तननि- तमित्यर्थः ॥ २९ ॥ मोहनं वश्चनं । ननुसदस्यरा- श्चयंतु नत्यक्ष्यन्तीतिसंबन्धः ॥ २० ॥ यावदेव याव- मस्यस्वविरहासहिष्णूनांस्वस्मिन्निरतिशयप्रेमभाजांव- त्येवकाले । तावदेव तावत्येवकाले । लघु क्षिप्रं । रथ- ञ्चनमनुचितं । उच्यते । नेदंवञ्चनं व्रणचिकित्सान्या- मारुह्यगच्छाम । “लघुक्षिप्रमरंद्रुतं” इत्यमरः ॥ २१॥ येननागरिकाणामुन्मस्तकानन्देनसत्तानभवेदितिसु- इक्ष्वाकुपुरवासिनः मामनुरक्ताः इदानीमिव भूयः सात्म्यानुभवप्रदानार्थं वनवासव्याजेनविश्लेषस्यसंक १९३ शि० तात्कालिकस्वकर्तव्यमाह - यावदिति । यावत् यावत्कालं वयं लघुसंसुप्तास्तावत्कालं द्वित्रघटिकयेत्यर्थः । रथमारुह्य अकुतोभयं सर्वतोभयरहितंपन्थानंगच्छाम । एतेन तमसादक्षिणतटादारभ्य किंचिदूरंप्रशस्तोमार्गोनास्तीतिव्यक्तं ॥ २१ ॥ शि० ननु पुरवासिनांकागति रित्यत आह–अतइति । स्वप हेस्वकीयरक्षक लक्ष्मण अतःमध्येसुमार्गाभावाद्धेतोः भूयः अधिकं मामनुरक्ताअपि इक्ष्वाकुपुरवासिनः इदानींमांन ईयुः नागच्छेयुः । इदानीमित्यनेन भरतेन सहागन्तारइतिसूचितम् ॥ २२ ॥ ति० प्रभो समर्थ ॥ २५ ॥ इतिषट्चत्वारिंशस्सर्गः ॥ ४६ ॥ [ पा० ] १ ङ. ज झ ट उत्थायच. २ ख – ङ. छ. झ. ट. निर्व्यपेक्षान्. ३ क. ख. च. विमान् ४ छ. झ. संस- तान्. ५ ग. नियतिं. ज. नियतं. ६ ख. ङ. छ. झ. ट. प्राणान्यसिष्यन्ति. घ. प्राणान्नरक्षन्ति ७ ख. तद्यावदेव. ८ क – ट. गच्छामः. ९ क. ग – छ. झ. ट. मूलेषु. १० क. ख. ग. ङ. च. छ. झ, ञ. ढ. नतु. ११ क. घ. महाप्राज्ञ. १२ ङ. च. छ. झ. ज. ट. त्सूतंशीघ्रंसंयुज्यतां. क. ख. द्धीमान्. १३ छ, मतः १४ क. ख. घ – छ. झ ञ. ट. तुरामस्य १५ ङ. च. छ. झ ञ ट त्वरयारोहभद्रं. क – घ. ज. त्वमारोहखभद्रं. १६ ङ. छ. झ. ट. मारुह्य. वा. रा. ५७