पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 1 4

सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ सत्यवाद्य प्रवादोऽयं लौकिक: प्रतिभाति मा | पितृन्समनुजायन्ते नरा मातरमङ्गनाः ॥ २८ ॥ 'नैवं भव गृहाणेदं यदाह वसुधाधिपः || भर्तुरिच्छामुपाखेह जनस्यास्य गतिर्भव ॥ २९ ॥ मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् || भर्तारं लोकभर्तारमसद्धर्ममुपादाः ॥ ३० ॥ न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः ॥ श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥ ३१ ॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता || रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ||३२|| परिवादो हि ते देवि महाल्लोके चरिष्यति ॥ यदि रामो वनं याति विहाय पितरं नृपम् ॥ ३३ ॥ सं राज्यं राघवः पातु भव त्वं विगतज्वरा ॥ न हि ते राघवादन्यः क्षमः पुरवरे वैसेत् ॥ ३४ ॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् || प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ ३५ ॥ इति सान्त्वेश्च तीक्ष्णैश्च ” कैकेयीं राजसंसदि || सुँमत्रः क्षोभयामास भूय एव कृताञ्जलिः ॥३६॥ नैवें सा क्षुभ्यते देवी न च स परिदूयते ॥ न चास्या मुखवर्णस्य "विक्रिया लक्ष्यते तदा ॥३७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ हं असदर्थाभिनिवेशम् ॥ २७ ॥ सत्यइति मा मां । र्थः । वदान्यः उदारः । स्वधर्मपरिरक्षिता स्वधर्मस्य प्रतिभातीत्यन्वयः। “अभितः परितः —" इत्यादिना दुष्टनिग्रहपूर्वकशिष्टपरिपालनरूपक्षत्रियधर्मस्य परिर- प्रतियोगेद्वितीया । पितृन्समनुजायन्ते अत्रेतिकरणं | क्षिता । बलीरामोभिषिच्यतां त्वयेतिशेषः । अभिषे- द्रष्टव्यं । पितृसमानलक्षणाजायन्तइत्यर्थः । अङ्गनाः कानुमतिः क्रियतामित्यर्थः ॥ ३२ ॥ परिवादः अप्वा- पुत्र्यः || २८ ॥ नैवंभवेतिपाठ: । नेयाभवेतिपाठे दः । दोषवादइत्यर्थः || ३३ || तेपुरवरे हि यस्मा- नेया नेतुंयोग्या विधेयाभवेत्यर्थः । वसुधाधिपोयदाह त्कारणात् क्षमोराघवादन्योनवसेत् अतःसराघवोरा- “श्वएवपुष्योभविताश्वोऽभिषिच्येतमेसुतः” इतियद्व- ज्यंपात्वितिसंबन्धः । यद्वा राघवादन्यःपुरवरेराज- चनमाह । इदंगृहाण । अस्यजनस्य पौरजानपदस्य । ग तयावसन्भरतः ते तिः शरणं । इतिसान्त्वोक्तिः ॥ २९ ॥ असद्धर्म कनि- नक्षमः नयुक्तः । कनिष्ठस्त्वयारा- ज्येस्थापयितुंनयुक्तइत्यर्थः । हिते हितकरणे । नक्षम ष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं । मोपाधाः माग्राहय ||३०||एवंक्रियमाणेममवरस्यकागतिरित्याशय प्रका- इतिवा ॥ ३४ ॥ पूर्ववृत्तं इक्ष्वाकुकुलक्रमागतवृत्तं रान्तरेणगतिर्भविष्यतीत्याह – नहीति । प्रतिज्ञातं प्र- ॥ ३५-३६ ॥ मुखवर्णस्य उम्रमुखवर्णस्य || ३७ ।। तिश्रुतं । वरद्वयं । तन्मिथ्यानकरिष्यति राज्यादण्य- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- धिकमूल्यरत्नभूषणसंमानादिभिस्सफलंकरिष्यतीत्यर्थः तांबराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंशः |॥ ३१ ॥ रामस्य राज्याभिषेकार्हतासाधनगुणानाह- सर्गः ॥ ३५ ॥ ज्येष्ठइति । कर्मण्यः कर्मणिसाधुः । सदाचारपरइत्य- [ पा० ] १ ङ. च. छ. झ. ञ. क्षात्र. २ ङ – ज. मां. ३ ख. वर्तन्ते. ४ क. ख. च. ञ. नेया. ५ ख. प्रोत्सादितापापे. ६ घ. च. ज. कर्तारं. ७ ख. घ. ङ. च. झ ञ. स्वधर्मस्थापि. क. ग. ज. स्वधर्मस्याभि. छ. स्वधर्मस्यास्य. ८ च. देवि. ९ ङ च छ. झ ञ ट. स्वराज्यं. १० ङ. छ. झ ट वसन्. ११ ख. तीक्ष्णैश्चसान्त्वैश्च १२ ख केकयजन संसदि, १३ ङ. च. छ. झ. ञ. ट, भूयः संक्षोभयामाससुमन्त्रस्तु. १४ ख नच. १५ क. ख. ग. ङञ. लक्ष्य तेविक्रिया.