१५४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न चैतन्मे प्रियं पुत्र पे सत्येन राघव || छन्नया चॅलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥३६॥ वञ्चना या तु लॅब्धा मे ती त्वं निस्तर्तुमिच्छसि ॥ अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः॥३७॥ न चैतदाचर्यतमं यस्त्वं ज्येष्ठः सुतो मम || अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ ३८ ॥ अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ॥ लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ ३९ ॥ प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ॥ अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ ४० ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला || मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ॥ ४२ ॥ यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया || दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ ४३ ॥ अहं निदेशं भवतो यथोक्तमनुपालयन् || चतुर्दश समा वत्स्ये वने वनचरैः सह ॥ ४४ ॥ मा विमर्शो वसुमती भरताय प्रदीयताम् || न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् || यथा निदेशं कर्तुं वै तवैव रघुनन्दन ॥ ४५ ॥ अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः ॥ न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ ४६ ॥ नैवाहं राज्यमिच्छामि न सुखं नच मैथिलीम् ॥ नैव सर्वानिमान्कामान्न स्वर्ग नैवें जीवितम् ॥४७॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ || प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ ४८ ॥ प्रियान् अभिमतवर्गान् ॥ ३५ ॥ छन्नया गूढाभिप्रा- | णान् गुणविशिष्टाभिमतपदार्थान् । सर्वकामैरपक्रमण- यया । चलित: स्वाधीनत्वाञ्चलनंप्राप्तः । पाठान्तरे | मेववृणे | सर्वकामप्रतिनिधित्वेनापक्रमणमेववरयइत्य- इत्यर्थः । न्नाग्निकल्पया भस्मच्छन्नाङ्गारतु- र्थः ॥४०॥ विसृष्टा व्यक्ता ॥४१॥ वनवासेत्यर्धमेकंवा- ल्यया || ३६ ॥ यावञ्चना सामान्येनप्रतिश्रुतयो- क्यं ॥४२॥ अत्रसइत्यध्याहायै । निखिलेन सर्वात्मना । र्वरयोर्भरताभिषेचनत्व द्विवासनरूपविशेषपर्यवसायि- अतस्त्वंसत्यः सत्यवचनः भव ॥४३॥ निदेशं शासनं | त्वरूपा । मे मया । लब्धा । तामपिवञ्चनां वृत्तसा- " निदेश:शासनं " इत्यमरः । वनचरै: तपस्विभिः दिन्या कुलोचिताचारनाशिन्या । अनयाप्रचोदितस्त्वं ॥ ४४ ॥ भवराजानिगृह्यमा मित्यस्योत्तर माह – मेति । निस्तर्तुमिच्छसि समापयितुमिच्छसि । अंहोतेगुणइ - माविमर्श: विचारोमाभूत् । आत्मनि मनसि | सुखं तिभावः ॥ ३७ ॥ अपानृतकथं अपगतासत्यवचनं प्रियंवाउद्दिश्य राज्यंनकाङ्क्षितं । अपितु तवनिदेशं त- ॥ ३८ ॥ भाषितं एकाहदर्शनेनापीत्यायुक्तं । दीनः वाज्ञां | यथाकर्तुमेव यथावत्कर्तुमेवेत्यर्थः ॥४५-४७॥ एकाहमपिपितृदर्शनसौख्यंनलब्ध मितिदीनः ॥ ३९ ॥ अहं त्वां सत्यं सत्ययुक्तमिच्छामि । अनृतं अनृतयु - तर्पितःसर्वकामैरित्यस्योत्तरमाह - प्राप्स्यामीति | गु- | क्तं नेच्छामि । तवप्रत्यक्षं प्रत्यक्षदैवभूतस्यतवसन्नि- ॥ ३४ ॥ शि० अदीनः सर्वकालंदीनत्वाभावविशिष्टः ॥ ३९ ॥ ति० यद्वा अद्यप्रयाणेसतियान्गुणान् प्रतिज्ञापालनजधर्मरूपान्प्रा- प्स्यामि इंवोगमनेकस्तान्दास्यतिप्रत्युताधर्म एव ॥ ४० ॥ शि० क्षुभ्यति मर्यादांत्यजति ॥ ४६ ॥ स० अहंराज्यं अहङ्कारतत्वा- भिमानिरुद्रराज्यं । कैलासाधिपत्यमितियावत् । “महतश्चतुर्मुखात्" इतिवदभिमान्यभिमन्यमानयोरैक्यव्यपदेशः | सुखं वरुण- लोकं । “सुखंपुर्याप्रचेतसः” इतिविश्वः | मेदिनीं भूलोकं । कामान् काम्यान्धनादीन् ॥ ४७ ॥ स० सत्यं सत्यभाषिणं । त्वां [ पा० ] १ क. कर्म. २ ख. चलितस्त्वद्य. घ. छुरितस्त्वस्मि. ज. चलितश्चास्मि ३ ङ छ - ट. भस्माग्नि ४ घ. वृध्वामे. ५ ख. तांच. ६ क. मर्हसि. ७ ख. अनयाऽप्रियवादिन्या. ज. जनन्यावृत्तसादिन्या. ८ घं. तर्तु. ९ ङ. च. छ. श. ञ. ट. स्तदा. १० क – घ. ज. निसृष्टा ११ ङ. छ. झ. ट. यस्तुयुद्धे १२ ज. हितं. १३ ङ. छ. झ. ट. मेदिनीं, १४ ङ. झ. नचजीवितुं. च. छ. ज. ज. ट. नचजीवितं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५८
दिखावट