पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ रामेण दशरथंप्रतिस्वस्यनिस्सङ्गत्वोत्कीर्तनेनानुयान्त्रिकादिप्रतिषेधन पूर्वकंपरिचारकान्प्रतिचीराद्यानयनचोदना || रामलक्ष्मणाभ्यांपूर्ववस्त्रविसर्जन पूर्वकं कैकेयी दत्तचीर परिधानम् ॥ २ ॥ सीतायांचीरपरिधानाकौशलेन खिद्यमानायांरामेण स्वयंतस्याःकौशेयोपरिपरिबन्धनम् ॥ ३ ॥ वसिष्ठेनसहेतूपन्यासंसीतायाश्चीरधारणप्रतिषेधनेपितयाभर्तृसाधर्म्यकामयाततो भावादनिवर्तनम् ॥ ४ ॥ महामात्रवचः श्रुत्वा रामो दशरथं तदा || अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥ व्यक्तभोगस्य मे राजन्वने वन्येन जीवतः ॥ किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ॥ रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ॥ सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥ खनित्रपिटके चोभे समानयत गच्छत ॥ चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥ अथ चीराणि कैकेयी स्वयमाहत्य राघवम् || उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ ६ ॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ॥ सूक्ष्मवॅस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ ७ ॥ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ॥ तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ८ ॥ अथात्मपरिधानार्थं सीता कौशेयवासिनी ॥ समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ ९ ॥ सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मना: कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ १० ॥ अश्रुसंपूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ॥ गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११ ॥ "6 महामात्रवचः सिद्धार्थवचः । विनीतवत् विनीत | मूलाद्याहरणयोग्याल्पकण्डोल: । “कण्डोलपिटौ ” इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ १ ॥ अनु- इत्यमरः । वासं वसतः । वासंकुर्वतइत्यर्थः ॥५- ६॥ यात्रेण अनुगतबलेन | भोगत्यागेपिसङ्गोवर्ततेलौकि- | सः रामः | कैकेय्याः सकाशात् । मुनिवस्त्राणिपरि- कानांसोपिनास्तीत्याह—त्यक्तसङ्गस्यसर्वतइति ॥ २॥ गृह्य तेषुद्वेचीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमव- कक्ष्यायां इभबन्धनरज्जौ । कक्ष्याप्रकोष्ठेहर्म्यादेः क्षिप्य | अवस्तह आदीघरदित्यर्थः ॥ ७-८ ॥ संत्र- काव्यांमध्येभबन्धने” इत्यमरः ॥ ३ ॥ ध्वजिन्या | स्ता अभववितिशेषः । पृषती मृगी । वागुरां मृगब- सेनया । सर्वाणि त्वयामह्यंदातुमुद्युक्तानि । अनुजा- न्धनीं । " वागुरामृगबन्धनी” इत्यमरः॥ ९ ॥ · नामि प्रददामि । भरतायेतिशेषः । सर्वाणि कार्याणि | व्यपत्रपमाणा विशेषेणलज्जमाना । कैकेयीकुशचीरे सम्यग्जानामीतिवार्थः । चीराणि वल्कलवस्त्राणि । कैकेयीसंबन्धिनीकुशचीरे ॥ १० ॥ धर्मज्ञा पातित्र- आनयन्तु परिचारकाइतिशेषः ॥ ४ ॥ खनित्रपिटके | त्यधर्मज्ञा | धर्मदर्शिनी स्वानुष्ठानेनपातिव्रत्यधर्मप्रद- खनित्रं अवदारणं । पिटकं अल्पार्थेकन्प्रत्ययः । फल- | शिनी बघ्नन्तीतीदमब्रवीदितिसंबन्धः ॥ ११ ॥ । शि० अमात्यराज्ञोर्वचनश्रवणानन्तरकालिकंरामवृत्तमाह - महेति । महामात्रवचः महान्अमात्रःअमात्योयस्य सतस्यवचोव- चनं । किंच महामात्रस्यवचोयस्मिस्तत् उभयवचनमित्यर्थः । श्रुत्वा विनयज्ञोरामः विनीतवत् विशेषनीतिविशिष्टंवाक्यमभाषत । स० विनीतवदित्यनेन सर्वोत्तमस्येदविनयप्रदर्शनंलोकशिक्षार्थमितिसूचयति ॥ १ ॥ स० अनुयात्रेण यापनोपायेन । "या- त्रातुयापनोपाये” इसिविश्वः । व्यक्तसङ्गस्य व्यक्तः दत्तः सङ्गोयेनसतथा । सर्वतइति चतुर्थ्यन्तात्तसिः ॥ २ ॥ ति० एतत्पर्यन्तं मन्थराप्रेरितंसिद्धंकृत्वाब्राह्मणशापप्राप्तलोकासूयाविषयत्वसंपादकंकर्मकैकेय्यारभते - अथेति । सचशापोऽध्यात्मरामायणेस्पष्टः । शि० निरपत्रपा निर्निरन्तरंअपः पालनाभावोयेषुतान्त्रपतेधिक्कारादिनालज्जयतिसा । किंच निर्गतःअपःपालनाभावोयेषांते निरन्तरंपालनकर्तारइत्यर्थः । तांस्त्र पतेलज्जयतिसा विलक्षणपालनकर्त्रीत्यर्थः । कैकेयी जनौघे जनसमूहे । पश्यतिसति ॥ ६ ॥ स० रामदत्तयोश्चीरयोर्द्विलाचीरेइतिद्विवचनं । अतोनपूर्वोत्तरंबहुषचनानुपपत्तिः ॥ ७ ॥ स० तापेनैवसाच्छादनेइतिवा ॥ ८ ॥ [ पा० ] १ घ. महामात्यवचः. २ क–घ. ज. ज. अन्वभाषत. ३ क. च. ममानयतु. ख. ममानयत. ४ क. ख. ग. गच्छतः. ५ ख. वस्त्रंपरिक्षिप्य ६ क―ट संप्रेक्ष्य. ७ क. ख. घ――ट. कैकेय्या. ८ ख. सुशुभेक्षणा. घ. चशुभेक्षणा. 2