सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० श्रीमद्वाल्मीकिरामायणम् । षत्रिंशः सर्गः ॥ ३६ ॥ दशरथेनसुमन्त्रंप्रतिसेनाधनधान्यकोशादिसंपदांरामंप्रत्यनुयापनचोदने कैकेय्याअसमअदृष्टान्तीकरणेनसंपद्नाहित्येनैव ज्येष्ठस्यापिरामस्यवनंप्रतियापनोक्तिः ॥ १ ॥ सिद्धार्थनाम्नासचिवप्रधानेनासमञ्जदुश्चरितोपन्या सेनरामेतद्वैषम्योपपादनपूर्वकं कैकेयींप्रतिरामाभिषेकविघातनोपरमप्रार्थना ॥ २ ॥ राज्ञाकैकेयींप्रतिसिद्धार्थोक्ता करणेस्वस्यापिरामानुगमनोक्तिः ॥ ३ ॥ ततस्सुमन्त्र मैक्ष्वाकः पीडितोत्र प्रतिज्ञया || सवाष्पमतिनिश्वस्य जगादेदं पुनः पुनः ॥ १ ॥ सूत रत्नसुसंपूर्णा चतुर्विधवला चमू: || राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥ रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ॥ शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ॥ तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥ आयुधानि च मुख्यानि नागरा: शैकटानि च ॥ अनुगच्छन्तु काकुत्स्थं व्याधाचारण्यगोचराः ॥५॥ निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु || नदीच विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ ६ ॥ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ॥ तौ राममनुगच्छेतां वसन्तं ' "निर्जने वने ॥ ७ ॥ यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः || ऋषिर्भिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति ॥ सर्वकामैः सह श्रीमान्राम: संसाध्यतामिति ॥ ९ ॥ एवं युवति काकुत्स्ये " कैकेय्या भयमागतम् || मुखं चोप्यगमच्छोषं स्वरश्चापि न्यैरुध्यत ॥१०॥ सा विषैण्णा च संत्रस्ता मुखेन परिशुष्यता || राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥ राज्यं गतजनं साधो पीतमण्डां सुरामिव || निराखाद्यतमं शून्यं भरतो नाभिपत्स्यते ।। १२ ।। १४० [ अयोध्याकाण्डम् २ ततः कैकेयीसंमत्यभावानन्तरं । अत्र वरदानवि- | राज्यस्येति “अधीगर्थदयेशांकर्मणि" इतिषष्ठी ॥६॥ षये ॥ १ ॥ अनुयात्रार्थ प्रतिविधीयतां प्रेष्यताम् कोशोवासस्थानम् । अनुगच्छेतां गोण्युष्टादिमुखेनेति ॥ २ ॥ रूपाजीवाः वेश्याः । “वारस्त्रीगणिकावेश्या- शेषः ॥ ७ ॥ विसृजत् दददितियावत् । दक्षिणाः रूपाजीवा" इत्यमरः । वादिन्यः परचित्ताकर्षणच- यज्ञदक्षिणाः ॥ ८ ॥ अयोध्यांपालयिष्यतीतिसोपाल- तुंरवचना: | सुप्रसारिताः शिबिरदेशेपण्यपदार्थप्रसा- भोक्तिः । सर्वकामै: सह संसाध्यतां प्रस्थाप्यतां । इ- रणंकुर्वन्तः ।। ३ ।। एनं रामं । बहुविधं सुवर्णरत्नव- तिशब्दोनियोगसमाप्तिवाचकः ॥९–१०॥ मुखेनेत्यु- स्त्रादिकं । अत्र वाहिन्यां ॥ ४ ॥ आयुधानि आयुध- पलक्षणेतृतीया ॥ ११ ॥ पीतमण्डां "मण्डंदधिभवं धराः । नागराः नगरजा: श्रेष्ठिन: । शकटानि तैलघृ- मस्तु" इतिमण्डशब्दोयथाद्धिसारवाचकस्तद्वदत्राषि तादिप्रापकाणि । व्याधाः वनेमार्गदर्शिनः ॥ ५ ॥ | मण्डशब्देनसुरासारउच्यते । साधोइतिसहासोक्तिः । तत्रदृष्टान्तः शि० चतुर्विधबला चतुर्विधानि स्थादिचतुष्टयप्रकाराणि बलानि वीर्याणि यस्यांसा चमूः ॥२॥ स० नादिन्यः सुखराः ॥ ३॥ ति० अरण्येकोविदाः अरण्यमर्मज्ञाः ॥ ५ ॥ शि० हननयोग्यानपिमृगादीन् निघ्नन् निवर्तयन् । प्रसिद्धश्च निपूर्वकहनोनिवर्तना- र्थकत्वं “शिष्ट॑निघ्नन्ति कंपितं" इत्यादिना वेदभाष्ये । तत्रवधोनार्थः शब्दानाम नित्यत्वापत्तः । मतान्तरे पिशब्दानांप्राणसंबन्धाभावे- नप्राणवियोगानुकूलव्यापारार्थस्यात्रासंभवात् ॥ ६ ॥ स० रामः संसाध्यतां प्रस्थाप्यता मितिजगा देतिसर्गादिश्लोकेनान्वयः ॥९॥ शि० भयं क्षुद्रराक्षसवधफलकनिखिल परिवारगमन हेतुकलोकापवादभीतिं ॥ १० ॥ शि० हेसाधो प्रव्राजनसाधक | गतजनं गताः जनाः पित्रादयोयस्मात्तत् । निराखाद्यतमं आखाद्यतमपित्रासंमाननादिसुखरहितं राज्यं नाभिपत्स्यते पीतमण्डां पीतसारांसुरां । जनाइव | किंच पीतःमण्डोदधिसारोयस्यास्तां । सुरां सुदत्तांदधिव्यक्तिमिव । एतेनभरतोपिसहैवगन्ते- [पा०] १ क. जगादैनं. च. जगादैवं. २ ग. घ. छ. झ ञ. पुनर्वचः ३ घ. चतुरङ्गबला. ४ क. ख. घ. ज. शालिन्यः, ठ. नादिन्यः ५ ख ङ. छ. झ. वाहिनीः ६ क. ख. च. बहुधनं. ७ ख. घ. शाकटानि. ८ क. ख. ङ. च. छ. झ. ज. ट. कोविदाः ९ ङ. च. छ. झ ञ ट राज्यं संस्मरिष्यति. १० ख. घ. विजने ११ च ज श्राभिसंगम्य ङ. छ. झ. ट, श्चापिसगम्यं॰ १२ ख. घ– छ. झ ञ ट कामैः पुनः ज. कामफल: १३ ङ. च. ज. इति. १४ च. ज. कैकेयीभयमागता. १५ ख. घ. च. छ. ञ, चास्यागमच्छोषं. १६ क. ङ. च. छ. झ. ज. . व्यरुध्यत. १७ क. विवर्णा. १८ ङ, छ, झ. गतधनं.