पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ कथं नु चीरं बध्नन्ति मुनयो वनवासिनः || इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥ कृत्वा कंण्ठे च सा चीरमेकमादाय पाणिना ॥ तस्थौ ह्यकुशला तंत्र व्रीडिता जनकात्मजा ॥ १३॥ तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः ॥ चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ ॥ रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् || अन्तःपुरता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५ ॥ ऊचुश्च पॅरमायस्ता रामं ज्वलिततेजसम् ॥ वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ॥ तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ १७ ॥ लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक || नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ ॥ कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ॥ धर्मनित्यस्स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥१९॥ तासामेवंविधा वाचः शृण्वन्दशरथात्मजः || बबन्धैव तंदा चीरं सीतया तुल्यशीलया ॥ २० ॥ चीरे गृहीते तु तथा समीक्ष्य नृपतेर्गुरुः ॥ निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २१ ॥ अंतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि || वञ्चयित्वा च रोजानं न प्रमाणेऽवतिष्ठसे ॥ २२ ॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते || ॲनुष्ठास्यति रामस्य सीता प्रकृतमासनम् || २३ || आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् ॥ आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ||२४|| अथ यास्यति वैदेही वनं रामेण संगता || वैयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ ॥ ॲन्तपालाश्च यास्यन्ति र्सेदारो यत्र राघवः || सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ ॥ मुमोह स्तब्धाबभूर्वेत्यर्थः ॥ १२ ॥ तदेवविवृणोति — | अतिप्रवृत्ते अतिक्रम्यप्रवर्तमाने । प्रमाणे मर्यादायां कृत्वेति ॥१३–१५॥ एवं त्वमिव । इयं सीता | वन- “प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु" इत्यमरः ॥ २२ ॥ वासे न नियुक्तेति पित्रेतियावत् ॥ १६ ॥ तावत् त- प्रकृतं प्रस्तुतं । आसनं सिंहासनं । अनुष्ठास्यति अ- वागमनपर्यन्तं । पितुर्वाक्यानुरोधेनविजनंवनंगतस्य | धिष्ठास्यति || २३ || दारसंग्रहवर्तिनां गृहस्थानां । तवदर्शनं अस्यांसफलंभवतु त्वामिवैनांद्रक्ष्यामइतिभा- आत्मेयमिति । “अर्धोवा एषआत्मनोयत्पत्नी " इति वः ।। १७–१८ ।। सीतयेति षष्ठयर्थेतृतीया | बब- श्रुतेरितिभावः ||२४-२५|| अन्तपालाः राष्ट्रान्तप- न्धैवेति कैकेय्यनुज्ञाभावादितिभावः ॥ २०–२१ ॥ रिपालका: । दण्डनायकाः सहोपजीव्यं जीवाजीवरू- शि० एकं कण्ठे कण्ठप्रदेशे स्कन्धइत्यर्थः । एकंपाणिनाऽऽदायतस्थौ । एकमित्युभयान्वयि ॥ १३ ॥ ति० कौशेयस्योप- रीति । तस्याःक़ौशेयत्यागप्रसत्यभावात् ॥ १४ ॥ स० अन्तःपुरचराः पुमांसः नार्यश्च ॥ १५ ॥ स० आयस्ता: क्लेशि- ताः । “आयस्तःक्लेशित”इतिविश्वः । नियुक्ता कैकेय्या | ति० परमायत्ताः परमखिन्नाः । “यत्तः खेदोपस्करयोः” इत्यभिधानं । ॥ १६ ॥ वि० विजनंवनंगतस्ययावदागमनं तावदस्यादर्शनंनोस्तु | तेनच नोजीवन॑सफलंभवतु ॥ १७ ॥ स० सहायेन सहा- यभूतेनलक्ष्मणेन सह अयेन शुभावहादृष्टेन । गच्छेतिवा | स्वपुत्रक पुत्रोनभवतीत्यपुत्रः सुष्टुअपुत्रः स्वपुत्रः तत्त्वेनाज्ञातः स्वपुत्रकः । “अज्ञातेक” इत्युक्तेः । स्वपुत्रश्चासौकश्चेतिवा | कोविष्णुः । गमनानुमतिसूचकपदव्यत्यासोपेतंगच्छस्खेत्येकंवापदम् ॥ १८ ॥ वि० तुल्यशीलयाअनङ्गीकृत नगर स्थित्यासीतयाप्रेरितस्सन्चीरंबबन्धेत्यन्वयः ॥ २० ॥ ती० सप्रमाणेव सद्वृत्तेव | ति० अतिप्रवृत्ते मर्यादातिक्रमेणप्रवृत्ते | यावद्वरस्तावत्प्रमाणे नावतिष्ठसि | कुतः अस्यावनगमनस्यत्वयाऽवृतत्वादितिभावः । सप्रमाणे- वेतिपाठस्तद्व्याख्यानंचनप्रकृतोपयोगीतिचिन्त्यम् ॥ २२ ॥ ति० ननुत्रियाः कथंराज्याधिष्ठानमतआह—आत्माहीति । अनेन स्त्रीपुरुषोपाध्योःपरस्परावयवमेलनंसूचितं । अतएवलोकेपिसर्वतस्तयोः परस्परप्रियवंदृश्यते ॥ २४ ॥ ति० अन्तपालाः शुद्धान्त- [ पा० ] १ क. ख. घ. ङ. छ. झ. ज. ट. कण्डेस्म. ग. ज. स्कन्धेस्म. २ क. ख. सीता. ३ ङ. छ. झ. मागत्य. ४ ङ, च. छ. झ–ठ. चरानार्यो ५ ङ. झ ञ ट परमायत्ताः ६ क. ङ. छ. झ ञ. मैवं. ७ क. तवदर्शनमस्यानः. गट. तावद्दर्शन मस्यानः ८ च. ज. राम. ९ ङ. छ. झ ट तथा १० झ. सबाष्पो. ११ ख अतिवृत्तेसुनिधे १२ क. ख. घ — ट. तुराजानं. १३ घ. सप्रमाणेवतिष्ठसि. ङ. छ. झ. ट. नप्रमाणेवतिष्ठसि १४ ख. ङ. वने. १५ ख अधिष्ठास्यति. १६ क. ङ. च. छ. झ. ञ. वयमत्रानु. १७ घ ङ अन्तःपालाच. १८ घ. ज. सदाराः.