पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ दैवतं दैवतानां च भूतानां भूतसत्तमः | तस्य के ह्यगुणा देवि राष्ट्रे वाऽप्यथवा पुरे ॥ १६ ॥ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ॥ क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥ दुःखजं विसृजन्त्यास्रं निष्क्रामन्तमुदीक्ष्य यम् ॥ अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥१८॥ कुशचीरधरं देवं गच्छन्तमपराजितम् || सीतेवानुगता लक्ष्मीस्तस्य किंनाम दुर्लभम् ॥ १९ ॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् || लक्ष्मणो व्रजति ह्यग्रे तस्य किनाम दुर्लभम् ॥ २० ॥ माया अप्यतिशयोनेनेतिभावः ॥ १५ ॥ दैवतंदैवता- | च्छेदः । सरामः पृथिव्यावैदेह्याश्रियाविजयलक्ष् नांच दैवतानामपिसकलकार्यनिर्वहणक्षमइत्यर्थः । भू- एताभिः तिसृभिः सहक्षिप्रमभिषेक्ष्यते हेतिसंबन्धः तानांभूतसत्तमः उत्तमभूतमित्यर्थः । भूतत्वंसत्ता सर्वे- ॥ १७ ॥ अस्यश्लोकस्यपृथिव्यासहेतिपूर्वश्लोकस्थेन षांसत्ता तत्सत्ताधीनेतिभावः । तस्यैवंभूतस्य॒सर्वगुणसं- सरामोभिषेक्ष्यतइत्यनेनसंबन्धः ॥ १८ ॥ लक्ष्मी- पन्नस्यदेशेवनेवापुरेवाकेअगुणा:नकोपीत्यर्थः । अगुणः रिवस्थितासीताऽनुगतेत्यन्वयः । अनेन राज्यश्रीरन्य- प्रतिबन्धकीभूतइतियावत् ॥ १६ ॥ सहेत्यत्रसइतिपद- | न्नपरिगृह्णातीतिद्योत्यते ॥ १९ ॥ धनुर्महवरः धनु- कीर्तिः कीर्तित्वप्रदः । क्षमायाः क्षमा क्षमात्वप्रदः । देवतानांदैवतं उपास्यः । तनि ० " तमेवभान्तमनुभातिसर्व" इतिश्रुत्यर्थमुप- पादयति । सूर्यस्य सकललोकप्रकाशकस्यापिप्रकाशकः सवितृमण्डलान्तर्वर्तीस नूस्फटिकमुकुरान्तस्स्थितदीपन्यायेनप्रकाशयती- तिपरमार्थः । अनेरग्निः अग्नेर्वस्तुपरिपाक दाहकत्वादिकं तत्संकल्पाधीनमित्यर्थः । “अहंवैश्वानरोभूत्वा" इत्यादिश्रवणात् प्रभोः प्रभुः ब्रह्मरुद्रादेः सृष्ट्या दिसामर्थ्य प्रदानेन निर्वाहकः । श्रियः श्रीः ब्रह्मादीनांयत्कटाक्षलेशायत्तमीश्वरत्वं नारायणस्यापियदपाङ्गभूय- स्त्वनिबन्धनंपरब्रह्मत्वं तस्याअपि यदाश्रयणाच्छ्रीलंसिद्ध्यतीति स्वस्मिन्नीश्वरत्वपूर्तिनिमित्तायालक्ष्म्याअपि स्वरूपनिर्वाहकइत्यर्थः । कीर्त्याः कीर्तिः “तस्यनाममहद्यश" इति यत्संबन्धान्महत्त्वमनितरसाधारणमितिकृत्वा कीर्त्याअपिकीर्त्यावहः । क्षमाक्षमा सर्वाधा रभूतायाभूमेराधारइत्यर्थः । “यस्मिन्यौः पृथिवीचान्तरिक्षं” इत्यादिश्रुतेः । दैवतानां दैवतमित्यनेन “तदैवतानां परमंचदैवतं" इतिश्रुत्यर्थंउक्तः । भूतानांभूतसत्तमः सत्तामात्रवतांसत्तानिर्वाहकः । एवं कल्याणगुणाकरत्वमभिव्यज्य हेयगुणविरोधिवव्यञ्जय- ति । “तस्य के” इति “राष्ट्रेवाप्यथवापुरे” इति विभूति द्वयसंबन्धेप्य जहत्स्वरूपत्वंव्यजितं । दोषविरोधित्वं अपहत