१९२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ॥ यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ ३ ॥ 'अद्यायोध्या तु नगरी राजधानी पितुर्मम ॥ सस्त्रीपुंसागतानमाञ्शोचिष्यति न संशयः ॥ ४ ॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ॥ त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ ५ ॥ पितरं चानुशोचामि मातरं च यशस्विनीम् || अपि वोऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६॥ भरतः खलु धर्मात्मा पितरं मातरं च मे ॥ धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ ७ ॥ भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः ॥ नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ ८ ॥ - त्वया कार्य नरव्याघ्र मामनुव्रजता कृतम् || अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ९ ॥ अद्भिव तु सौमित्रे वेत्स्याम्यद्य निशामिमाम् || एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥१०॥ एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ॥ अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥ सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ॥ प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥ उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिभुपस्थिताम् || रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥१३॥ 'तां शय्यां तमसातीरे वीक्ष्य वृक्षद्लैः कृताम् ॥ रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥१४॥ सभा संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान्गुणान् ॥ १५ ॥ जाग्रतो ह्येव तां रात्रि सौमित्रेरुदितो रविः ॥ सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६ ॥ 66 तारात्रिः । प्रहिता गतप्राया । अतःस त्वंउत्कण्ठितुं | चोदितमेवकृतमित्याह – त्वयेति । कार्य अवश्यकर्त- नार्हसि । सीतामुद्वीक्ष्यसौमित्रिमब्रवीदित्यस्यैववाभि- व्यं । तत्रहेतुः – अन्वेष्टव्येति ॥ ९॥ अद्भिरेववत्स्यामि प्रायः । अतिसुकुमारीसीताकथंपयामेववनंगच्छेदि- अपएवाहारीकृत्यवत्स्यामि । वनवासोपक्रमदिवसत्वा- तिनोत्कण्ठितुमर्हसीति ॥ २ ॥ शून्यानि निष्प्रभाणि | दस्यपुण्यक्षेत्रत्वाञ्चोपवासः । एतद्धिरोचते नान्यत् । यथानिलयं यथास्थानंआयद्भिरागच्छद्भिः । मृगद्विजै- अनुरक्तजनदुःखस्मरणादितिभावः ॥ १०–११ ॥ लीनान व्याप्त तात्कालिकतच्छब्दैः रुदन्तीव । प्रभूतयवसान् पर्याप्ततृणान् । यवसंतृणमर्जुने " निष्प्रभत्वेनरोदनोत्प्रेक्षा ।॥ ३ ॥ वनरोदनोत्प्रेक्षयाउ- इत्यमरः । प्रत्यनन्तरः प्रतिगतमनन्तरकृत्यंयेनसतथो- द्बुद्धसंस्कारोनगरवृत्तान्तंस्मरति — अद्येति । स्त्रीपुंसे- क्तः अवगतानन्तरकार्यइत्यर्थः । संनिहितइत्यर्थइत्येके ति। “अचतुरविचतुरसुचतुरस्त्रीपुंस" इत्यादिनानिपा- ॥ १२ ॥ उपासनं नमस्कारः । सूतजातेरपिनमस्का- तनाद्कारान्तत्वं ॥ ४ ॥ शोचनहेतुमाह–अनुरक्ता रमात्रंसंभवति ॥ १३ ॥ वृक्षद्लैः सौमित्रिणासार्धं इति । गुणैर्हेतुभिः राजानंप्रत्यनुरक्ताहि राजानमित्यु- सूतेनकृतांवीक्ष्येत्यन्वयः ॥१४–१५॥ तांरात्रिमिति पादानमौद्धत्यपरिहाराय ॥ ५ ॥ रुदन्ताविति सन्त- | अत्यन्तसंयोगे द्वितीया सर्वारात्रिंजाग्रतः सूतस्य तरोदनवशेनान्धौस्यातामित्यर्थः ॥ ६ ॥ एवमपिका- सूताय रामस्यगुणान् कालक्षेपार्थब्रुवतःसौमित्रेः चित्प्रत्याशास्तीत्याह—भरतइति ॥ ७–८ ॥ त्वया सौमित्रौब्रुवतिसति । रविरुदितः उदितुमारब्धः । प्रहितायाः प्राप्तायाः सीतायाअवनंभद्रंयतः तेन इह रक्षणविषये उत्कण्ठितुं उत्साहकर्ते ॥ २ ॥ ति० यथायोगंस्वस्खनिलयमायद्भिः मृगद्विजैः निलीनानि सशब्दमन्तलींन तयाव्याप्तानि अतएव शून्यान्यरण्यानि रुदन्तीव अस्मान्दृष्ट्वा खिन्नानीववर्तन्ते पश्य ॥३॥ ति० नौ अस्मदर्थे अस्मन्निमित्तं । अन्धौनभवेतां अपितुभवेतामेव । अतः शोचामितौ ॥ ६ ॥ स० अद्भिरेवेति । अनेन स्वपि- तुरल्पजीवित्वात्तदुद्देशेनतीर्थोपवासःकृतइतिध्वन्यते॥१०॥ ति० शयनं शयनस्थलं शर्करापांसूत्क्षेपणादिनाचऋइत्यन्वयः ॥ १३॥ । [ पा० ] १ घ. भरतावपि. २ ख. चान्धौ. गट. नान्धौ. ३ ङ. च. झ. ज. ट. नौ. ४ क. धर्मकामार्थ. ५ क—ङ. छ—ञ. संचिन्त्याहं. ६ च. छ. झ. चमहाभुज, ७ च. छ. झ ञ ट रक्षणार्थ. ८ क. ख. घ. ङ. च. झ. न. ट. रेवहि. ९ क. च. घ. ञ. वत्स्याम्यत्र. छ. वत्स्याम्यथ. १० ख. ङ. छ. झ. ट. मुपागतां. ११ ज. शय्यांतां. १२ ङ. छ. झट. दलैर्वृतां. १३ च. तंसंप्रसुप्तं. ङ. चं. छ. झ ञ ट संप्रसुप्तंतु. १४ ग. घ. च. भ्रातरंप्रेक्ष्य. ङ. छ. झ. ट. श्रान्तंसंप्रेक्ष्य. १५ छ. झ. ट. जाग्रतोरेव. क. ख. च. ज. जाग्रतोरेवसारात्रिस्तयोः सौमित्रिसूतयोः । जगामतमसाती रेराम स्यब्रुवोर्गुणान्
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९६
दिखावट