सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ साऽहमेचंगता श्रेष्ठा श्रुतर्धर्मपरावरा || आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् || शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ३२ ॥ तां प्राञ्जर्लिंरभिक्रम्य मातृमध्येऽतिसत्कृताम् || रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥ अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम || क्षेयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च ॥ सौ समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्रुतम् ॥ ३५ ॥ एतावदभिनीतार्थमुक्त्वा स जननीं वचः ॥ त्रयश्शतशैता॒र्धाश्च ददर्शावेक्ष्य मातरः || ३६ ॥ तोश्चापि स तथैवार्ता मातृर्दशरथात्मजः ॥ धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥ संवासात्परुषं किंचिदैज्ञानाद्वाऽपि यत्कृतम् || तन्मे समनुजानीत सर्वाश्थामन्त्रयामि वः ॥ ३८ ॥ वचनं रौँघवस्यैतद्धर्मयुक्तं समाहितम् || शुश्रुवस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ ३९ ॥ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निस्वनः || मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ ४० ॥ मुरजपणवमेघघोषवद्दशरथवेश्म - बभूव यत्पुरा || विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अमितस्य ऐहिकामुष्मिकफलस्य ॥ ३० ॥ एवंगता | त्रिशतं त्रेस्त्रयसादेशः । शतार्धे पञ्चाशत् त्रयश्शतश- एवंविधपातिव्रत्यधर्मप्राप्तां । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठा- तार्धप्रमाणंयासांतास्तथोक्ता: । मातरः मातृ: । द्वि- भ्योमात्रादिपतिव्रताभ्यःसम्यक्श्रुतसामान्यविशेषरू- तीयार्थेप्रथमा । अवेक्ष्य वक्तव्यमालोच्य | ददर्शति पधर्मोत्कर्षा । किमवमन्ये भर्तारमितिसिद्धं ॥ ३१ ॥ संबन्धः ॥ ३६ ॥ तथैवार्ता : कौसल्येवदुःखिताः शुद्धसत्त्वा सत्त्वगुणाढ्या | दुःखहर्षजं रामारण्यग- ॥ ३७॥ संवासात् एकत्रसहवासाच्चिरपरिचयादित्य- मनप्रयुक्तंदुःखं । दृढपातिव्रत्ययुक्तसीतावचःश्रवणजो र्थ: । समनुजानीत क्षान्तमित्यनुज्ञांकुरुतेत्यर्थः । आ- हर्षः ॥ ३२ ॥ अभिक्रम्य प्रदक्षिणीकृत्य ॥ ३३ ॥ मन्त्रयामि आपृच्छामि ॥ ३८ ॥ समाहितं समीची- वनवासस्य वनवासकालस्य ॥ ३४ ॥ सुप्तायाः एक- नार्थयुक्तमित्यर्थः ॥ ३९-४० ॥ मुरजपणवाएवमे- स्यांरात्रौसंप्राप्तस्वापायाइवेत्यर्थः । समग्रं निर्वर्तितपि- घास्तेषांघोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघो- तृवचनं संपूर्णमनोरथंवा ॥ ३५ ॥ अभिनीतार्थ क्रो- पिवाद्यविशेषः । मुरजञ्चपणवश्चमेघश्चमुरजपणवमे- डीकृतसर्वार्थमित्यर्थः । त्रयश्शतशतार्धाञ्च त्रयश्शतं घं “द्वन्द्वश्चप्राणितूर्यसेनाङ्गानां” इत्येकवद्भावः । त- स० एवंगता इत्थंज्ञानवती भर्तैवदैवत मितिज्ञानवतीतियावत् । भावेक्तः । गत्यर्थानांज्ञानार्थत्वात् एवंगतंज्ञान॑यस्यास्सातथा । श्रेष्ठा सत्कुलप्रसूता । श्रुतौधर्माणांपरावरौययासा । श्रेष्ठेइक्विचित्पाठः । तदाकौसल्यासंबोधनं ॥ ३१ ॥ मातृमध्ये सार्धत्रिशत- मातृमध्ये ॥ ३३॥ स० अंब इतः परं दुःखिताभूत्वा राजानंमापश्येः । कुतः वनवासस्यसकाशात् तस्यक्षयोपिक्षिप्रंभविष्यतियतो तइत्यप्यर्थः ॥ ३४ ॥ स० समग्रसीतासहितं । शिo संमग्रं समीचीनः अग्रः अग्रगन्तासंदेशहरइत्यर्थः । यस्यतं ॥ ३५ ॥ स० त्रयश्शतानिशतार्धेचसंख्यापरिमाणंयासांतास्तथा । त्रेस्त्रयसादेशआर्षः । तथाऽर्धशब्दस्यषर निपातश्च । अवेन कान्त्या ईक्ष्याः ताश्चतामातरश्चेतिकर्मधारयः । ति० एवंभूताः या मातरस्सन्ति ताः अवेक्ष्य विविच्य | ददर्शेत्यर्थः ॥ ३६ ॥ स० दशर- थवेश्मसुदुःखितमभूत् । ग्रामोगतआगतइतिवदुपचारः | शि० विलपितपरिदेवनाकुलं विलपितैः कोस्मात्रक्षितेत्यादिवाक्यैः यत्परिदेवनंतेनाकुलंव्याप्तं । बभूव । अतएव व्यसनगतं विविधकर्मकचित्तचालनप्रापकं । अतएवसुदुःखितं अतिदुःखप्रदं । भूत् । श्रोतॄणामितिशेषः ॥ ४१ ॥ इत्येकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ [पा० ] १ क. ह्येषा. २ घ. परायणा. ३ ख. घ. ङ. ज – ट. मन्येयं. ४ ख.. ग. ङ. छ. झ. ट. स्त्रियाभर्ता. ५ ख. दुःखहर्षयोः. ६ क. ख. रभिप्रेत्य. ङ. छ. झ. ट. रभिप्रेक्ष्य. ७ क – घ. अ. धर्मज्ञो. ८ क. ख. घ. ङ. च. न. भूत्वापश्यत्वं. छ. झ. ट. भूत्वापश्येस्त्वं. ९ ख. घ–छ. झ ञ ट क्षयोपि. १० क. सासमक्षमिह ङ. झ ञ ट समप्रमिहसंप्राप्तं. ११ क.. ग. ङ–ट. शतार्थाहि १२ घ. ताश्चैव १३ ङ. च. झ ञ ट दज्ञानादपि..१४ घ. राघवस्यैवतत्वयुक्तं,