पाप्मेत्यादिश्रुतिप्र.. सिद्धमिति द्योतयितुं हिशब्दप्रयोगः | शि० रामस्य सर्व नियन्तृत्वबोधयन्त्याह – सूर्यस्येति । सूर्यस्य सर्वावभासकादित्यस्या- पि सूर्यः अवभासकइत्यर्थः । ननु " तमेवभान्तमनुभातिसर्व" इत्यादिश्रुत्या सूर्यावभासकत्वब्रह्मणः प्रसिद्धमिति ब्रह्मकिमित्यत आह । अमेः सर्वाग्यस्यप्रकाशब्रह्मणोप्यग्निः प्रकाशंकइत्यर्थः । अतएव प्रभोः सर्वनियन्तुर्ब्रह्मादित्रयस्यापि प्रभुर्नियन्ता | अग्नि- शब्दस्यब्रह्मपरत्वं "अयत्वादग्निनामासौ" इत्यादिना मध्वाचार्यैर्व्याख्यातं । अभिमतश्चायंसिद्धान्तोभूषणकृतामपि । अतएव प्रभोःसर्वनियन्तुरपिनियन्तेतितैर्व्याख्यातं । सर्वनियन्तृत्वं च विष्ण्वादीना मेवेतिभावः । किंच सूर्यस्य प्रकाशकारणस्यापि सूर्यः कारणमित्यर्थः । ननु सूर्यकारणत्वेनवह्निः प्रसिद्धइतिकिंसइत्यतआह । अग्नेरप्यग्निः कारणमित्यर्थः । ननु सर्वकारणत्वेनब्रह्मणः प्रसिद्धत्वादिति किंतदित्यतआह । प्रभोः सकलनियन्तुरपि प्रभुर्नियन्तेत्यर्थः । अभ्या रामाप्रेगमनशीला क्षमाक्षमा क्षमायाः पृथि व्याइव क्षमाक्षान्तिर्यस्यास्सा | किंच क्षमायाः शान्तेरपि क्षमा शान्तिः अतिशान्तिविशिष्टेत्यर्थः । किंच क्षमयापृथिव्या क्षम्यते सह्यतेपाल्यतइत्यर्थः । सासीतातु श्रियः लक्ष्म्याः श्रीः स्वामिनीत्यर्थः । अतएव की: रामयशसः कीर्तिः कारणभूतेत्यर्थः । सूर्यस्य सर्वजगदवभासकस्यापि सूर्योऽवभासकः अग्नेः सर्वदाहकस्याप्यग्निर्दाहक इतिभूषणोक्तार्थस्तुनयुक्तः । दाहकत्वेनप्रकाशकत्वेनच द्वयोःप्रसिद्ध्याऽन्यतरोपादानस्यनिरर्थकत्वापत्तिः । नापि सूर्यस्यापिप्रकाशकोदाहकश्च अग्नेरपि प्रकाशकोदाहकश्चेत्यर्थोयुज्यते । पतत्प्रकर्ष दोषवत्तापत्तेरितिदिक् । हि पूर्वोक्तहेतोः भूतसत्तमः भूतान्प्राणिनःसत्तमयतिसत्तममिच्छतियस्सीतारामः भूतानांपृथि- व्याद्यधोदेशवासिनांदेवतानां ऊर्ध्वदेशवासिनांच दैवतं देवता पूज्यइत्यर्थः । तस्यसीतारामस्य अगुणाः नित्यगुण विरोधिनः अन्यथाकर्तारइत्यर्थः । देशेदण्डकादौ पुरेलकादौवा केसन्ति नकेपीत्यर्थः ॥ १५-१६ ॥ ति० अभिषेक्ष्यते वसिष्ठादिभिरि- तिशेषः ॥१७ || स० एवं जनानुरागविषयोरामः शीघ्रमभिषेक्ष्यतइतिपूर्वेणान्वयः । “जनानुरागप्रभवाञ्चसंपद" इत्युक्तेः ॥१८॥ ती० तथापि तस्यवनेविषयसुखनास्तीतिशोचन्तींप्रत्याह- कुशचीरेति । कुशचीरादिधरमपि देवं दीप्यमानं लक्ष्मीः राज्यलक्ष्मीः सीतेव सीतात्मना ॥ १९ ॥ स० लक्ष्मणस्य शय्यारूपत्वाद्राज श्रेष्ठरामपुरतोगमनमुचितमितिध्वन्यते ॥ २० ॥ [ पा० ] १ ङ. छ—ठ. देवतानां. २ ङ. छ. ट. देशेवा. क. ख. झ. वनेवा. ३ ङ. छ. ठ. वने. ४ ज. अभिषिच्यते. ५ क – छ. झ. ञ. ट. विसृजत्यश्रु. ६ क – छ, झ ञ ट जनः सर्वः शोक वेगसमाइतः ७ ख, ग, ङ, छ, ज, झ, ट, वीरं, घ. रामं. ८ ङ, ज, ञ, धनुर्धरवरो,