पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ निस्संशयं मया मन्ये पुरा वीर कदर्यया ॥ पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः ॥ १७ ॥ साहं गौरिव सिंहेन विवत्सा वत्सला कृता || कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ १८ ॥ न हि ताबद्गुणैर्जुष्ट सर्वशास्त्रविशारदम् || एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ १९ ॥ न हि मे जीविते किंचित्सामर्थ्यमिह कैल्प्यते || अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ||२०|| अयं हि मां दीपॆयते समुत्थितस्तनूजशोकप्रभवो हुताशनः ॥ महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान्दिवाकरः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ सुमित्रयाश्रीराममहिमप्रतिपादन पूर्वकंस माश्वासनेन कौसल्यायाः शोकापनोदनम् ॥ १ ॥ विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ॥ इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १॥ तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ॥ किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥ इदं वक्ष्यमाणं ॥ १ ॥ सत्पुरुषाचरितं धर्ममाचर- चामरप्रभः पञ्चविंशतिवर्षइत्यर्थः । अमराहिसदाप - | कल्प्यते दैवेनेतिशेष: । कल्पतइतिपाठे विद्यतइत्यर्थः भ्वविंशतिवर्षाः । लालयन् लालनांजनयन् ॥ १६ ॥ ॥ २० ॥ दीपयते संतापयति । उद्धतप्रभः उत्कंटकि- दया क्षुद्रया | पातुकामेषु स्तन्यपानकामेषु । शा- रणः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- तिताः वियोजिताइतियावत् ॥ १७ ॥ बालवत्सागौ- मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्या- रिव वत्सलासाहं सिंहेनगौरिव कैकेय्याबलाद्विवत्सा ने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ कृतेतिसंबन्धः ॥ १८ ॥ तावद्गुणैर्जुष्टं यावन्तःक- ल्याणगुणाः सन्ति तावद्भिर्गुणैर्युक्तमित्यर्थः ॥ १९ ॥ कालिकसुवृष्टिरिवजनानूलालयन् | त्रिवर्षइवलालयन्नितिपाठे मामितिशेषः । त्रिवर्षइवमाललन्नितिपाठे मा मांप्रति ललन् क्रीडांकुर्वन्नित्यर्थः । स० सुवर्षः शोभनोवर्षोयस्मिन्ससुवर्षः प्राकालः सइव | त्रिवर्षइतिपाठे त्रिषुकालेषुवर्षोवर्षर्णयस्यसः मेघइ- .त्यर्थः । शि० बुद्ध्यावयसाचअपरिणतः परिणामरहितः सर्वकालमपरिणतज्ञानवयोविशिष्टइत्यर्थः । अतएवामरप्रभः अमरान्दे- वानपि प्रभातिप्रकाशयति सधर्मात्मारामः त्रिवर्षः त्रैवर्षिकइव लालयन् अस्माकंलालनाबुद्धिमुत्पादयन् कदाऽभ्युपैष्यति । अन्तर्भावितणिजर्थोभातिः ॥ १६ ॥ ति० वत्सला पुत्रवत्सला सिंहेनगौरिवत्वयाविवत्साकृता । उक्तपातकेनेतिशेषः । एवं ‘कैकेय्या सिंह्याबालवत्सागौरिव बलाद्विवत्साकृता । शि० वत्सला पुत्रविषयकातिवात्सल्यविशिष्टाबालवत्सागौरिव याऽहं सा व कैकेय्या कैकेयीदास्यामन्थरया बलात्हठात् विवत्सागौरिवकृता । स० साहसिंहेन बलात् गौरिव कैकेय्याविवत्साकृतेति । गौरीव अप्रसूतस्त्रीव वन्ध्येवकृता । गौरिवेतिपाठे कैकेयीदशरथयोस्त्यागप्रयोजकत्वादृष्टान्तद्वयं । “गौरीस्यादप्रसूतास्त्री" इतिनानार्थध्वनिमञ्जय ॥ १८ ॥ इतित्रिचत्वारिंशस्सर्गः ॥ ४३ ॥ तनि० सुमित्रामुखेनश्रीरामस्यपरत्वमभिव्यनक्ति – विलपन्तीमित्यादि । इदं वक्ष्यमाणं | जन्मान्तरसुकृतवशेन तारामन्दो- दर्योरिव सुमित्रायाःपरत्वज्ञानमस्तीतिसंप्रदायः । वक्तृवैलक्षण्याञ्चध्वनिभेदः | सचालङ्कारिकैरङ्गीकृतः । धर्मेस्थिता सिद्धधर्मेरामे लग्नचित्ता । यद्वा धर्मे जन्मान्तरसुकृते | धर्म्यं विशिष्टधर्मादनपेतं ॥ १ ॥ तनि० आर्ये महाभागे तवपुत्रः सः वेदान्तवेद्यः पुरुषोत्तमोनारायणः । तत्रहेतुमाह | सद्गुणैर्युक्तः अनितरसाधारणानवधिकातिशयासङ्ख्येयकल्याणगुणैर्युक्तः । “श्रीपतिःपुरुषो- त्तमः” इतिनिघण्टुः । तच्छब्दस्य संनिहित पुरुषोत्तमविशेषणत्वेन वेदान्तप्रसिद्धियोतकत्वात् । अतः पुत्रबुद्ध्यानशोच्यइत्याह- किंतइति । ती० कृपणंयथातथा रुदितेनवाकिं । अयुक्तमेवेत्यर्थः । अहेतुः सद्गुणैर्युक्तः अतएव पुरुषोत्तमः । पुरुषोत्तमस्य नकुत्राप्यपायइतिभावः । ति० पुरुषोत्तमइत्यनेन तस्येश्वरत्वंव्यङ्ग्यं । एवंच सर्वव्यापकत्वेनात्रापिसंनिधानाद्विलापादि व्यर्थमिति [ पा०] १ ख. ज. छादिताः २ ठ. गौरीव ३ ख. ग. घ. च. छ. ज. कल्पते. ४ झ ञ, लक्ष्मणंचमहा. ५ क. छ. झ. ट. दीपयतेयवह्निः. घ. दीपयतेसमुत्सुकः ६ क, छ. झ ट महाहितः, ७ क, ख. घ. छ. ज. झ. रुत्तमप्रभो.