fr सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६१ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ॥ राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥ वहन्तं किं तुदसिं मां निँयुज्य धुरि माहिते ॥ अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥ तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना || कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् || असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ १६ ॥ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् || वीडितश्व जनस्सर्व: सा च तं नावबुध्यत ॥ १७ ॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ॥ शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥ असमञ्जो गृहीत्वा तु क्रीतः पथि दारकान् ॥ सरवाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १९ ॥ तं दृष्ट्वा नागरास्सर्वे क्रुद्धा राजानमब्रुवन् || असमजं वृणीष्वैकमसान्वा राष्ट्रवर्धन ॥ २० ॥ तानुवाच ततो राजा किंनिमित्तमिदं भयम् ॥ ताश्रपि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१॥ क्रीडतस्त्वेष नः पुत्रान्वालानुद्धान्तँचेतनः ॥ सरवां प्रक्षिपन्मौर्यादतुलां प्रीतिमश्नुते ॥ २२ ॥ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ॥ तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥ तं यानं शीघ्रमारोप्य सभार्य सपरिच्छदम् ॥ यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ||२४|| सफालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् || दिशस्सर्वास्त्वनुचरन्स यथा पापकर्मकृत् ॥ २५ ॥ निराखाद्यतमं निर्गतभोग्यवस्तुयुक्तं ॥ १२ ॥ आय- | तरंक्रुद्धेत्यर्थः ॥१५॥ यद्यपिपूर्वमिदंनवृतं तथाप्यर्थसि- तलोचनामितिदैन्योक्तिमूलसौन्दर्योक्तिः ॥ १३ ॥ हे द्धमित्याशयेनाह – तवैवेति । उपारुधदितिनिष्कास- अहिते अहितकारिणि । धुरि वरदानहेतुकभरताभि- नमेवोच्यते । गन्तुमर्हतीतिनिर्देशात् । तथायमिति नि- षेचनरामविवासनरूपदुर्वहमारे | नियुज्य तथावह- र्धनएवेत्यर्थः ॥ १६ ॥ प्रतिज्ञातातिरिक्तेपिचापलव- न्तंमांवत्सतरमिव किं तुदसि व्यथयसि । त्वदाज्ञप्तरा- तींनिन्दति — घिगिति । सा कैकेयी । तं ब्रीडितंजनं । मविवासनकारिणंकिमर्थपुनरपिपीडयसीत्यर्थः । कि- नावबुध्यत नाजीगणत् ॥ १७ ॥ महामात्रः प्रधानः । मधुनापीड्यते पूर्वमेवभवतादत्तंखल्वियत्राह-
- - अना- शुचि: अकुटिलः ॥ १८ ॥ दारकान् बालकान् । ते-
र्यइति । हेअनार्ये आरब्धंकृत्यं सेनाप्रेषणादिकं । पूर्व न प्रक्षेपेण । सशब्दबुद्बुद्जननेनहसन्रमतइत्यर्थः वरप्रार्थनाकाले । किमर्थं नोपारुधः नोपरुद्धवती । ॥ १९ ॥ वृणीष्व अत्रनगरेस्थापय |॥ २० ॥ भयमि- नप्रार्थितवतीतियावत् । वरयाचनाकालेऽनुद्घाटित- |त्यनन्तरमितिकरणंद्रष्टव्यं । प्रकृतयः प्रजाः ॥ २१ ॥ त्वात्सेनाप्रेषणादिकंननिवर्तितव्यमितिभावः ॥ १४ ॥ उद्धान्तचेतनः भ्रान्तबुद्धिः ॥ २२ – २३ ॥ अन्व- द्विगुणंक्रुद्धा प्रकारान्तरेणमदभिमतंविघटयतीतिबहु- शात् अनुशिष्टवान् ॥ २४ ॥ फालं कन्दमूलादिखन- तिसूचितं । तेनभवदादिरहितेनैवरा मेणगन्तव्यमितिव्यञ्जितम् । स० पीतंमण्डंयस्यास्सापीतमण्डा | गुरा चषकं । पानसाधनपात्र- स्थं मण्डपीतं चेत् यथारितंतत्पानगृह्णन्तिएवमितिभावः । 'चषकेऽपिसुराक्कचित्' इतिविश्वः ॥ १२ ॥ ती० आरब्धं किंकृत्यंनो- पारुधः सर्वमुपरुद्धवत्येव । पूर्वमभिषेककृत्यं इदानी मानुयात्रिकप्रदानमारब्धंतदप्युपारुधइत्यर्थः । स० हेमाहिते नहितंयस्यास्सा तथातस्यास्संबुद्धिः माहिते कैकेयि । इदानींयत्कृत्यमारब्धं सर्वसंपयुक्ततयारामप्रस्थापननिरोधनरूपं तत्पूर्वमेव किं कुतः | नोपारुधः धातूनामनेकार्थत्वान्नयाचितवत्यसि । कृत्यं सवैभवरामप्रवासनरूपं यदिदानीमारब्धं तत्पूर्वकिंनोपारुधः नप्रतिबद्धंकृतवतीतिभावः ॥ १४ ॥ ति० जनः कैकेयी सेवकजनः । सर्वस्वामिन्याअसंबद्धप्रलापात् । नावबुध्यत क्रोधवशादितिभावः । स० व्रीडितः एत द्बुद्धिनिवर्तनेसामर्थ्याभावालज्जायुक्तः । जनः प्रकृतिजनः । सा कैकेयी । तं धिक्कारं । राज्यलोभान्नावबुध्यत ॥ १७ ॥ शि० तत्र राज्ञस्तूष्णींभावेन स्थितौसत्यां ॥ १८ ॥ ति० सरय्वाम सुप्रक्षिपत्रमतेतेनकारणेन दुर्मतिस्सः । नतादृशोयमितिभावः ॥ १९ ॥ स० असमञ्जसमेकंवृणीष्व अस्मांस्त्यजेतियावत् । अस्मान्वावृष्णीष्व तमेकंत्यजेत्यब्रुवन् ॥ २०॥ शि० क्रीडतः अतएवोद्भ्रान्तचेतसः अनवस्थितचित्तान् ॥ २२ ॥ शि० यथापापकर्मकृदित्युपमालंकारेणासमञ्जस्यपापकर्मकर्तृत्वाभावस्सूचितः । तेन स्वविषयक- [ पा० ] १ क. नियोज्य. २ ख. वाहिते. ३ ख. ङ. च. ज. ज. ज्येष्ठंपुत्रं. ४ ग. नावबुध्यति. क. ख. नावबुध्यते. ५ घ. महामात्यः ६ क. ख. क्रीडतोदारकान्पथि ७ क – ट. चेतसः ८ क ख पातयन्. ९ घ. ज. तेषां. १० ङ. झ. ट. तान्. ११ ग घ. ज. दुर्गाणिलोलयन्. ख. च. छ. झ ञ ट दुर्गाण्यलोकयत. ङ. दुर्गाणिलोकयन्. वा. रा. ५३