पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च ॥ वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥ एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च तोम्यमानः ॥ आलिज्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ।। ६० ।। देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् ॥ रुदन्सुमन्त्रोपि जगाम मूर्च्छा हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ सुमन्त्रेणस कोपाटोपंकैकेयीमनःक्षोभायतन्मातृदुर्वृत्तकथनपूर्वकमुपालंभेनपुनः सानुनयंपरिसान्त्वने नचप्रयत नेपितम्मनसि- क्षोभानुदयः ॥ १ ॥ १५६ ततो निर्धूय सहसा शिरो निश्वस्य चासकृत् || पाणि पाणौ विनिष्पिष्य दन्तान्कटकटाप्य च ॥ १ ॥ लोचने कोपसंरक्ते वर्ण पूर्वोचितं जहत् ॥ कोपाभिभूतः सहसा संतापमशुभं गतः ॥ २ ॥ मन: समीक्षमाणश्च सूतो दशरथस्य सः ॥ कंपयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ ३ ॥ वाक्यवत्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः || कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥ ४ ॥ यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् || भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च || न कार्यतमं किंचित्तव देवीह विद्यते ॥ ५ ॥ " ममदुःखंभविष्यतीतित्वयान क्लेष्टव्य मित्याह – फला- सुमत्रस्यकैकेयीविषयकोपानुभावंदर्शयति-ततइ- नीति' । निर्वृतिः सुखं ॥५९॥ एवं उक्तवन्तमितिशेष: । त्यादि | कटकटाप्य कटकटाशब्दयुक्तान्कृत्वा । कट- त्वग्दाहोत्पादकः शोकः । दुःखं अन्तर्व्यथोत्पादकं । कटाशब्दात् “तत्करोति — "इतिण्यन्ताहयप् ॥ १ ॥ नचिचेष्ट नचेष्टतेस्म ॥ ६० ॥ तां “ रामतस्मादितः कोपसंरक्ते कृत्वेतिशेषः । वर्ण देहकातिं । पूर्वो- शीघ्रंवनंगन्तुंत्वमर्हसि ” इत्यायुक्तक्रौर्ययुक्तांकैकेयीं । चितं पूर्वाभ्यस्तं | स्वाभाविकमित्यर्थः । जहत् त्यज- हाहाहाहाशब्दस्करणयस्मिंस्तत्तथा । सर्वं न् । कोपरक्ताङ्गइत्यर्थः । अशुभं तीव्रमित्यर्थः ॥ २ ॥ परिचारकादिजनजातं ॥ ६१ ॥ इति श्रीगोविन्दरा- मनःसमीक्षमाणः कैकेयीविषयस्नेहरहितंजानन्नित्य- जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अ- र्थः । सूतः सारथिः ॥ ३ ॥ आशुगैरिव बाणैरिव योध्याकाण्डव्याख्याने चतुत्रिंशः सर्गः ॥ ३४ ॥ स्थितैः । वाक्यवज्रैः वाक्सारैः । मर्माणि मर्मतुल्या- दोषान् । निर्भिन्दन् प्रकाशयन् ॥ ४ ॥ यस्यास्तव । कानृतत्वस्यातिकष्टत्वंसूचितम् । तेनतवमरणे नमेदुः खनापिपापं यथातवानृतत्वकरणेइतिसूचितम् ॥ ५८ ॥ शि० व्यसनाभिपन्न: व्यसनं रामकर्मकाभिषेकत्यागः अभिपन्नप्रापितंयेनसः । किंच व्यसनं राजवृत्तान्तत्यागं अभिपन्नःप्राप्तः । शोकेनदुःखेनतत्का- र्येणचपीड्यमानः । अतएव विनष्टसंज्ञः कार्याकार्यविवेकरहितः । स० व्यसनाभिपन्नः वेः परमात्मनः असनं निरसनं अभिपन्नः प्राप्तः । राम॑वनेप्रेषितवानितियावत् । दुःखेन आन्तरेण । तापेन बहिष्ठेनज्वरादिना । विनष्टसंज्ञः अव्यक्तापत्यभगवद्बुद्धिः । भूमिंग- तःलौकिकंकिंचिन्नविवेद ॥ ६० ॥ शि० तां मुख्यां | नरदेवपत्नीं कौसल्यां वर्जयित्वारुरुदुः । अनेन तस्यास्तात्कालिकशोकाभा- वस्सूचितः । तेन रामोपदेशस्याघटित घटनापटीयस्त्वंव्यक्तम् । स० रुदञ्जगामेत्यत्र लड्भूतार्थे । “धातुसंबन्धेप्रत्ययाः” इतिस्मर- णात् । वसन्ददर्शेतिवत् । सर्वे चेतनजातं | हाहाकृतं भावेक्तः | हाहेतिकृतंकरणंयस्यतत्तथा ॥ ६१ ॥ इतिचतुस्त्रिंशस्सर्गः ॥३४॥ शि० कैकेय्याः हृदयं | हृत् हृदयं अयते अन्यविषयंप्रापयतितत् । मन्थरामित्यर्थः । सामान्येनपुंसकं । कंपयन्निव ॥ ३ ॥ [ पा० ] १ ङ. च. झ ञ ट तापेन. २ ख. ताड्यमानः ङ. च. झ ञ ट पीड्यमानः ३ च. छ. ञ. भूमिं. ४ क. ख. च. छ. ञ. ठ. विवेद. ५ ङ च छ. झ ञ ट . देव्यःसमस्ताः ६ ज. घ. पाणौपाणिं. ७ ङ. छ. ञ. ट. कटकंटाय्य. ८ ङ. झ. ट. रथस्यच. ९ ङ. छ. ज. झ. ट. चाशुभैः १० च. ज. कर्माणि ११ ख. ह्यकार्यमतः.